________________
टिप्पनक-परागविवृतिसंवलिता
प्राज्यप्रभावः प्रभवो धर्मस्याऽस्तरजस्तमाः। ददतां निश्रुतात्मा न आद्योऽन्येऽपि मुदं जिनाः ॥२॥ [भविपुला]
__ टिप्पनकम्-ददतां ददातु, 'दद दाने' अस्य पञ्चम्यात्मनेपदैकवचने तामि रूपम् । कः ? जिनः, बचनविपरिणामेन सम्बन्धः । कीदृशः ? निर्वृतात्मा मुक्तस्वरूपः, रागादिरहित इत्यर्थः । पुनः किनामा? आद्यः ऋषभनाथः । कां ददताम् ? मदं धर्मादिप्रकाशकत्वेन हर्षम् । केषाम् ? नः अस्माकम् । न केवलमाद्यो जिनः, अन्येऽपि जिना ददर्ता प्रयच्छन्तु, 'दादाने' अस्य पञ्चमीपरस्मैपदबहुवचने अन्तामि रूपम् । तेऽपि कीदृशाः ? निर्वतात्मानो मुक्तस्वरूपाः। काम् ? मदम् । केषाम् ? वायुष्माकम् । किंभूत आद्यः ? किंभूताश्चान्ये जिना अजितादिवर्धमान्ताः? प्राज्यप्रभाव: प्रचुरानुभावः, प्राज्यप्रभाः प्रचुरतेजसस्तथा। प्रभवो जनकः, कस्य ? धर्मस्य भहिंसादिलक्षणस्य, प्रभवः स्वामिनस्तथा। अस्तरजस्तमाः अस्ते क्षिप्ते अपनीते रजस्तमसी बध्यमान-बद्धे बद्ध-निकाचिते वा कर्मणी येन स तथोक्तः, अस्तरजस्तमाः अस्त्रं रजः पापं यैस्ते तथोक्ताः, अतिशयेन अस्तरजसोऽस्तरजस्तमाः, प्रकर्षे तमादिस्वात् तमप्रत्ययः । इत्येकवचन-बहुवचनश्लेषः ॥ २॥
परागाभिधा विवृतिः-अथाऽऽद्येन पद्येन जिनसामान्यमनुनीय जिनविशेषमनुनेतुकामः कविश्चतुर्विंशतितीर्थकरेध्वायत्वेन भगवन्तमृषभनाथमनुनयन्नेकेनैव पद्येन वचनश्लेषभन्याऽन्यानपि जिनाननुनयति-प्राज्यप्रभाव इति । 'अस्तरजस्तमाः, धर्मस्य प्रभवः, प्राज्यप्रभावः, निर्वृतात्मा, आधो जिनो नो मुदं ददताम्' इत्याद्यजिनपक्षेऽन्वयः, 'अस्तरजस्तमाः, धर्मस्य प्रभवः, प्राज्यप्रभाः, निवृतात्मानः, अन्येऽपि जिनाः,वः, मुदं ददताम्' इत्यन्यजिनपक्षेऽन्वयः । अस्तरजस्तमाः अस्ते ज्ञानसुखादिधर्मणा सत्त्वगुणेन अभिभूते रजस्तमसी दुःखमोहात्मको रजोगुण-तमोगुणौ यस्य सः, उद्भूतसत्त्व इत्यर्थः । अत एव धर्मस्य अभ्युदयनिश्रेयसहेतोरहिंसादिरूपस्य,प्रभवः प्रभवत्यस्मिन्निति व्युत्पत्त्या उद्भवास्पदम् , प्रभवति येनेति व्युत्पत्त्या परितः प्रचारणादिना तदुद्भवहेतुश्च, 'धर्मों ज्ञानं विराग ऐश्वर्यम् , सात्त्विकमेतद्रूपम्' इति सायसमयेन धर्मादिधर्माऽपि सत्वगुणः स्वविरुद्धवृत्तिकमन्यगुणद्वयमनभिभूय न शक्नोति धर्मादिरूपेण परिणन्तुमिति तत्र तदुद्भवोपयोगः । ननु सत्त्वगुणोद्भवो नाकस्मिकः, सर्वदा सर्वत्र च तदापत्तेः, अपि तु धर्महेतुक एवेत्यन्योऽन्याश्रय इति चेत् , न-“पुण्यो वै पुण्येन भवति" “पापो चै पापेन" इति श्रुतिसाक्षिकाऽनादिताकस्य तस्य बीजारयोरिव कार्यकारणभावाव्याघातकत्वात् । यतस्तथाभूतः, अतःप्राज्यप्रभावः प्राज्यो निरतिशयः, लोकोत्तर इत्यर्थः, प्रभावः शारीरिककान्तिरूपं बाह्यम् , आध्यात्मिकं चाणिमादिशक्तिरूपं तेजो यस्य सः "सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनम्" इति योगशास्त्रेण “धर्मेण सूर्यस्तपति" इति श्रुत्या च बाह्यतेजसोऽपि धर्मप्रयोज्यत्वात् । यतस्तादृशप्रभाववानतो निर्वृतात्मा निर्वृतः-अनुभूताखिलसौख्यः, रागादिराहित्येन सुस्थः, सकलकर्मक्षयान्मुक्तिं गतो वा आत्मा यस्य सः। आद्यः तीर्थप्रवर्तकेषु प्रथमः, भगवान् ऋषभनाथ इत्यर्थः । नः अस्मभ्यम् । मुदं कैवल्यकल्याणम् । ददताम्, अनुभावयताम् ।
अन्यजिनपक्षे-अकारान्ततमशब्दस्यापि तमोगुणवाचकस्य सत्त्वात् 'अस्तरजस्तमाः' इति बहुवचनान्तमूहनीयम, तदुक्तं शब्दस्तोममहानिधौ-'तम, पु०, ताम्यति तम्-अच् । तमोगुणे, मतान्तरे राही च' इति । अत एव धर्मस्य उक्तरूपस्य, प्रभवः खामिनः, व्यवस्थापकाः प्रतिष्ठापकाश्चेत्यर्थः । अत एव प्राज्यप्रभाः निरतिशयबाह्यान्तरिककान्तयः । अत एव निवृतात्मानः, अन्येऽपि आद्यव्यतिरिक्ता अपि, अजितादयो वर्धमानान्तात्रयोविंशतिस्तीर्थकरा इत्यर्थः । वः युष्मभ्यम्। मुदम् उक्तरूपाम् , ददताम् अनुभावयन्तु, अत्र पक्षे ददातेः पञ्चम्यां [ लोटि ] प्रथमपुरुषबहुवचनान्तमिदं क्रियापदम् , आद्यपक्षे तु ददतेः पञ्चम्यां प्रथमपुरुषैकवचनान्तमिति बोध्यम् । अत्र पूर्वपूर्वपदार्थस्योत्तरोत्तरपदार्थहेतुतया काव्यलिङ्गालङ्कारः, एकवचनबहुवचन लेषः, 'पावनः पवनः' इत्यत्रेव 'प्रभावः प्रभवः' इत्यत्र छकानुग्रासः, आये पदे समजश्लेषश्चेत्येकाश्रयानुप्रवेशात् तेषां संकरः, एवम् 'अस्तरजस्तमाः' इत्यत्र सकार-तकारेष्वपीति बोध्यम् ॥ "प्रभावस्तेजसि शक्ती” इति, “अथ निर्वृतिः । मोक्षे मृत्यौ मुखे सौस्थ्ये” इति चानेकार्थसङ्ग्रहः । “प्राज्यं प्रभूत
ormeramme प्रचुरमददँ बहुलं बहु" । इत्यमरः ॥
व्यक्तिपक्षमाश्रित्येदं भविपुलावृत्तम्, 'निवृत्तात्मानः' इति पाठादरे तु तृतीयपादस्य मविपुलात्वात् प्रथमपादस्य भबिपुलात्वात् सङ्कीर्णविपुलावृत्तम् ॥२॥
पाठा०-१ निवृत्तात्मा' इति पाठमाइत्येदं व्याख्यानमाभाति, तादृशपाठे संकीर्णविपुलाया।