SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ निक्षेपमीमांसा यतस्तन्मते पूर्वोत्तरपर्यायानुगामि द्रव्यं नास्त्येव सर्वस्यव शणिकतयैवाभ्युपगमात् , स्वलक्षणस्यार्थस्य शन्दगोचरत्वं नास्त्येवेति नार्थप्रतिपादकतयाऽभिमतं नामापि तत्र विद्यते, अयमभिप्रायः न हि तन्मते घटपटादिनामैव नास्ति, अनुभू. यमानस्य तस्यापलपितुमशक्यत्वात् , किन्त्वर्थप्रतिपादकतापन्नस्य शब्दस्य नामता भवति तन्मते च शब्दस्यार्थप्रतिपादकता नास्तीति विशेषणाभावाद्विशिष्टस्याप्यभाव इति, आकृतिस्तु क्रियाऽवयवावानांसनिवेशविशेषस्संयोगविशेषापरपर्यायस्तन्मते नात्त्येव, यतः क्रियेव नास्ति अविरलक्रमेण विभि. प्रदेशसन्तानोत्पादस्य क्रियास्थाने तेनाभिषेकात् , संयोगोऽ. पि नास्ति तत्स्थाने नैरन्तयेस्यैवाभिषिक्तत्वात् , एवमवयव्यपि नास्ति तत्स्थाने परमाणुपुञ्जस्यैवादतत्वादतो वर्तमानक्षणवृत्तिभावमात्रं तन्मते परमार्थसेदर्थक्रियाकारित्वलक्षणसच्चयोगादिति । तदयमत्र निष्कर्षः नाम घटादयः शब्दा अर्थविशेषप्रतिपादका अवश्यमभ्युपगन्तव्याः, कथमन्था "नामघटादिषु घटादिशब्दा निक्षिप्यन्त" इति वचन प्राचां सुसङ्गतं स्यात् , न ह्यखण्डपदार्थप्रतिपादकत्वाभाववन्तं शशशृङ्गादिशब्दमुद्देशस. मकं कृत्वा शशशङ्गादिषु किमपि पदं निक्षिप्यत इत्यतो यस्मिन् यस्मिन् प्रतिनियतेऽर्थेऽखण्डे नामघटादिशब्दा नियमितास्तस्मिंस्तस्मिन्नर्थ तेषां निक्षेपत्वमिति तनिक्षेपत्वसामान्यस्य यल्लक्षणमभिमतं प्राक तद्योगित्वे सति नामत्वं नामनिक्षेपत्वं, तद्योगित्वे सति स्थापनात्वं स्थापनानिक्षेपत्त,
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy