________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका.
काश्चिद् भुवः शोधनमादधाना, जलानि पुर्यां वृषः सपुष्पम् ।
छत्रं दधुः काश्चन चामरेण,
१०५
तं वीजयन्तिस्म शुचिस्मितास्या ॥२१॥
wwwwwww
अन्वयः- --
- काश्चिद् ( कन्यकाः ) भुवः-शोधनम् आदधानाः पुर्यां सपुष्पं जलानि ववृषुः शुचिस्मितास्याः काश्चन छत्रं दधुः ( काश्चन ) चामरेण तं वीजयन्तिस्म ॥ २१ ॥
चक्रुश्च बालव्यजनेन वातम् ।
व्याख्या --- काश्विद् कन्यकाः भुवः = स्थानस्य शोधनं- सम्मार्जन्या दिनाsaकर निकरनिरसनाद्यात्मकं सस्कारकर्म आदधानाः = कुर्वन्त्यः पुर्यां-नगर्यां सपुष्पं = पुष्पोपहारसहितं जलानि = केतकीशतपत्र्याद्यधिवासित सुगन्धिसलिलानि वृषुः = वृष्टवत्यः अभिषिषिचुरित्यर्थः । शुचिस्मितास्या: = शुचि = अनवद्यं स्मितं = मन्दहसितं यस्मिन् तादृशमास्यं वदनं यासां तास्तथोक्ताः काश्चन कन्यकाः छत्रम् = आतपत्रं दधुः = धारितवत्यः । काश्चन चामरेण चमरमृगपुच्छरचितव्यजनेन तं देवदेवं वीजयन्तिस्म= व्यजनसञ्चालनकर्म कुर्वन्तिस्मेत्यर्थः ॥ २१ ॥
।।
उद्दीप्य दीपानपराः परेश
मणीमयादर्शकराः परास्ताः,
पुरस्सरा गीतविधिं वितेनुः ॥ २२ ॥
अन्वयः -- अपराः ( दिक्कन्यका: ) दीपान् उद्दीष्य परेश: बालत्रयजनेन वातं चक्रुः पराः ताः (दिकन्याः ) मणीमयादर्शकराः पुरस्सरा गीतविधि वितेनुः ॥ व्याख्या - अपराः दिकन्यकाः दीपान् उद्दीप्य = प्रज्वाल्य परेश:परमेशितुः जिनस्य बालव्यजनेन = लघुतालवृन्तेन चामरेण वा