________________
416 33 मो
कर्णपेया सुधेवान्या धुसदां ददती मुदम्। मध्येसुधर्मं तत्कीर्तिरप्सरोभिरगीयत ॥ वपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा, विशीर्णा दन्ताली श्रवणविकलं कर्णयुगलम्। निरालोकं चक्षुस्तिमिरपटलध्यामलमहो, मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥ नैवास्ति राजराजस्य यत्सुखं नैव देवराजस्य । तत्सुखमिहैव साधो र्लोकव्यापाररहितस्य च ॥ वसन्ते शीतभीतेन कोकिलेन वने रुतम्। अन्तर्जलगता: पद्माः श्रोतुकामा इवोत्थिताः ।। मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः । यो मूर्तानामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम्॥ आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः। आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ सीता-स्वयंवरायाथ विद्याधरनरेश्वराः। तत्य जनकाहूता अधिमञ्चमुपाविशन् । ततः सखीपरिवृता दिव्यालङ्कारधारिणी। भूचारिणीव त्रिदशी तत्रोपेयाय जानकी । यत्प्रातस्तन्न मध्याह्ने यन्मध्याह्नेन तनिशि। निरीक्ष्यते भवेऽस्मिन्ही पदार्थानामनित्यता॥ त्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ। त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥ यदुवंशसमुद्रेन्दुः कर्मकक्षहुताशनः । अष्टिनेमि भगवान् भूयाद्वोऽरिष्टनाशनः ।।
૨૩૬