________________
टिप्पनक-परागविकृतिसंवलिता विततेन्द्रनीलकुण्डलेन कठिनकण्ठास्थिदलनकुण्ठितकरालधारं करवालमिव शाणया निशातुं कृतक्षणेन दक्षिणेन चावतंसितविततदेवतानिर्माल्यपल्लवेन घनशिरावलिखण्डखण्डध्वनि श्रोतुमवितृप्त्या सहायीकृतापरश्रवणेनेव श्रवणेनोद्भासमानः, विसर्पदतिबहलखनप्रभानुलेपश्यामलितविग्रहतया प्रत्येकमेकावलीमौक्तिकादर्शदृश्यमानप्रतिमागतोत्तमानतया च प्रणत्यनादरकुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीयकण्ठच्छेद इव रावणः, तत्क्षणमधत्त रमणीभीषणं रूपम् [0] । अर्धावकृत्तकन्धरे च शिरसि सहसैवास्य केनापि धृत इव स्तम्भित इव नियत्रित चाक्रान्त इव नाल्पमपि चलितुमक्षमत दक्षिणो बाहुः, अतितीक्ष्णधारोऽपि कुण्ठीभूत इव कठिनास्थिकोटिसंदंशदष्ट इव स्त्यानलोहितपङ्कलन इव निरायतशिरातन्तुसंयत इव प्रततस्नायुपाशसंदानित इव मन्दमपि पूर्वच्छेदतः परेण प्रसपितुं न शशाक निस्त्रिंशः । किमेतदिति संजातविस्मयश्च नृपतिः स्तम्भनिश्चलाङ्गुलीगाढगृहीतत्सरं
टिप्पनकम्-कृतक्षणेन विहितच्यापारेण, श्रवणेन कर्णेन []। संदंशः-लोहलोहकारोपकरणम् [ए]।
विततं दीर्घम् , इन्द्रनीलकुण्डलं मरकतमणिमयकर्णालङ्करणविशेषो यस्मिंस्तादृशेन, पुनः कठिनकण्ठास्थिदलन कुण्ठितकरालधारं कठिनाांन-कठोराणि, यानि कण्ठास्थीनि-कण्ठसम्बन्धीनि अस्थीनि, तेषां दलनेन-छेदनेन, कुण्ठिताप्रतिहततीक्ष्णताका, कराला-भीषणा, धारा यस्य तादृशम्, करवालं खङ्गम् , शाणया तीक्ष्णीकरणयन्त्रेण, निशातुमिव तीक्ष्णीकर्तुमिव, कृतक्षणेन कृत-लब्धम् , क्षणमवसरो येन तादृशेन, व्यापृवेनेत्यर्थः; कीदृशेन दक्षिणेन ? अवतसितविततदेवतानिर्माल्यपल्लवेन अवतसितः-अलङ्करणीकृतः, विततः-विस्तृतः, देवतायाः-लक्ष्मीदेव्याः, निर्माल्यः-पूजोच्छिष्टः, पल्लवो येन तादृशेन, अत एव घनशिरावलिखण्डखण्डध्वनि घनाः-सान्द्राः, याः शिरा:-नाध्यः, तासाम् भावले:-पलेः, खण्डखण्डस्य-प्रत्येकखण्डस्य, यो ध्वनिः, तम् , श्रोतुम् एकाकिना गोचरीकर्तुम् , अवितृप्त्या विशिष्टतृप्तिविरहेण, सहायीकृतापरश्रवणेन सहायीकृतं-सहायित्वेनोपरि धृतम् , अपरं श्रवणं-श्रवणेन्द्रियं येन तादृशेनेवेत्युत्प्रेक्षा, केन हेतुना क इवासौ तादृशं रूपमधत्त ? विसर्पदतिबहलखनप्रभानुलेपश्यामलितविग्रहतया विसर्पन्त्यः-प्रसरन्त्यः, या अतिबहला:-अतिप्रचुराः, खगप्रभाः-कृपाणदीप्तयः, तद्रूपैः, अनुलेपेः-विलेपनैः, श्यामलितः-श्यामतामापादितः, विग्रहःशरीरं यस्य तादृशतया, च पुनः, प्रत्येकमेकावलीमौक्तिकादर्शदृश्यमानप्रतिमागतोत्तमाङ्गतया प्रत्येकम्-एकैकस्मिन् , एकावलीमौक्तिके-एकावल्याम्-एकहारयष्टौ, यन्मौक्तिक-मुक्तामणिः, तद्रूपेषु आदर्शेषु, दृश्यमानानि-लक्ष्यमाणानि, प्रतिमागतानि-प्रतिबिम्बगतानि, उत्तमाङ्गानि-शिरांसि यस्य तादृशतया, प्रणत्यनादरकुपितपार्वतीप्रसादनार्थ प्रणतोप्रणामविषये, योऽनादरः, तेन कुपिताया:-क्रुद्धायाः, पार्वत्याः, यत् प्रसादनम्-अनुरअनम् , तदर्थम् ; उपक्रान्तद्वितीयकण्ठच्छेदः उपक्रान्तः-आरब्धः, द्वितीयकण्ठस्य, छेदः-कर्तनं येन तादृशः, रावण इवेत्युत्प्रेक्षा, अतिकृष्णविग्रहवत्त्वात् प्रतीयमानदशमस्तकत्वाच्च रावणस्येव भीषणमुक्तविशेषणवस्वाद् रमणीयं च तदानीन्तनं तस्य रूपमिति भावः [ल]। शिरसि मस्तके, अर्धावकृत्तकन्धरे अर्धा अवकृत्ता-छिन्ना, कन्धरा-ग्रीवा यस्मिंस्तादृशे सति, अस्य राज्ञः, दक्षिणो बाहुः हस्तः, सहसैव अकस्मादेव केनापि केनचिजनेन, धृत इव निगृहीत इव, स्तम्भित इव निवारित इव, नियन्त्रित इव बद्ध इव, आक्रान्त इव अभिभूत इव, अल्पमपि किश्चिदपि, चलितुम् उद्यन्तुम् , न, अक्षमत समर्थोऽभूत् । अतितीक्ष्णधारोऽपि अतितीक्ष्णा-परमप्रखरा, धारा यस्य तादृशोऽपि, निस्त्रिंशः निशतोऽङ्गुलिभ्यो निर्गतः, तदधिकप्रमाणक इत्यर्थकसंजकः खङ्गः, पूर्वच्छेदतः पूर्वश्छेदो यस्मिंस्तत्प्रदेशात्, परेण अग्रे, मन्दमपि मन्दे यथा स्यात् तथाऽपि, प्रसर्पितुं प्रसतुं छेत्तुमिति यावत्, न शशाक समर्थोऽभूत् , कथम्भूत इव ? कुण्ठीभूत इच प्रतिहतकर्तनशक्किरिव, पुनः,
थकोटिसंदंशदष्ट इव कठिनानां-कठोराणाम् , अस्म्नां याः कोटयः-अग्रभागाः, तद्रूपः संदंश:-लोहकारोपकरणविशेषैः, दष्टः-निगृहीत इव, पुनः स्त्यानलोहितपङ्कलग्न इव स्त्यान-धनीभूतम्, यलोहित-शोणितम्, तत्पङ्के. तत्कर्दमे, लभः-संश्लिष्ट इव, पुनः, निरायतशिरातन्तुसंयत इव निरायतैः-अतिदीर्घः, शिरातन्तुभिः-नाडीरूपरज्जुभिा, संयतः-बद्ध इव, पुनः, प्रततनायुपाशसन्दानित इघ प्रतताः-विस्तृताः, या मायवः अमाप्रत्यङ्गसन्धिस्थानस्थितनाब्यः, तदूपैः पाशैः-विशेषाकृतिविशिष्टरज्जुभिः, सन्दानितः-सर्वतो बद्ध इवेति सर्वत्रोत्प्रेक्षा । नृपतिः मेघवाहनः, पतत् खनाबरोधनम् , किं किंकारणकमिति, सातविस्मयः उत्पन्नाश्चर्थः सन् , स्तम्भनिश्चलालीगाढगृहीतत्सई स्तम्भवत्