SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ( १०९ ) मेद पृथकत्व परित्यागाहजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवाभ्युपगमान्नायं तुल्यांशध्रुवांशलक्षणद्रव्यमभ्युपगच्छति, अत एवासङ्घटित भूतभाविपर्यायकारणत्वरूपद्रव्यत्वमपि नायं स्वीकरोति, उक्त सूत्रं त्वनुपयोगांशमादाय वर्त्तमानावश्यकपर्याये द्रव्यपदोपचारमालस्व्य प्रवृत्तं पयार्यार्थिकेन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपात्, अध्रुवधर्माधारांशद्रव्यमपि नायमुपैत्यत ऋजुसूत्रो न द्रव्यार्थिक इति प्राहुः इत्थं मतद्वयेऽपि नयस्योत्तरभेदाः, नैगमसङ्ग्रहव्यवहारर्जुसूत्र शब्दसमभिरूढैवम्भूतभेदात्सप्त, नैगमस्य सामान्यग्राहिणः सङ्ग्रहे, विशेषग्राहिणो व्यवहारे चान्तर्भेदात्, षडेव नयाः, नैगमस्यातिरिक्तत्वेऽपि शब्दपदेनैव साम्प्रतसमभिरूढैवम्भूतानां त्रयाणां सङ्ग्रहान्नैगमसङ्ग्रह-व्यवहारजु सूत्रशब्द भेदात्पञ्चनयाः, नैगमस्यातिरिक्तत्वाभावे साम्प्रतादीनां शब्दनयत्वेन सङ्ग्रहे च सङ्ग्रहव्य-वहारर्जु सूत्रशब्दभेदाश्चत्वारो नया इत्येवमुत्तरनयससङ्ख्याविषये पक्षा अवगन्तव्याः । एते च नया: प्रदेश - प्रस्थक- वसतिदृष्टान्तैर्यथाक्रमं शुद्धिभाजः, तत्र नैगमनयो धर्माधर्माकाशजीवस्कन्धानां तदेशस्य चेति षण्णां प्रदेश स्वीकरोति, सङ्ग्रहस्तु धर्माधर्माकाशजीवस्कन्धानां पञ्चान। मेवप्रदेशमुररी करोति
SR No.008451
Book TitleSaptabhangimimansa
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy