SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ १५. महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये तसा आटोप आडम्बरः तस्य आरोपात् अध्यवसायात शाब्दिकायोजनाडम्बराध्यवसायत: जयाश्रयः कर्मादिकषायजयाश्रयः गन्धर्वाणां स्वाधिष्ठायकदेवयोनिविशेषाणाम् स्मरध्वजगर्जितैः वाद्यशब्दविशेषः सधन्वभटैः धनुषा सह वर्तते यः स सधन्वा स चासौ भटश्चेति सधन्वमटैः सकोदण्डयोधैरिव श्रिया कान्त्या हरेः सूर्यस्य तनुजवत् सूर्यतनुजं यत्तेजस्तद्वत् यद्वा हरेश्चन्द्रस्य तनुजवत् चन्द्रकान्तिवत् असहनजनक्षोभम् तेजः सहनासमर्थजनचावल्यम् तन्वन विस्तारयन् जिनेन्द्रः प्रभुः इयाय परिवत्राज ॥ रामपक्षे-तस्यापि ततोऽपि सेनया सह स्वसैन्ययुक्तः अग्रेसहा अग्रगामी जयाश्रयः जयम् संग्रामविजयम् आश्रयतीति जयाश्रयः करटिघटनाटोपात् करटिनो गजस्य या घटना योजना तस्या आटोपो गर्वः तस्य आरोपात् अध्यवसायात् गजसन्निभवानरसैन्यसमुदायात् सधन्वभटैः सकोदण्डसैन्यैः स्मरध्वजगर्जितैः स्मरध्वजानाम् वाद्यानाम् "वाधं वादिनमातोघं तूर्य तूरं स्मरध्वजः इति हैम:" गर्जितैः कोलाहलैः हरितनुजवत् इन्द्रपुत्रवत् वाली तपनतनयः सूर्यपुत्रः सुग्रीवः असहनजनस्य शत्रुजनस्य क्षोमम् वैकल्यम् तन्वन् प्रथयन् गन्धर्वाणां च क्षोभम् रावणसहायार्थमागतानां दैवयोनिविशेषाणां च क्षोभम् चाञ्चल्यम् तन्वन विस्तारयन् इयाय संग्रामाभिमुखम् प्रससार ॥ २॥ कृष्णपक्षे-तापयति शत्रूनिति तपनः तनोति स्वकीयवैभवमिति तनयस्तयोः कर्मधारयः शत्रुतापकारकैश्वर्यवान अथवा तप्यते लोकोचरशरीरशोभामश्नुते इति तपनो वसुदेवस्तस्य तनयः पुत्रः कृष्णः सेनया यादवसेनयाग्रेसहः अग्रगः करटिनां गनानां घटना सैन्यसंमेलना तस्या आटोपस्याडम्बरस्य आरोपादथ्यवसायात विजया श्रयः विजयाभिलापुका स्मरत्रजगर्जितैः वाघशब्दैः सधन्वभटैः
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy