SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मैच विजयगणिविरचिते सप्तसन्धानमहाकाये कानां तीर्थकराणां स्वतः परम्परया वा सूर्यवंशप्रभवत्वात् कृष्णस्य च तथात्वात् श्रीसूर्यवंश क्षितिपाश्रयेण प्रभूतमन्वोः मून्वश्व सूत्वश्व पुत्रश्च पुत्रयश्चेत्यनयोरेकशेष इति सून्वौ प्रभूतौ च तौ सुन्यौ चेति प्रभूतसूत्वौ तयोः प्रभूतसुन्वोः प्रसिद्धिः प्रख्यातिरभवत् अजायत अग्रजन्मा पुत्रः अनङ्गशब्दाल्लवणः अनङ्गं कामं लुनाति खसौन्दर्येणाद्यः करोतीति अनंगलवणः परः द्वीतियः कन्यारूप: सन्तानः मदनांकुशाख्यः मदनं काममङ्कुशयति उत्तेजयतीति मदनांकुशा आख्याऽभिधानं यस्य स मदनांकुशाख्यः संतानशब्दस्य पुंस्त्वात्पुनिर्देशः मदनां कुशनाम्नी कन्या प्रसिद्धा जातेति भावः श्रीनेमिनाथपक्षे सून्वोरित्यस्यानुजयोरित्यर्थः ।। १३ ।। * विभावसोरभ्युदये सुरायः, प्रपञ्चतः कोऽपि महर्षियोगात् । चक्रे स तद्भूमिसुतात्मशुद्धिं, " सापि प्रपेदे व्रततीत्रभावम् ॥ १४ ॥ अन्वयः -- कोऽपि सुरायः प्रपंचतः महर्षियोगात् विभावसोः अभ्युदये स तद्भूमिसुतात्मशुद्धि चक्रे सापि व्रततीव्र भावप्रपेदे ॥ १४ ॥ व्याख्या - विभावसोः अग्नेः अभ्युदये प्रज्वलिते अग्निकुण्डे इत्यर्थः कोऽपि कश्चिदपि सुरायः सुरान् देवान् अयते नियोजयतीति सुरायः सुरेन्द्रः महर्षियोगात् महर्षेः - तदानीमयोध्या वहिरुद्याने स्थितस्य जयभूषणमुनेः केवलज्ञानमुत्पन्नमिति सुनासीरादयः सुरास्तत्रसमाजग्मुः देवाश्च सीताशुद्धिं महेन्द्रं व्यजिज्ञपन् महेन्द्रोऽपि प्रत्यनी - कपतिन्तत्र नियुज्य स्वयं मुनेः केवलज्ञानमहोत्सवं विदधे इति प्रपं चतः निधानतः स रामः तत् प्रसिद्धम् भूमिसुतात्मशुद्धिं भूमिसुताया जानक्या आत्मशुद्धिं आत्मपूतां दिव्यरूपामित्यर्थः चक्रे विदधे सापि
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy