________________
तिलकमञ्जरी ।
१४५
अनन्यदेवतासामान्यचिह्नदर्शनेन श्रीरसावित्युपजात निश्चयोऽपि किञ्चिदुत्पन्नविभीषिकाशङ्कः प्राकृतामित्र स्त्रियमदर्शित संभ्रमस्तामपृच्छत् – 'भद्रे ! का त्वम्, किमर्थं वा देवतायतनमिदमागतासि', सा त्ववादीत् — 'राजन् ! न जानासि माम् ? अहं हि सकलभूपालवृन्दवन्दितपादा राजलक्ष्मीस्त्वदभिकाङ्क्षितवस्तुसंपादनार्थमागता, कथय किं ते प्रियं कर्तव्यम्' इति, पार्थिवोऽपि तदवस्थानुरूपदर्शितादरः प्रणम्य तां तदागमनजन्मना हर्षेण करणवैक्लव्येन च दरस्खलितवचनः शनैरलपत्— 'भगवति ! कृतार्थोऽहम्, यस्य मे समुपस्थितायाममुष्यामन्तिमावस्थायामुपेत्य भगवत्या प्रकाशितमिदम दर्शनीयमन्येषामल्पपुण्यानां मानवानामशेषापायप्रशमनं दिव्यमात्मीयं रूपम्, अभ्युपगता च मनीषितवस्तुसिद्धिः । इदं देवि ! मेऽभिमतः मुष्य महात्मनस्त्वत्परिग्रहाग्रेसरस्य नक्तञ्चरपतेः प्रयोजनवशा दुपदर्शितार्थिभावस्य दातुमुत्तमाङ्गं मया परिकल्पितम्, अर्धकल्पिते चास्मिन्नकस्मादपगतपरिस्पन्दौ सन्दानिताविव केनाप्यकिञ्चित्करौ करौ संवृत्तौ तदनयोर्यथा
अनन्यदेवतासामान्य चिह्नदर्शनेन अन्यदेवता सामान्यम् - अन्यदेवतासाधारणम्, न अन्यदेवता सामान्य मित्यनन्य - देवतासामान्यं देवतान्तरव्यावृत्तम्, यश्चिह्नं तद्दर्शनेन, असौ श्रीः लक्ष्मीरिति, उपजातनिश्चयोऽपि उपजातः, निश्चय:- निश्चयात्मकं ज्ञानं यस्य तादृशोऽपि किञ्चिदुत्पन्नविभीषिकाशङ्कः किञ्चिदुत्पन्ना - ईषदुद्भूता, विभीषिकायाः - भयस्य, शङ्का यस्य तादृशः, स राजेति शेषः, अदर्शितसम्भ्रमः न संदर्शितः सम्भ्रमः - भयाकुलीभावो येन तादृशः सन् प्राकृतां स्त्रियमित्र सामान्यस्त्रियमिव, तां लक्ष्मीदेवीम्, अपृच्छत् पृष्टवान् । किमित्याह - भद्रे ! कल्याणि !, का त्वं ? त्वं काऽसि ? किमर्थ वा किंनिमित्तं च इदं देवतायतनं देवतामन्दिरम् आगता असि । सा तु लक्ष्मीस्तु, अवादीत् उक्तवती, किमित्याह--- राजन् ! नृपते !, मां न जानासि न परिचिनोषि सकल भूपालवृन्दवन्दितपादा सकलानां सर्वेषाम् भूपालानांराज्ञाम्, वृन्देन समूहेन वन्दितौ-अभिवादितौ स्तुतौ वा पादौ यस्यास्तादृशी, राजलक्ष्मीः राजवैभवाधिष्ठात्री देवी, अहम् त्वदभिकाङ्क्षितवस्तुसम्पादनार्थं त्वया अभिकाङ्क्षितम्-अभीप्सितम् यद् वस्तु पुत्ररत्नरूपम्, तत्सम्पाद नार्थ - तत्साधनार्थम् आगता अत्रोपस्थिता, अस्मीति शेषः । ते तव, प्रियम् अभीष्टम्, किं कर्तव्यं मया करणीयम् इति कथय निवेदय । पार्थिवोऽपि स राजाऽपि तदवस्थानुरूपदर्शितादरः तदवस्थानुरूपः- कण्ठच्छेदनोद्यमावस्थोचितः, दर्शितः--कृतः, आदरः- सम्मानो येन तादृशः सन् तां लक्ष्मीदेवीम् प्रणम्य अभिवाद्य, तदागमनजन्मना तस्याःलक्ष्मीदेव्याः, आगमनात्, जन्म-उत्पत्तिर्यस्य तादृशेन तदागमनजनितेनेत्यर्थः, हर्षेण आनन्देन च पुनः, करणवैक्लव्येन करणस्य - शरीरस्य, वैक्लव्येन - अस्वास्थ्यवशेन, दरस्स्खलितवचनः दरम्-ईषत् स्खलितं भ्रष्टम्, वचनं यस्य तादृशः, शनैः मन्दं मन्दम्, अलपत् अचकथत् । भगवति । महैश्वर्यशालिनि ! अहं कृतार्थः त्वद्दर्शनसौभाग्येन सिद्धार्थः, अस्मीति शेषः, यस्य मे मम, अमुष्यां स्वशिरश्छेदनरूपायाम्, अन्तिमावस्थायां मरणावस्थायाम्, उपस्थितायां प्राप्तायाम्, भगवत्या त्वया, उपेत्य उपागत्य, अन्येषां मद्भिन्नानाम्, अल्पपुण्यानाम् अनधिकपुण्यत्रताम्, मानवानां मनुष्याणाम्, अदर्शनीयं द्रष्टुमशक्यम्, पुनः अशेषापायप्रशमनम् अशेषाणां समप्राणाम्, अपायानाम् उपद्रवाणाम्, प्रशमनं-निवारणकारणम्, दिव्यं मनोहरम्, आत्मीयं स्वकीयम्, इदं प्रत्यक्षभूतम्, रूपं खरूपम्, दर्शितं मदीयदृष्टिपथमवतारितम् ; च पुनः मनीषितवस्तुसिद्धिः मनीषितस्य मनोनीतस्य, अभिलषितस्येत्यर्थः, वस्तुनः सिद्धिःनिष्पत्तिः, अभ्युपगता स्वीकृता । हे देवि ! मे मम, अभिमतम् अभिलषितम् इदम् उत्तमाङ्गं शिरः, त्वत्परिवाराप्रेसरस्य भवत्परिवारप्रधानभूतस्य पुनः प्रयोजनवशात् कार्यवशात्, उपदर्शितार्थिभावस्य उपदर्शितः प्रकटितः, अर्थिभावः तद्याच्या येन तादृशस्य, महात्मनः महानुभावस्य, अमुष्य तस्य, नक्तञ्चरपतेः दानवाधिपतेः, दातुं समर्पयितुम्, परिकल्पितं निश्चितम् । अस्मिन् शिरसि, अर्धकल्पिते अर्धे छिन्ने सति, अकस्मात् अकारणमेव, अपगतपरिस्पन्दौ निवृत्तचेष्टौ करौ मदीयहस्तौ, केनापि सम्दानिताविव बद्धाविव, अकिञ्चित्करौ किमपि कर्तुमसमर्थी,
१९ तिलक०