________________
भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-४ ॥ ककुंकुमः साधितः शोधितश्चासौ साधककुंकुमश्चेति तैः साधितसाधककुंकुमैः शुद्धाभ्रककुंकुमः नगरंजनम् नग इव पर्वत इव रञ्जनं शोभितम् तत् नगरमिति शेषः अपातम् पातरहितम् अपापम् पापशून्यम् निष्कल्मषम् तुलितश्रिभिः तुलिता साम्यीकृता श्रीर्यतः तैः समानसंपद्भिः ऋभुवनैः स्त्रगैः भुवनैरन्यारन्य भुवनद्रुतम् नानुसृतम् व्यधित ध्यरचयत कैरपि भुक्नैन तुलितमित्यर्थः ॥ २० ॥ स्थलमभूद् भुवि योगिवियोगि तत् ,
बहुशुचाहुशुचावचिराज्ज्वलत् । नदवनन्दवनन्दनतोऽभवद्,
न हरिणा हरिणातिशये कृते ॥ २१ ॥ __ भन्वयः-भुवि तत् स्थलम् योगिनियोगि अभूत् बहुशुचा हु इति वितर्के शुचौ अचिराज्ज्वलन् हरिणा हरिणातिशयेकृते नदवनम् दवनन्दनतो न अभवत् ॥ २५ ॥ __ व्याख्या-भुवि पृथिव्यां तत् स्थलम् यत्र वर्णनीयनायकाः शरीरं त्यक्तवन्तः तत्स्थानम् अचिरात् योगिवियोगि योगिनां चरित्रना. यकानां वियोगि रहितमभृत् जातम् तत्स्थलम् बहुशुचा अत्यधिकशोकेन हु इति वितर्के शुचौ आषाढे वर्षासमयेऽपीत्यर्थः ज्वलन् उत्तप्तमभवत् हरिणा हरिणातिशये कृते हरिणा मेघेन हरिणा राज्ञा च अतिशये उत्कृष्ट कृते रचितेऽपीत्यर्थः भरतादितदुत्तरराज्याधिकारिणा मेघेन च शोकशान्तिरचितेऽपि दवनन्दनतः दवस्य अन्तर्दाहस्य नन्दनतः आश्लेषतः विशेषार्थकस्यापि सामान्यार्थकत्वम्प्रकरणादिति कवि समयोऽत एव दवशब्दस्य वनाग्निवाचकत्वेऽपि प्रकृते संतापकत्व मात्रार्थकत्वमिति भावः नन्दवनम् नन्दस्य हृदस्य वनम् न अभवत् संतापशामकं न जातमित्यर्थः ॥२१॥