________________
१५४
स्याद्यर्थप्रकाशे
इत्यादौ शब्दभावनाभावेन प्राथमिकः करण ( इन्द्रिय) अथ षष्ठी - विभक्त्यर्थ - प्रकाशः ।
विन्यासादिः ( वागिन्द्रयप्रेरणादिः ) न संभवतीत्यर्थबोधः ॥ ताकिकमते च, वर्जनम्, अत्यन्ताभावस्तद्वान्, अन्योन्याभावस्तद्वांश्च विनार्थः । पञ्चम्यादीनां प्रतियोगित्वमर्थः । क्षेत्र प्रकृत्यर्थस्य स्ववृत्तिप्रकृत्यर्थतावच्छेदकाद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयः । विना वातमित्यादौ वातत्वावच्छिन्न प्रतियोगिताकात्यन्ताभाववद् यत्किञ्चिदित्यन्वयबोधः । प्रकृत्यर्थतावच्छेदकादेः संसर्गमध्ये निवेशात् पर्वतीयवह्ने विरहेऽपि महानसे वह्निमध्ये वह्नि विना महानसमिति न प्रयोगः । न वा पर्वतीयां वह्नि विना महानसमिति प्रयोगानुपपत्तिः । क्वचिद्विनार्थात्यन्ताभावस्य व्याप्यव्यापकभावेन सम्बन्धेनान्वयः, यथा बह्नि विना न धूमः इत्यादी वह्निप्रतियोगिताकात्यन्ताभावव्याप्यो धूमो नेत्याद्यर्थात् । क्वचित्प्रयोज्य प्रयोजकभावसम्बन्धेनान्वयः यथा दण्डं विना न घट इत्यादी, तत्र दण्डत्वावच्छिन्न प्रतियोगिताका भावप्रयो ज्याभाववान् घट इत्यन्वयबोध: । क्वचिदन्योन्याभावो विनार्थ: यथा "अर्जुनाद् बिना पाण्डवाः सैन्धवेन वारिता: " इत्यत्र । अत्र चान्योन्याभावो विशेषणतयाऽन्वेति । अजु नान्योन्याभाववन्तः ( अर्जुनभिन्नाः ) पाण्डवाः सिन्धुराजेन वारिता इत्यर्थः । अत्यन्ताभाववान् विनाशब्दार्थो यथारूपाद्विना स्पर्शः अत्र रूपात्यन्ताभाववतः आधेयतया स्पर्शेऽन्वयः । अन्योन्याभाववान् विनाशब्दार्थो यथा- 'पाण्डवान् विना प्रीतिदुर्योधनस्य' इत्यत्र अन्योन्याभावत आधेयतया श्री तावन्वयः । इत्यादिरूपेण यथाप्रयोगमर्थ वर्णयन्ति ।
।२।२।११५ ।
इति स्याद्यर्थं प्रकाश पञ्चम्यर्थ प्रकाशः ॥
अज्ञाने ज्ञः षष्ठी ॥ २/२/८० ॥
अनेन सूत्रेण ज्ञानादन्यत्रार्थे वर्तमानस्य जानातेः करणे षष्ठी विधीयते । जानातेर्ज्ञानार्थकत्वेन धातुपाठपठितत्वेऽपि धातूनामनेकार्थत्वाज्ज्ञानादन्यत्रार्थेऽपि प्रयोगसंभवः । 'सर्पिषो जानीते' इत्युदाहरणम् । तदर्थमाह वृत्तिकृत् - सर्पिषा करणभूतेन प्रवर्तत इत्यर्थ इति । भोजनादाविति शेषः । भोजने प्रवृत्तौ स्वविषयक - प्रत्यक्षद्वारा सर्पिषः करणत्वमिति भावः । जानातेः ज्ञानादन्यत्रार्थे प्रयोग इति सूचयितु प्रयोगार्थमुक्त्वाऽपि स्पष्टप्रतिपत्तये धात्वर्थमाह वृत्तिकृदेव प्रवृत्तिरत्र जानातेरथं इति । वस्तुतस्तु जानातेः प्रवृत्यर्थतया प्रतीतिनं स्पष्टतया भवतीति मनसिकृत्य पक्षान्तरमप्युक्तं तत्रैव अथवा सर्पिषि रक्तो विरक्तो वेत्यादिना । श्रात्यन्तिकरागेण तादृशेन द्वेषेण वाऽऽविष्टो जनः सर्वत्र तदेव वस्तु पश्यति, यत्र रागो वा द्वेषो वेति, तद्दर्शनन्तस्य न ज्ञानमपि तु मिथ्याज्ञानमित्यज्ञानमेव । भ्रान्तिज्ञानस्यैवाज्ञानत्वेन सकलदार्शनिकसम्मतत्वात् । ज्ञानं हि वस्तुतत्वप्रत्यक्षम् । अतत्त्वप्रतीतिश्चाज्ञानमेवेति भावः । तथा च भ्रान्त्या सर्पिष्ट्वेन जानीत इति वाक्यार्थः 11
अत्र तार्किकाः अज्ञानं ज्ञानभिन्नमथवा मोहो मिथ्याज्ञानमिति यावत् । सर्पिषो जानीत इत्यत्र ज्ञानभिन्नः प्रवृत्तिरूपोऽर्थः । षष्ठ्याः स्वजन्यं स्वविषयकप्रत्यक्षं व्यापार: करणत्वमर्थः । स च प्रयोज्यतया प्रवृत्तिरूपे शत्वर्थेऽन्वेति मिथ्याज्ञानरूपे धात्वर्थे तु षष्ठ्या लयो व्यापारोऽर्थः, लयस्तु तथाविधं धारावाहि प्रत्यक्षं तज्जन्यदृढसंस्कारजन्यं स्मरणं वा तथा च सर्पिः प्रत्यक्ष प्रयोज्य प्रवृत्त्याश्रयत्वं वाक्यार्थः अथवा सपिलयप्रयोज्यं सर्पिस्तादात्म्यावगाहि सकलवस्तुविषयकं यन्मिथ्याज्ञानं तदाश्रत्वं वाक्यार्थः । यो यद्विषयकलयवान् स तन्मयं जगत्पश्यतीति वर्णयन्ति ॥ २८० ॥