SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टोका. सर्ग- १५९ मौढ्यम् मृढताम् सहनशीलताम् न तत्याज न मुमोच फाल्गुने सूर्य प्रभायाः सह्यताक्षिण्यं सर्वथा न भेजे इति भावः इत्यहं मन्ये जाने ॥६॥ उत्प्रेक्षालंकारः ॥ अथ च महसा निजतेजसा । जितः पराजितः सौरस्य सूर्यापत्यस्य कर्णस्य भास्तेजो येन सः जितसौरभाः तस्य जितसौरभासः फाल्गुनस्य अर्जुनस्य " अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जय इति हैमः" जगति भुवने यशसां प्रशस्तिः विख्यातिः प्रादुर्बभूव उदियाय तत् अकेतनुजन्मविभाविनोद: अकेतनुजन्मनः कस्य विभायाः प्रभायाः विनोदः विक्षेपः प्रसह्यबलात् अचिरात् तत् क्षणमेव मौढ्यम् मुग्धताम् न तत्याज निचिक्षेप किन्तु तत्याज एव इत्यहम्मन्येऽनुमिनोमि ।। उत्प्रेक्षा ॥ ६॥ सिद्धोपदेशवचसा कृतकणभेद, श्वेताश्ववाहनबलं स्वनृपानुमत्या । शुद्धैषणादिविधिना सुरवृष्टिरुच्चै मुक्तानुयुक्तकरणैर्जनयाम्बभूवे ॥ ७ ॥ अन्वयः-सिद्धोपदेशवचसा कृतकर्णभेदम् स्वनृपानुमत्या श्वेताश्ववाहनबलम् शु?षणादिविधिना मुक्तानुयुक्तकरणैः उच्चैः सुरवृष्टिः जनयाम्बभूवे ॥७॥ व्याख्या--सिद्धोपदेशवचसा उपदिशति वसन्तागममनुमापय. तीति उपदेशः कोकिलः तेषां वचः उपदेशवचः सिद्धः स्वभावसि. द्धश्च तत उपदेशव चश्चेति सिद्धोपदेशवचः तेन वाभाविककोकिलवचनेन कृतकर्ण भेदः कृतः विरचितः कर्णस्य कर्णिकारपुष्पस्य मेदो विकासो येन तत् श्वेताश्ववाहनवलम् श्वेताश्ववाहनस्य बलम् सूर्यबलम् तेजः "ऋतुकर्ता प्रभाकर इति पुराणम् " स्वनृपानुमत्या सूर्याज्ञया
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy