SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ३ " मल्लिकाचपकः कंसः पारीस्यात्पानभाजनमिति हैमः" जद्दार हृतवान् सर्वत्र निवारयामास नैपुण्यपुण्यवशतः नैपुण्यं सर्वसम्पत्समर्पकं यत्पुण्यं शुभादृष्टम् तस्यवशत आनुकूल्यात अतिशयाश्रयेण सर्वतोऽधिकत्वेन सर्वश्रेष्ठत्वेनेत्यर्थः निजेष्टदेशे स्वीयामिमतप्रदेशे निष्कण्टकत्वम् निराबाधत्वम् निर्वैरत्वम् अजनिष्ट सर्वतो निरुपद्रवो जात इति भावः ॥ कृष्णपक्षे - परस्परेण कर्णाकर्णितः जनवचनतः कंस प्रयोगं कंसस्य स्वमातुलस्य व्यवहारं नीचाचारं अधिगत्यश्रुत्वा जने खजने हितस्य क्षेमस्य करणाय क्षेमं कर्तु कंसं कंसनामानं नृपं जहार जघान नैपुण्य पुण्यवशतः अत्यधिक पुण्यमाहात्म्यात् अतिशयाश्रयेण अतिशय्यमधिकुर्वतानिजेष्टदेशे स्वाभिमतप्रदेशे निष्कन्टकत्वं निर्वैरत्वं शत्रुराहित्यं अजनिष्ट अजनि ।। २५ ।। सन्तोऽपि ये स्वसमयज्ञविधिं प्रपन्ना, दैत्योपरुद्धमनसो भुवि दुर्जना ये ॥ पूर्वेष्टसाधनविधानमनन्तरायं, कर्त्तुं ययौ स विपिनं परवारणेन ॥ २६ ॥ - अन्त्रयः — ये सन्तस्ते स्त्रसमयज्ञविधिं प्रपन्नाः ते दुर्जनास्ते दैत्योपरदुमनसः पूर्वेष्टसाधनविधानम् अनन्तरायं कर्त्तुं स परवारणेन विपिनं ययौ ॥ २६ ॥ व्याख्या - अथेन्द्रः प्रभोर्विवाहसमयमधिगम्य तदनुज्ञां जिघृक्षुजिज्ञपत् प्रभुश्रमौनेन तदुत्तरन्ददावित्याह सन्तोऽपीति । ये सन्तः सत्पुरुषाः कर्त्तव्याकर्त्तव्यविवेकिन स्वसम्म यज्ञविधिम् स्वममयं स्वावशिष्टकर्मभोगसमयं ज्ञापयति बोधयतीति स्वसमयज्ञः स चासौ विधिश्च तन्तथोक्तम् अवधिज्ञानादिना तद्बुद्धा प्रपन्नाः स्वीकृताः अङ्गीकृता इत्यर्थ ये भुवि पृथिव्यां दुर्जना दुर्बुद्धयः ते दैत्योपरुद्धमनसः अज्ञानोपहततया कर्त्तव्याकर्त्तव्य निर्धारणपराङ्मुखा भवन्तीति शेषः १३७
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy