SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ९ यदबन्दिवृन्दैरुपगीयतेऽसौ, निपानतोऽस्या विधुरेतिकामी ॥ १० ॥ ४२७ अन्वयः-- प्रभोः पदीयसी इयं कीर्त्तिः लोके नटीव नरीनर्त्ति विभाते असौ बन्दिवृन्दैर्यद् उपगीयते अस्या निपानतः इति कामी विधुरा ॥ १० ॥ व्याख्या -- प्रभोजिनेन्द्रस्य पटीयसी पटुतरा इयं कीर्तिः लोके जगति नटीव नरीनर्ति भृशं नृत्यति विभाते प्रातःकाले बन्दिवृन्दैः मागधैः यद् असौ कीर्तिरुपगीयते वर्ण्यते अस्याः कीर्त्तः निपानतः श्रवणतः कामी कमनीयः विधुः चन्द्रः इति समाप्तः यत् कीर्तिनि पानेन चन्द्रसुषमा समाप्तैव भवतीति भावः अथवा इति प्रकाशः तं कामयते इति इतिकामी विधुरा विषण्णा कीर्तेः सकाशादन्यप्रकाशाभावादिति भावः 'इति हेतु प्रकरणप्रकाशादिसमाप्ति' ष्वित्यमरः ॥ १० ॥ विदेहशोभाकरणेन सीता, प्रभावती या च भुवः शिवस्य । लीना कवेर्बोध भरस्मराङ्गे, रतिप्रभाश्रीहृदि कुन्ददामा ॥ ११ ॥ अन्वयः - - विदेहशोभाकरणेन सीता भुवः शिवस्य या च प्रभावती कचे: लीना बोधभरस्मरा अंगे रतिप्रभा श्रीहृदि कुन्ददामा ॥ ११ ॥ व्याख्या - विदेहस्य विदेहदेशस्य मिथिलादेशस्य अथवा विदेहस्य देहाभिमानरहितस्य जनकनृपस्य शोभाकरणे मण्डनकरणे सौन्दसंपादने कांतिविस्तारे इति यावत् सीताजनकनन्दिनीव यद्वा त्रिशेषेण देहशोभाकरणे देहसौन्दर्य संपादने सीता लक्ष्मीरिव अथ च विदेहस्य शिवस्य देहशोभाकरणे अर्धाङ्गसंपादने सीता उमा इव यद्वा विदेहस्य देहममतारहितस्य साधोः सीता गंगेव निर्मलेति भावः भुवः शिवस्य प्रभावती सुवः पृथिव्याः शिवस्य देवस्य सूर्यस्येत्यर्थः प्रभा -
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy