SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ग्रामे ग्रामे जिनानां विमलप्रतिकृतिस्थापनं तीर्थयात्रासङ्घानेकपत्तिः सुमुनिगणपदारोपणादीष्टकार्यम् ।। यत्ते लोके विशिष्टं जिनमतविधितोऽभीष्टकाले मुनीश, तच्छ्रद्धां जैनधर्मे प्रगुणयति सतां मुक्तिमार्गपदात्रीम् ॥४॥ भूपालास्त्वत्पदाब्जे सुकृतिततिफलावाप्तये संलुटन्ते, त्वत्तः प्राप्योपदेशं जिनमतविहिताराधनां कुर्वते च ॥ किं बूमोऽन्येऽपि जैनाज्जिनमतनिरतास्त्वद्वचोऽवाप्ततत्त्वाः, पूज्यस्त्वं जैननेतरजननिकरैर्धर्ममार्गोपदेष्टा ॥५॥ अष्टावाचायवर्यास्तव चरणगताः प्राप्यविद्यामनन्यां, त्वत्तः श्रीदर्शनाचा * अपि बुधनिकरे पूजनीयत्वमाताः । वत्सेवालीढचित्ता "मन मुखममुखाः श्राद्धवर्या धनानां, जैनोन्नत्यादिकार्थे व्ययमतिशयितश्रद्धयाऽकार्पुरुच्चैः ॥६॥ * न्यायवाचस्पति-शास्त्रविशारद--आचार्यवर्य-श्रीमद्विजयदर्शनसूरीश्वरः १, सिद्धान्तवाचस्पति-न्यायविशारद-आचार्य पुङ्गव-श्रीमद्वि. जयोदयसूरीश्वरः २, न्यायवाचस्पति-सिद्धान्तमार्तण्ड-कविरत्न-श्रीमद्विजयनन्दनसूरीश्वरः ३, गुरुभक्तिपरायण-आचार्यश्री-विजयविज्ञानसूरीश्वरः ४, नानाशास्त्रविरचनप्रविण-आचार्यरत्न-विजयपद्मसूरीश्वरः ५, शादिशारद--कविरत्न-आचार्यश्रीमद्विजयामृतसूरीश्वरः ६, समयवित्शान्तमूर्ति-शास्त्रविशारद--कविकुलकिरीट-व्याकग्णवाचस्पति -आचार्य श्रीमद्विजयलावण्यसूरीश्वरः ७, श्रीमदविजयविज्ञानमूरीश्वराणां पट्टयर-- शिष्यवर्यः प्राकृतविद्विशारदः-आचार्य-श्रीमद्विजयकस्तूरसूरीश्वरः ८॥ * श्रेष्ठिवर्य मनसुखभाई भगुभाई. श्रे. लालभाई दलपतभाई, श्रे. चीमनलाल लालभाई प्रभृतिः।
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy