SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-मरागविवृतिसंचलिता १५४ भूयो जगाद - 'नृपचन्द्र ! योऽयमसदृशभक्तिहृतहृदयेन महापुरुषचित्तवृत्तिसहचरीमौचित्यमुद्रामाद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थमुपकल्पितस्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव मया प्रदत्तः सर्वथा प्रयत्नेन रक्षणीयः, यदा च नवयौवननिया प्रतिपन्न सर्वाङ्गस्तवानजो भविष्यति तदा तस्य भूषणार्थमुपनेतव्यः । यद्यपि सुचिरकालसंचितेन सततानुगामिना सद्भृत्येनेव शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवर्तीन्येव दुरितानि, तथापि नीतिरनुसर्तव्या, यतोऽस्य संग्रामभूमिमवतरतोऽपि विपक्षदुर्गाणि गाहमानस्य विषमाटवीषु कार्यवशेन विशतोऽन्येषु च संभाव्यमानापत्तिषु स्थानकेषु व्यवहरतोऽसौ विशेषतः संनिधापयितव्यः सर्वदा निर्विघ्नमस्तु ते प्रयोजनम् [ब] अनुजानीहि मां गमनाय, मयाऽपि प्रसङ्गेनैव निर्गतया निजनिवासात् कतिचिदप्यहानि दक्षिणाशाविभूषणेषु त्रिकूट मलयाविषु वेलापर्वतेषु क्षीरोदप्रभृतिषु महार्णवेषु नन्दीश्वरप्रमुखेषु द्वीपेष्वन्येषु चातिरमणीयेषु प्रदेशेषु विहृत्य भूयस्तत्रैव तुहिनाचलशिखरवनराजिराजतदर्पणे स्वसद्मनिं पद्मनानि महाहदे गन्तव्यम् । त्वमपि मदनुशया गच्छाधुना स्वभावासम् , श्रीरिति शेषः । किमित्याह - नृपचन्द्र ! भो नृपश्रेष्ठ !, असदृशभक्तिहृतहृदयेन असदृश्या- असाधारणया, भक्त्या - श्रीत्या, हृतम्-आवर्जितम्, हृदयम्-अन्तःकरणं, येन तादृशेन, पुनः महापुरुष चित्तवृत्तिसहचरीं महापुरुषाणाम्-उत्तमपुरुषाणाम् , चित्तवृत्तेः - अन्तःकरणवृत्तेः, सहचरीं -सहावस्थायिनीम्, औचित्यमुद्राम् औचित्यरक्षणाचारम्, आद्रियमाणेन रक्षता, त्वया, चन्द्रातपाभिधानः चन्द्रातपसंज्ञकः, योऽयं दिव्यमुक्ताकलापः चारुमुक्तामणिहारः, मै मम, पूजार्थ प्रीत्यर्थम्, उपकल्पितः उपहृतः, स हारः, अनल्पम् अधिकम्, अभ्युदयम् पुत्रादिरूपां तवोन्नतिम्, अभिलषन्त्या कामयमानया, मया, भवत एव तुभ्यमेव, प्रदत्तः प्रत्यर्पितः, प्रयत्नेन महता यनेन, रक्षणीयः स्थापनीयः, भवतेति शेषः । तव अङ्गजः पुत्रः, यदा यस्मिन् समये, नवयौवनश्रिया अभिनवतारुण्य रामणीयकेन, प्रतिपन्नसर्वाङ्गः प्रतिपन्नं स्वीकृतं व्याप्तमिति यावत्, सर्व-सकलम्, अ-शरीरम् अङ्गानि शरीरावयवा वा यस्य तादृशः, भविष्यति सम्पत्स्यते, तदा तस्यामवस्थायाम्, भूषणार्थम् अलङ्करणार्थम्, उपनेतव्यः तस्मै त्वया दातव्यः, सहार इति शेषः । यद्यपि सुचिरकालसञ्चितेन अतिदीर्घकालसंगृहीतेन, सद्भूत्येनेष समीचीनभृत्येन इव, सततानुगामिना अनवरतमनुवर्तिना, शुभकर्मणा सुकृतेन, सत्कर्मजनितपुण्येनेत्यर्थः, कृतरक्षाणां रक्षितानाम्, महापुरुषाणां सत्पुरुषाणाम्, सर्वदाऽपि सर्वकालेऽपि दूरवर्तीन्येव दूरस्थायीन्येव, दुरितानि विघ्नाः, भवन्तीति शेषः, तथापि नीतिः “श्रेयांसि बहुविघ्नानि भवन्ति महतामपि” इत्यादिनीतिशास्त्रोकवाक्यम्, अनुसर्तव्या आश्रयितव्या, यतः यस्माद्धेतोः, अस्य बुद्धिस्थस्य त्वत्पुत्रस्य, संग्रामभूमिं रणक्षेत्रम्, अवतरतोऽपि आगच्छतोऽपि एवं विपक्षदुर्गाणि खरिपुप्राकारान् गाहमानस्य प्रविशतोऽपि तथा विषमाटवीषु भीषणारण्येषु, कार्यवशेन प्रयोजनवशेन, विशतः प्रविशतोऽपि च पुनः, अन्येषु तद्भिन्नेष्वपि, सम्भाव्यमानापत्तिषु संशय्यमानविपत्तिकेषु, स्थानकेषु स्थलेषु, व्यवहरतः विचरतः, असौ द्वारविशेषः, विशेषतः नियमतः, सन्निधापयितव्यः परिधापयितव्यः । ते तव, प्रयोजनम् अभि लषितम्, निर्विघ्नं विघ्नेन-बाधकदुरितेन रहितम्, अस्तु भवतु [ब] । गमनाय इतः प्रस्थानाय, माम् अनुजानीहि अनुमन्यख। मया लक्ष्मीदेव्या अपि प्रसङ्गेनैव कार्यवशेनैव निजनिवासात् खकीयाssवासात् निर्गतया निष्कान्तया, कतिचिदपि कतिपयान्यपि, अहानि दिनानि, दक्षिणाशाविभूषणेषु, दक्षिणदिब्यण्डनायमानेषु, त्रिकूटमलयादिषु त्रिकूट- मलयप्रमुखेषु, वेलापर्वतेषु समुद्रतटवर्तिपर्वतेषु, तथा क्षीरोदप्रभृतिषु क्षीरसागरप्रमुखेषु, महार्णवेषु महासागरेषु, तथा नन्दीश्वरप्रमुखेषु नन्दीश्वरप्रभृतिषु द्वीपेषु जलमध्यवर्तिप्रदेशेषु, तथा अन्येषु च तद्भिनेष्वपि, रम• णीयेषु सुन्दरेषु, प्रदेशेषु स्थलेषु, विहृत्य विहारं विधाय पुनः तुहिमाचलशिखरवनराजिराजतर्पणे तुहिनाचलस्य - हिमाचलस्य, शिखरे या वनराजि:-वनपङ्क्तिः, तद्रूपा नायिका, तस्या राजतदर्पणे - रौप्यभयदर्पणरूपे, तत्रैव तस्मिन्नेव, स्वसद्मनि स्वस्थानभूते, पद्मनानि पद्मसंज्ञके, महाहदे अगाधजलाशयविशेषे, गन्तव्यं प्रस्थातव्यम् । राजन् ! मदनु-
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy