________________
निक्षेपमीमांसा प्रवृत्तिनिमित्तस्यापरिच्छेदे घटपदादर्थविशेषावगतिः, एवं को निक्षपः का वा स्थापना इत्येवं जाग्रति संशये निक्षेपकर्मत्वं स्थापनाकर्मत्वमित्यादिपर्यायान्तरघटितवचनसहस्रेणाप्यसंदिग्धासाधारणस्वरूपप्रतिपत्तेरनुदयात् ।
न च सङ्केतविशेषसम्बन्धेन निक्षेपपदवत्वमेव निक्षेपत्वं शास्त्रकाराणां नामस्थापनाद्रव्यभावेषु निक्षेपपदस्य सङ्केतो विद्यत इति सुघटं निक्षेपस्यावधारणमिति वाच्यम् , नामादिषु चतुषु प्रवृत्तिनिमित्तस्यैकस्यावधारणं विना सङ्केत्तस्यैव कर्तुमशक्यत्वात् ।
न च हर्यादिपदवन्नानार्थक एवायं निक्षेपशब्द इति नामत्वादि प्रत्येकमस्य प्रवृतिनिमित्तमिति तत्तद्रूपावच्छिन्ने निक्षेपपदस्य सङ्केतः कतुं शक्यत इति वाच्यम्, व्याख्याङ्गत्वाविशेषे सत्सङ ख्यादिषु न निक्षेपपदस्य सङ्केतो नामादिषु च सङ्केतः कृतः इत्यस्य विनिगमकमन्तरेण नियन्तुमशक्यत्वात् । __ यथा च घटपटादिपदानामनादिकालतो लोकव्यवहारशा. स्वानुस्यूतानां सङ्केतः प्रतिनियतार्थगोचरोऽनादिकालत एवा. गतो न पर्यनुयोगपात्रं, न चैवं निक्षेपपदसङ्केतः, तस्याहंतसि. द्धान्त एव सुदृढनिरूढत्वादतो भवितव्यं केनचिद्विनिगमकेनेति चेत् , अत्रोच्यते, यथा वाक्यरचनाम्प्रति वाक्यार्थज्ञानत्वेन कारणत्वेन सन्नेव घट इति वाक्यम्प्रति सन्घट इति सुनय