________________
द्वितीयार्थप्रकाशः
चरितार्थत्वात् । व्यापारस्तु क्वचिद्दानं क्वचिदन्यादृशः । प्राप्तिस्तु सम्बन्धः । प्रकृते राजसमवेतं दानं प्रयोज्यतया कनकवृत्ति स्वस्वत्वरूपे सम्बन्धे स उद्देश्यितयेच्छाया - मन्वेति । ' याचमानः शिवं सुरान्' इत्यादी सुरवृत्ति:कृपाव्यापारः, शिव ( कल्याण ) वृत्तिस्वसमवेतत्वं प्राप्तिः, तयोरन्वयः पूर्ववत् । 'भिक्षिता शतमखीत्यत्र' सकलाङ्गसाहित्यं शतमखीव्यापारः, तदाश्रयः कर्मप्रत्ययस्यार्थः, सुकृत वृत्तिस्वसमवेतत्वं प्राप्तिः, इच्छाया उद्देश्यतया सुकृतवृत्तिस्वसमवेतत्वे, तस्य प्रयोजकतया सकलाङ्गसाहि - स्यरूपे व्यापारे, तस्याश्रये विशेषणतया अन्वयः, आश्र यस्याभेदेन शतमख्यामन्वयः इति । 'कृपणं याचते' 'दण्डकावनतरून् सीतां याचते' इत्यादी कृपणवृत्तिव्यापारस्य कनकवृत्तिस्वत्वरूपप्राप्ती, दण्डकावनतरुवृत्तिव्यापारस्य सीतावृत्तिस्वसन्निधानस्वरूप प्राप्तौ प्रयोज्यत्ववा - asपि बाधितस्य प्रयोज्यत्व सम्बन्धस्येच्छया वगाहन - सम्भवात् नान्वयानुपपत्तिः, इच्छाया बाधितार्थविषयकत्वस्य स्वीकृतत्वात् । सन्निधानं तु संयोगः, स्वल्पतरसंयोगघटितपरम्परासम्बन्धावच्छिन्नसामानाधिकरण्यं वा न
}
न च
दण्ड व्यापारप्रयोज्याया घटप्राप्तेः इच्छा कुलालेऽस्तीति दण्डं घटं याचते कुलाल इति प्रयोगः स्यादिति वाच्यम्, इच्छायां पूर्ववत् ज्ञाप्यमानत्वविशेषणेन तद्वारणात् । ज्ञाप्यमानत्वं ज्ञानविषयत्वमेव; तस्य विशेषणत्वं न सम्भवति अव्यावर्तकत्वात् ; भगवञ्ज्ञानविषयत्वस्य सर्वत्र सत्त्वात्; याचत्यर्थ व्यापाराश्रयज्ञानविषयत्वस्य तत्त्वे, 'दण्डकावनतरून् याचते' इति प्रयोगानुपपत्तिः; व्यापाराश्रयदण्डकावत रुज्ञानाप्रसिद्ध : - इति वाच्यम्, व्यापाराश्रयज्ञानेच्छास्वरूप जिज्ञापयिषाविषयत्वस्ये च्छाविशेषणत्वोपगमात् । इच्छाया बाधितार्थविषयकत्वसम्भवेन तरुज्ञानाप्रसिद्धावपि तरुजिज्ञापयिषाविषयत्वस्य स्वसम्बन्धेच्छायां सम्भवान्नानुपपत्तिः । धनं जलं याचन्ते सस्यानीत्यादावचेतनसस्यादिकतु कयाचन प्रयोगे याचतेरिच्छास्थाने पुष्टिरर्थः । तत्र घनवृत्तिव्यापारप्रयोज्यजलसम्बन्धप्रयोज्यपुष्टिस्वरूपयोग्यानि
४६
सस्यानीत्यादिरूपेणान्वयबोधः इति चेद्; - अस्तु व्यापारादित्रिकं याचतेस्तत्पर्यायस्य भिक्षत्यादेश्चार्थः । यथाप्रयोगं तद्व्यवस्थायाः सुकरत्वादिति । उत्तरमनुशास्यत्वमनुयोगश्च पृच्छेरर्थः । सामान्यवति विशेषबोधकं वचनमुत्तरम् । जिज्ञास्यत्वेन प्रतिपत्तिरनुशास्यता । किमादिशब्दघटितवाक्यादिरनुयोगः । 'जानपदं पन्थानं पृच्छति पथिक' इत्यत्र परम्परया जानपदाश्रितमुत्तरं पथ विषयकजिज्ञासितत्वप्रतिपत्तौ सा च 'कः पन्थाः इत्यादिप्रश्नवाक्ये जनकतयान्वेति । अत्रोत्तरमात्रं फलम् । तच्च कृतिद्वाराधिकरणेन, ज्ञानद्वारा विषयेण कर्मणान्वितमिति ।
न्वयबोधानुपपत्तिरिति
अत्र -- ' जानपदं पन्थानं पृच्छति' जानपदः पथिकाय न किञ्चिदुत्तरयतीत्यत्रोत्तरस्याप्रसिद्ध या पूर्ववद्धात्वर्थाव्यापारप्रयोज्यविशेषज्ञानेच्छेव धात्वर्थः । तत्र त्रिषु खण्डश एव शक्तिः । द्वितीययोश्च क्रमेण व्यापारीयविषयत्वसंसर्गावच्छिन्नत्वं विषयत्वसंसर्गावच्छिन्नं चाधेयत्वमर्थः । व्यापारस्य प्रयोज्यतया विशेषज्ञाने तस्योद्द श्यितया इच्छायामन्वयात्- जानपदवृत्तिव्यापारप्रयोज्यस्य पथविषयकस्य विशेषधर्म प्रकारकज्ञानस्य उद्देश्यिनी येच्छा तदाश्रयः पान्य इति बोधः, इच्छायाँ पूर्ववत्- ज्ञाप्यमानत्व विशेषणात् प्रतिवादिनो विशेषेण शास्त्रार्थं ज्ञातुमिच्छति किंशब्दा दिघटितवाक्यमप्रयुञ्जाने जनेऽप्रतिवादिनं शास्त्रार्थं पृच्छतीति न प्रयोगः । एवमेव महावीरचरितनाट के- सीताऽन्वेषणार्थं दण्डकारण्ये परिभ्रमतः शोकाकुलचित्तस्य श्रीमतो रामचन्द्रस्य- वाक्ये -- "रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनम् ; नो दृष्टेति मुचैव चालयसि किं वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः; तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ?"
इत्येवं प्रयोगदर्शनात् कल्पिते 'रक्ताशोकं कृशोदरीं पृच्छति रामचन्द्र इति वाक्ये, रक्ताशोकव्यापारस्य व्यधिकरणीभूत प्रयोज्यत्वस्वरूपसंसर्गस्य कृशोदरीकतृ ' कगमनकर्मदेशीय विशेषज्ञाने इच्छयावगाहनसम्भवान्नानुपपत्तिरिति ।