________________
पञ्चम्यर्थप्रकाशः
ऽपि गन्धप्रमाजन्यज्ञानोद्देश्यतायाः जले विरहात्, पक्षनिष्ठो- घूमादग्निमानित्यादिपक्षवाचकपदासमभिव्याहृतवाक्ये नान्वयबोधानुपपत्तिः । न वा 'गन्धाच्छन्दाद्वा न स्नेहवान्' इत्यादिपक्षासमभिव्याहृतवाक्य निषेधप्रतीत्यनुपपत्तिः ।
द्देश्यताकज्ञानं प्रति पक्षसम्बन्धविषयकलिङ्ग विषयकज्ञानस्यहेतुत्वात् । गन्धप्रमाया जलसम्बन्धविषयकत्वात् गन्धप्रमाजन्यज्ञाने जलोद्देश्यताकत्वविरहात् -- दर्शितोद्देश्यतासंसर्गेण गन्धप्रमाजन्यज्ञानविधेयत्वापत्रस्य द्रव्यत्वस्य जले वैशिष्ट्यविरहान्नान्वयः । दर्शितोद्देश्यता संसर्गावच्छिन्न प्रतियोगिताकस्य गन्धप्रमाजन्यज्ञानविधेयद्रव्यत्वाभावस्य नया बोघनसम्भवान्निषेधप्रतीत्युपपत्तिः ।
ननु दर्शिते पर्वतो वह्निमान् गुणवान् घूमान् द्रव्यत्वादित्यादी वह्निविधेयताकज्ञानत्वाच्छिन्तं प्रति द्रव्यत्वप्रमाया अजनकत्वेऽपि वह्निगुणोभय समूहालम्बनजनकत्वस्याक्षतत्वात्, द्रव्यत्वान वह्निमान् इत्यादी कथं वह्निज्ञाने द्रव्यत्वप्रमाहेतुकत्वाभावस्य नमा बोधनसम्भव इति चेन्मैवं यतो भ्रमाजन्यत्वविशिष्टविषयितासंसर्गेण लिङ्गविशिष्टज्ञानस्य लिङ्गपदलक्ष्यस्यार्थतो लिङ्गविषयकज्ञानत्वावच्छिन्नस्य ज्ञानविषेयताविशेषेण ज्ञानेऽन्वय इति द्रव्यत्वप्रमानिष्टहेतुताया निरूपितवह्निविधेयताकज्ञानत्वावच्छिन्नजन्यत्वस्य व्यधिकरणसम्बन्धतया तत्सम्बन्धावच्छिन्न प्रतियोगिताकाभावो वह्निगुणोमयानुमितो वह्निविधेयकत्वावच्छेदेन नजा बोध्यते बाधकाभावात् ।
१५१
वस्तुतस्तु पञ्चम्या जन्यत्वमर्योऽस्तु लिङ्गप्रमाया किन विषयकज्ञानत्वावच्छिन्ननिरूपितत्वेन सम्बन्धेनान्वयः तादृशजन्यत्वस्य लक्ष्ये साध्यज्ञानेऽत्वयो, व्युत्पत्तिवैचित्र्येण विधेयितासम्बन्धावच्छिन्न जन्यताऽवच्छेदकतया साध्येऽन्वेतीति । ज्ञानविधेयसाध्यस्य लक्ष्यत्वे तु तादृशजन्यत्वस्य स्वरूपेण ज्ञाने, अवच्छेदकतया साध्ये तद्विधेयतायां वाऽन्वय इति द्रव्यत्वप्रमाजन्यत्वावच्छेदकतासम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावो नया साध्ये तद्विधेयतायां वा बोध्यत इति दर्शितोद्देश्यतासम्बन्धः साध्यज्ञानस्य ज्ञानविधेयसाध्यस्य च तुल्य इति तदन्वय ऊहनीय इति । दर्शितसंसर्गेण लिङ्गप्रमानिष्ठहेतुतायाः साध्यविषेयताविशेषणज्ञानेऽन्वयोपगमे तु
साध्यता
अथवा साध्यपदस्य साध्यज्ञाने लक्षणा तत्र लिङ्गप्रमानिष्ठहेतुताया पूर्वदर्शित संसर्गेणान्वयः । ज्ञानस्य साध्यतावच्छेदकावच्छिन्नविधेयता निरूपितोद्द ेश्यतया, तादृशोद्देश्यतास्वरूप सम्बन्धवतो मत्वर्थस्य तादात्म्येन वा पक्षतावच्छेदकविशिष्टे पक्षेऽन्वयः । पर्वतो वह्निमान् धूमादिति हेत्वन्वाक्य घूमप्रमाहेतुता कवह्निज्ञानीयवह्निवावच्छिन्न बिधेयतानिरूपितोद्देश्यतावदभिन्नः पर्वत इत्यन्वयबोध: । 'जलं द्रव्यत्ववत् न गन्धात्' इत्यत्र गन्धप्रमाहेतुकं यद् घटो द्रव्यत्ववानिति ज्ञानं तदीयद्रव्यत्वनिष्ठविधेयतानिरूपितोद्देश्यताया जले विरहात् तादृशोद्दश्यत्वस्यात्यन्ताभावोऽन्योन्याभावो वा जले नया बोध्यते इति निषेधप्रतीस्युपपत्तिः । न च 'द्रव्यत्वव्याप्यगन्धवान् वटः ' द्रव्यत्वव्याप्य स्वर्यं वज्जलमिति समूहालम्बनगन्धप्रमात्मकपरामर्श जन्यानुमित्य ुद्दश्यताया जले सत्वात् कथं तादृशोद्दश्यत्ववदन्योन्याभावस्य प्रतीतिः इति वाच्यम्, मुख्यविशेष्यताद्वयात्रतियोगित्वेन लिङ्गप्रमाया विशेषणीयत्वात् । तथा च मुख्यविशेष्यताद्वयाप्रतियोगिनी 'घटो द्रव्यत्वव्याप्यगन्धवान् ” इत्येकाकारिक कविशेष्यिका या गन्धप्रमा तज्जन्यानुमित्यद्देश्यताया जले विरहात् निषेधप्रतीत्युपपत्तेः । मुख्यविशेव्यताद्वय प्रतियोगिदर्शित समूहालम्बन स्वरूपगन्धप्रमाजन्यानु - मित्यद्दश्यताया जले सवेऽपि किञ्चित्करत्वात् इति प्राचीनपथपरिष्कारः ।
वृत्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे ब्रह्मशापं मन्वानानां नव्यनैयायिकानां मते पर्वतो वह्निमान् धूमान्नतु द्रव्यत्वादित्यादी वहि नज्ञाने द्रव्यत्वप्रमाहेतुत्वस्याभावो न नव्या बोधयितुं शक्यते, दर्शितसंसर्गस्य वृश्यनियामकतया तदवच्छिन्नप्रतियोगिताकाभावाप्रसिद्ध ेः । स्वरूपादिसंसर्गावच्छिन्न प्रतियोगिताकाभावस्य द्रव्यत्वप्रमाजन्मे