________________
तिलकमारी।
१३५ निश्चलो मनसि संकल्पः, यावन्नैष परिसमाप्तः कल्पस्तावदल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिदैवतस्य वियक्षितफलापेक्षया कर्तव्योऽस्माभिः । अवधार्य चेदं धीमता न कार्यः प्रस्तुतेऽस्मिन्नस्मत्कर्मणि कार्यसिद्धिविषयो विचारः, नापि कतिचिहिनानि प्रार्थनीयः पूजोपचारः, यदि चाभ्यवहारेण प्रयोजनं पूज्यस्य ततः सजा वयं तदुपपादनाय, गृह्यतामयमुपयुज्यतां च विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकमखिलोऽप्येष देव्या विशेषपूजार्थमाहृतोऽद्य हृद्यानेकफलमूलोपदंशो दृष्टमात्रः क्षुदुपबृंहणो मोदकादिः प्रभूतभक्ष्यवलिः' [उ] । इत्युक्तवति भूपे भूयोऽप्यसौ सहासमवदत्-'नरेन्द्र ! न वयं पक्षिणः, न पशवः, न मनुष्याः, कथं फलानि मूलान्यन्नं चाहरामः ? क्षपाचराः खलु वयम्, व्याघ्राणामिवास्माकमात्मभुजविक्रमोपक्रीतमामिषमाहारः, तस्य चिन्तय प्राप्त्युपायम् , किमनेन कर्णोद्वेगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भक्ष्येतरवस्तुतत्त्वप्रकाशनेन । यदि वान्येऽपि बहवः क्षुद्रसाधकाः संप्रति खलीकर्तुमुद्यता: खामिनीम् , तदीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः, आस्स्व तावन्निराकुलः, केवलं याचे किञ्चन त्वाम् ,
टिप्पनकम्-क्षत्रियनरेन्द्र:- एकत्र मन्त्रवादी अन्यत्र राजा [क]।
हृदि, एष निश्चलः सुदृढः, संकल्पः प्रतिज्ञा, कृतः, कीटगित्याह-यावत् यावत्कालपर्यन्तम् एष कल्पः अनुष्ठानक्रमः, परिसमाप्तः परिपूर्णः, न स्यात् , तावत् तावत्कालपर्यन्तम् , कस्यचित् कस्यापि, देवतस्य अन्यदेवस्य, अल्पापि ईषदपि, अनुवृत्तिः अनुगमनम् , उपचारः आराधना वा, विवक्षितफलापेक्षया अभिलषितफलानुरोधेन, अस्माभिः, न, कर्तव्यः कर्तुमुचितः । इदं पूर्वोक्ततत्त्वम्, अवधार्य निश्चित्य, प्रस्तुते प्रारब्धे, अस्मिन् , असत्कर्मणि अस्माकमनुष्ठाने, कार्यसिद्धिविषयः फलप्राप्तिविषयः, विचारः वितर्कः, धीमता विदुषा, भवतेति शेषः, न कार्यः न कर्तु योग्यः, कतिचिहिनानि कतिपयदिनानि यावत् , पूजोपचारः पूजनात्मकसेवाप्रकारः, नापि नैव, प्रार्थनीयः प्रार्थयितुमुचितः, यदि पूज्यस्य पूजाईस्य भवतः अभ्यवदा पर्य सजा: सन्नद्धाः, उपस्थिता इत्यर्थः, अयं प्रभूतभक्ष्यबलिः, गृह्यतां खीक्रियताम् , उपयुज्यतां च पुनः सफलत्व. मापाद्यताम् , उपभुज्यतामित्यर्थः, किं कृत्वा ? अस्यैव देवतागृहस्य देवमन्दिरस्य, विविक्तं पवित्रं निर्जनं वा, विविको पूत-विजनी" इत्यमरः, स्पृहणीयतमम् अतिरमणीयम् , एकं कोणं पर्यन्तप्रदेशम् , आश्रित्य अधिष्ठाय । अद्य अस्मिन्नहनि, देव्याः लक्ष्म्याः , विशेषपूजार्थे सविधिपूजानिमित्तम् , आहृतः-उपस्थापितः, एषः, अखिलोऽपि समस्तोऽपि, हुधानेकफलमूलोपदंशः हृद्यानि-हृदयप्रियाणि, अनेकानि यानि फलमूलानि तद्रूपा उपदंशाः-उपदंशनीयवस्तूनि यस्मि
मात्रः दर्शनगोचरीभूत एव, क्षुदुपबृंहणः क्षुधः-बुभुक्षायाः, उपबृंहणः-बधेकः, मोदकादिः लड़कादिका, प्रभूतभक्ष्यबलिः प्रभूतः-प्रचुरः, भक्ष्यः-भक्षणीयः, बलिः-नैवेद्यम् , वर्तत इति शेषः [3]
भूपे मेघवाननृपे, इति अनुपदोक्तम् , उक्तवति कथितवति सति, असौ वेतालः, भूयोऽपि पुनरपि, सहासं हासपूर्वकम् , अवदत् उक्तवान् , नरेन्द्र ! नृपते 1, वयं पक्षिणः पक्षिजातयः, न, म इति शेषः, पशवः पशुजातयः, न, मनुष्याः मनुष्यजातयः, न; अतः पक्षित्वाभावात् फलानि, पशुस्वाभावात् मूलानि, मनुष्यत्वाभावाच अन्नम्, कथं केन प्रकारेण, आहरामः? खादामः ? । खलु निश्चयेन, वयं क्षपाचराः राक्षसाः, म इति शेषः, आत्मभुजविक्रमोपक्रीतम् आत्मभुजविक्रमेण-खबाहुबलेन, उपक्रीतम्-उपार्जितम्, आमिषम्-मांसमेव, अस्माकं राक्षसानाम् , व्याघ्राणा भिव, आहारः भक्ष्यम् , तस्य मांसस्य, प्रान्युपायं लाभोपायम् , चिन्तय पर्यालोचय, द्विजस्य विप्रस्य, मदिरा.
खादसौन्दर्यकथनेनेव मदिराखादस्य-मदरसाखादस्य, यत् सौन्दर्य-रुचिरत्वम् , तद्वर्णनेनेव, कर्णोद्वेगजनकेन कर्णक्लेशावहेन, अनेन, भक्ष्येतरवस्तुतत्त्वप्रकाशनेन भक्ष्येतरस्य-भक्षणायोग्यस्य, वस्तुतत्त्वस्य-वस्तुसारस्य, प्रकाशनेनप्रतिपादनेन, किम् न किमपीत्यर्थः । यदि वा अथवा, सम्प्रति इदानीम् , बहवः अधिकाः, अन्येऽपि, क्षुद्रसाधकाः साधारणसियार्थिनः, स्वामिनी देवी लक्ष्मीमिति यावत् , खलीकर्तु सिद्धेरवैधत्वेन फलानिष्पत्त्या खलत्वमापादयितुम् , उपालन्धुमिति यावत्, उद्यताः प्रवृत्ताः, सन्तीति शेषः, तदीयदेहावयवेषु तत्सम्बन्धिशरीरावयवेषु, तत्प्राप्तिः मांस