________________
तृतीयार्थप्रकाशः
इति कथं सहार्थान्वयः । न चात्र लक्ष्मणप्रसवकालादारभ्य शत्रुघ्नप्रसवकालकर्यन्तः स्थूलकाल एव ग्राह्य इति न समानककालिकत्वरूपसहार्थान्वयानुपपत्तिरिति वाच्यम्, तथा
सति --
“प्रासोष्ट बीभत्समुदारचेष्ट- मेका पृथा वायुसुतेन साकम्" इत्येवमपि प्रयोगस्य प्रामाण्यं स्यात् । अत्र बीभत्सः अर्जुनः । वायुसुतो भीमः । तयोश्च व्यवहितकालोत्पत्तिमत्त्वेऽपि प्रथमजात भीमप्रसवकालमारभ्य परकालजातबीभत्सप्रसवकालपर्यन्तमेकं स्थूलकालमादाय सहार्थान्वयोप-पत्तेः इति चेन्न प्रकारान्तरेणेदृशस्थले समानकालिकत्वोपपत्तेः । तथा हि- सूतिमारुतात्मकस्यैव कालोपाधेरिहकालपदेन ग्रहणम् । एक एव सूतिमारुती यमजप्रसवहेतुः । सूतिमारुतस्य प्रसवप्रयोजकत्वमुक्तं याज्ञवल्क्येन --
नवमे दशमे मासि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यन्त्रच्छिद्रण सज्वरः ॥"
तत्र सूतिमारुतानां बहुत्वेऽपि एकस्थलकालवृत्तितया ऐक्यमेव तेन बहुवचनेन सूतिमारुतानां बहूनां प्रसवप्रयोज• कत्वमुक्तमिति सूतिमास्तात्मककालस्य कथमै क्यमिति शङ्कापास्ता, य एव सूतिमास्ता लक्ष्मणप्रसवे प्रयोजकास्त एव शत्रुघ्नप्रसवेऽपि प्रयोजका इति कल्पनागौरवभियाऽवश्यं कल्पनीयम् । यदि च सूतिमास्तानामैक्यं तहि कथं न लक्ष्मणप्रसवकालरूपसूक्ष्मकाल एवं शत्रुघ्न सिर्गमोऽपीति न शङ्कनीयम्, तत्र लक्ष्मणस्य प्रतिबन्धकतया सहनिर्गमाभावस्योपपादनात् । अत एवं केन पुरुषव्यापारेण कमलपत्राणा सूचीभेदने प्रथमपत्रभेदनकाले न द्वितीयपत्रभेदनम् प्रथमपत्रस्य प्रतिबन्धकत्वात् । तत्र षूङ्घात्वर्थी जरायुजशरीर स्यान्तरवयवावच्छेदेन शरीरान्तरेण यः संयोगस्तनाशकतावच्छेदकवैजात्याश्रयो व्यापारश्च । तादृश वैजात्यं तु सूतिमारुतसंयोगजक्रियाविशेष जन्यतावच्छेदकतया सिद्धम्। तादृशजातिपरिचयार्थमेव जरायुजशरीराद्य पादानम्, न तु तस्य धात्वर्थघटकता, तेन तस्य धात्वर्थान्तर्भूतकर्म कत्वाभावान्ना
ज
कर्मकत्वम् । तेन व्याधिवशाद्भेकादीनां शरीरात् निर्गमेऽपि 'प्रसूते' इति न प्रयोगः, न वा बालस्य क्रोडात्क्रोडान्तरगमनेऽपि तथा प्रयोगः, भेकस्य जरायुजत्वाभावात् तादृशबालसंयोगस्यान्तरवयवावच्छिन्नत्वस्य चाभावात् । 'तरुः फलानि सुते' 'वसुधा भटान् सूते' इत्यादौ तु लक्षणयोत्पत्तिव्यापारावेव ब्रूङ्घातोरर्थः । एवं प्रकृते लक्ष्मणवृत्तिविजातीयविभागानुकूलव्यापाराधिकरणसूतिमारुतकालिकस्याती
तस्य
शत्रुघ्नवृत्तिविजातीयविभागानुकूलव्यापारस्याश्रयः सुमित्रेत्यन्वयबोधः । बीभत्सभीमयोस्तु प्रसवप्रयोजकसूतिमारुतानां बहुतरव्यवहित कालद्वयभावित्वेनैककालिकत्वाभावात् "प्रासोष्ट बीभत्समुदारचेष्ट- मेका पृथा वायुसुतेन साकम्" इति प्रयोगस्य न प्रामाणिकत्वमिति ।
-
प्रसङ्गादधीङो ऽर्थ - विचारः
वैशम्यायनेन सह वेदं जैमिनिरधीते इत्यत्राधीङोऽर्थद्वयम् । तत्र उच्चारणं तदनुकूलश्रावणं चेत्यैकोऽर्थः । उच्चारणं तु वर्णोत्पत्यव्यवहिततयोपलक्षितो विवृतादिः प्रयत्नः । स तु विवृतत्वादिनैव धात्वर्थे निविशतेऽतो न सकर्मकत्वहानिः । लिप्यादिना वर्णज्ञानादुच्चारणेऽधीत इति प्रयोगवारणाय श्रावणमुक्तम् । फलज्ञानविधया विवृतादिप्रयोजकत्वं वर्णस्य, फलस्य साधनतया कण्ठताल्वादिसंयोगे, तत्साधनतया कण्ठताल्वादिक्रियायामिच्छाप्रयत्नश्चेतीयं रीतिर्वर्णोत्पादे बोध्या । अधीङो धातोरीदृशार्थवशा-प्रयोगो - यथा- पञ्चाब्दिको ब्राह्मणवटुर्वेदमधीते इत्यत्रानुपूर्वीविशेषविशिष्टो वर्णकलापो वेदः । द्वितीयार्थः साध्यत्वाख्यं विषयत्वं साध्यत्वविषयत्वसम्बन्धावच्छिन्न माधेयत्वं वा विवृतावन्वेति । एवं वेदविषयताकस्य वेदाधेयस्य वा विवृतादेरनुकूलश्रावणाश्रयः पञ्चाग्दिको ब्रह्मवटुरित्यन्वयबोधः । एवमुपाध्यायप्रतिवेशी बालो वा शुको वाऽधीत इति प्रयोगोऽपि सूपपादः ।