________________
॥ अहम् ॥ श्रीमत्तपोगणगगनाङ्गणगगनमणि-मरिचक्रचक्रवत्ति-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारदकविरत्नंतिपदा-लकृतेन श्रोविजयलावण्यसूरिणा प्रणीत:--
स्याद्यर्थप्रकाशः। बहुविधरूपपरिग्रहजगदभिनाटनमिहाकाङ्क्षन् । स्वयमपि नटति सुकुतुकी यस्तस्मा अहतेऽस्तु नमः ॥१॥ नत्वा श्रीनेमिनाथं विमलगुणगुरु सर्वदा शीललीनं, सूरीन्द्रं हेमचन्द्रं निरुपमधिषणं सर्वतन्त्रस्वतन्त्रम् । प्राज्यानां प्राच्यवाचां मतिततिफलदं योतितानल्पभावं, कारं कारं विचारं विहित इह मया स्यादिवाच्यप्रकाशः ॥२॥ आसीत्तपोगच्छविराजमानः, सतां प्रियः शासनचक्रवर्ती । अनेकतीर्थोद्धरणे प्रसिद्धः, श्रीनेमिसूरीश्वर इद्धतेजाः ॥३॥ तत्पट्टशिष्यः पदवाक्यवेत्ता, शास्त्रेषु सर्वेषु कृतावगाहः । लावण्यसरिविजयादिनामा, स्याद्यर्थवादे कुरुते प्रकाशम् ॥४॥ यस्य व्याकरणेऽपि तर्ककलिता वाणी सदा खेलति,
प्रख्यानेन च तत्त्वदर्शनधिया द्वेधापि दक्षाभिधाम् । विभ्राणस्य विनेयतां गतवतः सूरीशतां चादरोद्,
स्याद्यर्थस्य प्रकाश एष रचितस्तस्यैव विज्ञप्तितः ॥॥
500000000