________________
१६ महोपाध्यायश्रीमेघविजयगणिविरचिते सहसन्धानमहाकाम्बे चर्याप्रबन्धात् स हि वायुभूति
यक्तः सुधर्मा शुभपट्टधर्मा । अकम्पितोऽर्चिनिचयः प्रभासः,
श्रीमण्डितः पण्डितवीर्यवासः ॥ २२ ॥ अन्वयः- चर्याप्रबंधात् स हि वायुभूतिः व्यक्तः सुधर्मा शुभपट्टधर्मा अर्कपितः भचिनिचयः प्रभासः पंडितबीर्य वासः श्रीमण्डितः ॥ २२ ॥
व्याख्या-चर्या प्रबंधात् चर्याया सम्यनियमपरिपालनस्य गुरूपदिष्टवताद्यनुष्ठानस्य अथवा चर्याया इर्यापथस्थितेः अटाट्याया वा प्रबंधात् प्रकृष्टबंधात् नियमात् संदर्भादित्यर्थः स हि वायुभूतिः वायुरिव भूतिः यस्य स अथवा वायुभूतिनामा गणधरः व्यक्तः व्यज्यते गुणैरिति व्यक्तः गणधरः शुभपट्टधर्मा शोभनः प्रशस्तः पट्टधर्म: पीठधर्मो यस्य स मुधर्मा शोभनो धर्मोऽस्य स तदाख्यो गणधरः अकम्पितः न कम्पते कुतोऽपीति अकंपितः तदाख्यो गणधर अचिनिचय: प्रभासः अर्चिपान्तेजसां निचयः पुञ्जः राशिर्वा प्रभासः प्रकर्षण भासते इति प्रभासः पण्डितवीर्यवासः श्रीमण्डितः श्रिया तपाश्रिया दीप्त्याप्रभया मण्डितः शोभितः इति श्रीमण्डितः अथवा गुणैर्दवादाक्षिण्यादिभिः मण्डय ते स्मेति मण्डिनः श्रीयुक्तश्वासौ मण्डितश्चेति श्रीमण्डितः मध्यम पदलोयी समासः तन्नामको गणधरः ॥ २२ ॥ स मौर्यपुत्रः प्रतिभापवित्रो,
मेतार्यनामाप्यनिवार्यधामा । श्रुतोऽचलभ्रातृतया नयाढ्यो
ऽनङ्गोऽप्यनङ्गाङ्कुशलब्धसिद्धिः ॥ २३ ॥ अन्वयः-प्रतिभापवित्रः स मौर्यपुत्रः अनिवार्य धामापि मेतार्य नामा मयान्यः अचलभातृतया श्रुतः अनमोऽपि भनांकुशलब्धसिद्धिः ॥ २३ ॥