________________
गूढार्थतत्यालोकव्याख्यासहितः।
९१ अतएव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमान्तार्थस्य विशे. शक्तरनङ्गीकरणीयखात् संख्यायाश्च प्रथमार्थत्वमभ्युपेयते एवसिद्धान्तिभिरपि तस्याश्च यथा न प्रातिपदिकार्थख तथाधनुपदमेव वक्ष्यति । सूत्रार्थस्तु प्रातिपदिकार्थेतरेषु कर्मवादिष्वविवक्षितेषु प्रथमा भवतीति प्रातिपदिकार्थेतरस्य यस्य कस्याप्यविवक्षितत्वं न प्रयोजकमिति सूचयितुं लिङ्गपरिमाणसंख्यानां विवक्षितलोपन्यासः वचनपदं तदर्थसंख्योपलक्षकम् अनन्यलभ्यन्यायेन संख्यायाः प्रथमार्थत्वव्यवस्थितिरिति एवंच संख्याया अप्यविवक्षितत्वे नियतवचनस्थले कचिद्बाधितत्वेपि च प्रथमाभवत्येव तत्प्रयोजिकायाः कर्मत्वाद्यविवक्षायाः सत्वात् अर्थाभावेऽपि प्रथमामनुशासता सूत्रेण न केवलं प्रकृतिः प्रयोक्तव्येतिव्युत्पत्त्यंशः सूचितः अतो न सूत्रवैययं तदभावेनिर्विभक्तिकप्रयोगस्याप्यापत्तेः नापिच प्रत्ययइत्यंशश्च तत्प्रकृ. तिभ्यएव प्रत्ययानां विधानाल्लभ्यत इत्यलमनुप्रसक्तविचारबाहुल्येन । . अतएवेति । प्रकृत्यर्थे विशेषणविधयाऽन्वययोग्यायास्संख्याया एव प्रथमार्थत्वइत्यर्थः । एतेन चैत्रादीनामेकलमात्रबोधनाय तत्तात्पर्येण चैत्र इतिवाक्यात्प्रथमान्तार्थ चैत्रमुख्यविशेष्यकबोधस्य कुतत्वेन चैत्रः पचतीत्यादावपि सति संभवे प्रथमान्तार्थस्यैव मुख्यविशेष्यत्वमिति सूचितम् । अन्यथा संख्यायां प्रथमार्थखाभावे तत्त्वेऽपि वा विशेष्यले अन्यस्य वा तत्त्वे प्रथमान्तार्थस्य मुख्यविशेष्यताया अकुप्तत्वेनोक्तार्थलाभो न स्यात् एवंच चैत्रःपचतीत्यादौ निपातपदस्य समानवि. भक्तिकपदान्तरस्याभावेऽपि च प्रथमान्तार्थस्य क्रियाविशेषणतया भानाभ्युपगमेन यत्र विशेष्यवाचकेत्यादिप्रन्थासङ्गतिशङ्कापि निरस्ता सतिसंभवइतिकथनानैयायिकैः प्रथमान्तार्थमुख्यविशेष्यकएव बोधः सर्वत्राङ्गीक्रियतइति भ्रमोनिराकृतोवेदितव्यः तेन पचतीत्यत्र पाककृतिमात्रस्य चैत्रेण सुप्यत इत्यत्र चैत्रकर्तृकशयनमात्रस्य प्रतीतावपि क्षत्यभावाचैत्रइत्यस्येति वंजानीहील्यादेरध्याहारस्याकल्पनान्नकुमृष्टिकल्पनाप्रसङ्गः एवं यत्र न प्रथमान्तार्थस्यान्वयबोघे प्रवेशस्तादृशस्थलस्य पचतिभवति पक्ष्यतिभवत्यपाक्षीद्भवतीत्यादेरन्वेषणक्लेशः परेषां लेशतोऽपि न क्लेशातिरिक्तफलकः वर्तमानादिकालीनपाककृतिवृत्तिभवनयुकखाद्याश्रयत्वमिति बोधस्य क्षत्यभावेनाभ्युपगमात् अतएव पचन्तिभवन्तीत्यादयो न प्रयोगाः संख्यान्वययोग्यस्याभावादुत्सर्गतएकवचनस्यैव प्रसक्तः येषामपि कर्तृलक्षणा तेषामपि कर्तुर्भावनायामेवान्वयेन तस्याएव च भवनकर्तृत्वात् संख्यान्वययोग्यत्वाच भवतीत्येव सर्वत्र प्रयोगः कैव कथा कर्तृलक्षणानगीकर्तृमते तस्य एतेन न यत्र कश्चिदभिमुखीकृत्य तादृशप्रयोगस्तत्र खंजानीहीत्यादेरयोग्यतयाऽध्याहाराभावेऽपि न क्षतिः एवं पचतिकल्पमित्यादितद्धितकल्पप्रत्ययस्थले प्रथमान्तपदसत्त्वेऽपि न तस्य मुख्यविशेष्यत्वम् पाककृतिप्रतीषदसमाप्तत्वस्यैकपदोपात्तत्वेन मुख्यविशेष्यत्वसंभवात् संभवेऽपि वा संख्यायाअपि तत्र प्रातिपदिकार्थत्वेनान्वययोग्यतया बहुत्वविवक्षायां पचति कल्पानीत्याद्यपिस्यादिति प्रथमान्तमुख्यविशेष्यत्वनियमहानिरित्यपि परास्तम् सतिसंभव इत्यस्योक्तलात् तदर्थस्य पाकेऽन्वयादीषदसमाप्तपाकलक्षणातात्पर्यप्राहकतत्पदसमभिव्याहारवशाद्वा तत्रेषदसमाप्तपाककृतेस्तद्वतोब्राह्मणादेवी बोधस्याभ्युपगमस्स्यादीषदसमाप्तपाकादेश्च संख्यान्वयायोग्यत्वाद्वचनान्तरप्रसक्तेरप्यभावात् एवं पश्यमृगोधावतीत्यत्र मृगविशेष्यकबोधखीकारे धावन्तं मृगं पश्येत्येव स्यात् मृगनिष्टदर्शनकर्मत्वस्यानुक्तत्वेनोक्ता. धिकारीयप्रथमाया असंभवात् क्रियामुख्यविशेष्यकबोधस्याभ्युपगमे तु तस्याएव दर्शनकर्मत्वेन तद्बोधकधातुपदाद्वितीयाया असंभवादित्येतदप्युद्भावनं परेषां न दूषणायालम् उक्तदोषेण प्रथमान्तार्थस्य तस्य मुख्य विशेष्यलासंभवेन तत्र त्यागे क्षत्यभावात् नहि प्रथमान्तार्थमात्रस्य मुख्य विशेष्यत्वं कैश्चिदपि नैयायिकदेशियैरपि प्रतिज्ञातम् नसमभिव्याहारस्थले विशेषण विभक्तिस्थले च तदनभ्युपगमात् तद्भङ्गमात्रफलकस्योक्तस्थलान्वेषणक्लेशस्य विफलतैव घेवं पश्यमृगोधावतीत्यत्राध्याहृतत्वमिति प्रथमान्तार्थस्य च भवत्येव विशेष्यत्वम् यद्वा इतिपदाध्याहारःकार्यस्तथासति तेनैव निपातेनाभिधानात्प्रथमोपपत्तिः प्रथमान्तविशेष्यत्वानुभवाविरोधश्च । केचित्तु वाक्यार्थस्य च कर्मतया न द्वितीया अतएव"जानामिसीताजनकप्रसूता" इत्यादि "श्रुत्वाममैतन्माहात्म्यं तथाचोत्प. तयः शुभाः," इत्यादयः प्रयोगाः नच शुक्लस्तण्डुलःपचतीत्येवस्थानस्याच्च शुक्रंतण्डलं पचतीति वाच्यं प्रथमस्येष्टत्वात् द्वितीयस्य तु विशिष्टस्य न कर्मत्वमपितु शुद्धतण्डुलस्यैव तस्य च विशेषणमानं शुक्लमिति विशेष्ये विशेषणमितिरीत्या वोधाभ्युपगमेन तण्डुलपदस्यैव शुक्लतण्डुले लक्षणा शुक्लमिति तात्पर्यग्राहकमित्यभ्युपगमेन वा समाधेयत्वादिति वदन्ति । यत्तु मेघोगजति शृश्वित्यत्र मेघस्य गर्जनकर्तुाक्यार्थत्वे तच्छ्रवणस्य बाधितवादप्रामाण्यं स्यादतोगर्जनक्रियाया एव वाक्यार्थमजीकार्यमिति तन्मृगः पलायते अत्ति शस्य मारयेत्यनेन तुल्यं क्रियाया मारणासंभवात् गतिरपि तुत्यैवोभयोः स्यात् ।
ननु भावप्रधानमाख्यातमितिस्मृत्यनुसाराद्भावपदस्य धात्वर्थपरतामभ्युपेत्य धात्वर्थस्यैवप्राधान्यंमुख्यविशेष्यत्वं वैयाकरणैर्भावशब्दस्य भावनापरपर्यायकृत्यादिरूपाख्यातार्थपरतामभ्युपेत्य तस्य प्राधान्यं भाट्टैरभ्युपेयते तैश्चाख्यातार्थस्य प्राधान्योपगमे पचेन पचे त्रः चैत्रस्तण्डुलं शुक्र काष्ठेन स्थाल्यां पचति न पचति घटोस्ति नीलोघटोस्तीत्यादी सर्वत्रैव खज्ञानजन्येष्टसाधनत्वाद्यनुमितिजन्यत्वरूपप्रयोज्यत्वसंसर्गेण लिडर्थप्रवर्त्तनायाः स्वकर्तृकत्वसंबन्धेनाधेयत्वपर्यवसितेन प्रथमान्तार्थस्य पच्यर्थव्यापारस्य च विषयत्वसहितानुकूलत्वपर्यवसितेन वसाध्यतृप्त्यादिफलोद्देश्यकत्वपर्यवसितेन वा करणत्वेन संसर्गेणाख्यातार्थकृतावेव नसमभिन्याहारस्थले निवर्तनायाः स्वज्ञानप्रयोज्यानिष्टसाधनखाद्यनुमितिप्रयोज्याभावप्रतियोगित्वसंसर्गेण तस्यामेव