________________
॥ ॐ अहम् नमः ॥ ॥ सर्वलम्धिसम्पन्नश्रीगौतमस्वामिने नमः ॥ सर्वतन्त्रस्वतन्त्र-शासनप्रभावक-मरिचक्रचक्रवर्ति-जगद्गुरुतपागच्छाधिपति-प्रौढप्रभाव-प्रभूततीर्थोद्वारकश्रीमद्विजयनेमिसूरिभगवद्भयो नमः ॥
मुनिप्रवरश्रीशिवानन्दविजयप्रणीतम् ॥ सप्तमङ्गीमीमांसाप्रकरणम्॥
सकलमपि पदार्थ केवले नावधार्य,
प्रथयति निजवाचा यत्रिपद्याऽऽप्तवर्यः । हरतु निखिलविघ्नान तीर्थकृद्विश्वपूज्यः,
स्मृतिपथमुपनीतो वीर इष्टप्रदः सः ॥१॥ येषामस्खलिता निसर्गमधुरा सत्पक्षनिष्ठाऽवरा, नीतिवातकृतादरामितिगणोल्लासैकनीताशया। ऊहापोहविचारणापरिगता भव्याश्रिता भारती, तान् भक्त्या प्रणमामि सूरिमुकुटान् श्रीनेमिसूरीश्वरान् ॥२॥ श्रीनेमीश्वरभक्तिलब्धनिखिलन्यायादिविद्यावरान् , सिद्धान्तैकनिधीन् सदा जिनमतोल्लासैकबद्धोद्यमान् । तान् भूयः प्रणमामि सूरिप्रवरान स्वाध्यायनिष्ठोदयान्, श्रीयुक्तोदयमूरिनामविदितान व्याख्यानबाचस्पतीन् ॥३॥