________________
પાઠ ૧૫ મો વાક્યો विस्मय-स्मेरदृष्टिभिः पौरैरनेकप्रकारमभिनन्द्यमानः स राजा परां मुदमधत्त। विधेहि सर्वशक्त्या महात्मन्नात्मनो रक्षाम्। केनापि सार्धं मेधावी विरोधं विदधीत न । अदत्तं नाऽऽददीत स्वं तृणमात्रमपि क्वचित् । यो हि 'मितं भुङ्क्ते स बहु भुङ्क्ते। यो हि दद्यादपात्राय संज्ञानममृतोपमम्। स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम्॥ गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ हत्वा गुरूनपि लघून्वञ्चयित्वा छलेन च । यदुपादीयते राज्यं, तत्प्राज्यमपि मास्तु मे ।। प्रसीद विवरं देहि, स्फुटित्वा देवि ! काश्यपि!। अभ्रादपि पतितानां, शरणं धरणी खलु ॥ यथा चिन्तामणिं दत्ते, बठरो बदरी-फलैः । ह हा जहाति सद्धर्मं तथैव जन-रञ्जनैः ।। ज्ञान-मग्नस्य यच्छर्म, तद्वक्तं नैव शक्यते। नोपमेयं प्रियाश्लेषै पि तच्चन्दन-द्रवैः॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुक्ते तस्य तृतीया गति भवति ।। कोऽलङ्कारः सतां? शीलं, न तु काञ्चन-निर्मितम् । किमादेयं प्रयत्नेन ? धर्मो, न तु धनादिकम् ।। अजित्वा सार्णवामीमनिष्ट्वा विविधै मखैः।
अदत्त्वा चार्थिभ्यो दानं, भवेयं पार्थिवः कथम् ? ॥ १. मितं- प्रमाणयुक्तम्।