________________
भाचार्यश्रीविजयामृतरिभणीता सरणी टीका. सर्ग-७ १७५ ब्यालोक्य चारुकुटजातिशयेन केन,
साकेतकेश्वरदृशोदयतीति नोचे ॥ १९ ॥
अन्ययः-- घनाघन घटाप्रकटाम्बुवृष्टया अन्तदाहं शमयन्तम् शौचं प्रभात. समयं ज्यालोक्य कुटजातिशयेन केन साकेतकेश्वरदृशा उदयतीति नोचे ॥१९॥
व्याख्या-घनाघनप्रकटाम्बुवृष्टया धनाधनस्य मेघस्य " वाघुको. ऽग्दो घनाघन इत्यमरः" या घटा आडम्बरम् तया प्रकटाम्बुवृष्टया प्रकटा प्रवृत्ता या अम्बुवृष्टिः जलवर्षणम् तया अन्तर्दाहं ग्रीष्मसमया जनिततापं शमयन्तं निराकुर्वन्तं शौचं शुचिभवम् आषाढमासीय प्रभातसमयं प्रातःकालम् व्यालोक्य दृष्ट्वा चारकुटजातिशयेन चारु. मनोज्ञः यः कुटजः गिरिमल्लिकावृक्षः तस्य अतिशयेन आधिक्येन "कुटजो गिरिमल्लिकेति हेमः" साकेतकेश्वरदृशा आ समन्तात् केतका केतकी पुष्पम् तदेव ईश्वरः प्रधानत्वात् तेन सहिता तदवलोकनसहिता इक् यस्य तेन केन केनापि उदयतीति न उचे न जगदे अथवा केतन मेत्र केतका ध्वजा आसमंतात केतका आकेतकः इन्द्रध्वजम् तेन सहिता दृक् यस्य तेन आकाशे इन्द्रध्वजवाहुल्येन तत्सहितत्वन्नेत्रस्येति तेन दृशेत्यर्थः ॥
__ अन्यत्र-धनाधनः हन्त्यज्ञानमिति धनाधनः अज्ञाननिरासका तस्य घटा परम्परा तया प्रकटा आविर्भूता या अम्बुवृष्टिः अमृतवृष्टिः "पयः कीलालममृतं जीवनं भुवनम्वनमित्यमरः" तया अज्ञाननिरासकरूपोपदेशामृतवृष्टया शौचम् शोकादुत्पत्रम् अन्तर्दाहम् मान. सिकसंतापम् शमयन्तम् निराकुर्वन्तम् अत एवं प्रभातसमयम् प्रभा तनोति प्रकाशमाविर्भावयतीति प्रभातः स चासो समयश्चेति प्रभा. तसमयम् " सामान्ये नपुंसकमिति नपुंसकतया निर्देशः" व्यालोक्य श्रुत्वा धातूनामनेकार्थत्वात् चारुकुटजातिशयेन कुटात् कौटिल्याजा.