________________
गूढार्थतत्वालोकव्याख्यासहितः ।
८१ बन्धकतायां तेषामनिवेशादिति वाच्यम् । भवन्मतेऽपि स्वत्वसम्बन्धावच्छिनप्रतियोगिताकराजा. भावव्याप्यराजस्वस्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया ताटशवाक्य
भवन्मतेऽपि स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्येत्यादि । अथ राजाभावव्याप्याभावप्रमेयादिमत्तानिधयाभावानामवश्यप्रवेशनीयतया तेषां किंचिद्धर्मावच्छिन्नविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तिलविषयतानिरूपिताभावादिविषयताघटितधर्मावच्छिन्नाभावत्वेनैकेनानुगतेनैव रूपेण प्रवेशो 'विधेयस्तथासति राजाभावव्याप्यराजस्खत्याभाववत्तानिश्चयाभावस्य पृथक्निवेशेप्रयोजनाभावइति कथं संसर्गतामते निवेशनाधिक्यमिति चेन्न । अनुमितिजननयोग्यव्याप्यवत्तानिश्चयस्यैव प्रतिबन्धकतायाः स्वीकृतत्वेन प्रमेयत्वब्यापकराजाभावसमानाधिकरणवाच्यत्ववत्तानिश्वयस्य घटकालीनप्रमेयलव्यापकराजाभावसमानाधिकरणपटकालीनप्रमेयलवत्तानिश्चयस्यचानुमितिजननासमर्थतयाऽप्रतिबन्धकत्वेन तत्सत्त्वेऽपि शाब्दसामम्या इष्टत्वेनोक्तरूपेणाभावप्रवेशे तदनुपपत्तेः एवमप्रामाण्यज्ञानाभावविशिष्टनिश्चयाभावस्यैव प्रवेशनीयतया तत्राप्रामाण्यमहस्य विशिष्यैव प्रवेशस्य कार्यतया व्याप्यतावच्छेदकतापर्याप्त्यधिकरणधर्मविशेषपर्याप्तावच्छेदकताकविषयतात्वेनैवाधिकरणविषयतानिरूपितविषयतायाः सामानाधिकरण्यधर्मिविषयतायाश्च प्रवेशस्य कार्यखादेकस्यानुगतधर्मस्यासंभवात् । अतएव विषयताविशिष्टप्रकारतानिरूपितपुरुषलावच्छिन्नविशेष्यताकनिश्चयवावच्छिन्नाभावत्वमेकमनुगतो धर्मः संभवति वैशिष्ट्यं च स्वावच्छेदकतापर्यायधिकरणधर्मनिष्ठावच्छेदकताकत्लस्वनिरूपिताधिकरणविषयताभावविषयताघटितव्यापकलविषयतानिरूपितराजाभावविषयतानिरूपितसामानाधिकरण्यविषयतानिरूपितविषयलावच्छिनलोभयसंबन्धेन बोध्यमित्यपि प्रत्युक्तम् । यतु प्रमेयखव्यापको राजाभावः प्रमेयखवानपुरुष इति निश्चयस्यापि प्रतिबन्धकत्वेन तदभावोऽपि निवेशनीपस्तस्यचोक्तरूपेण नसंभवति निवेशइति तन्न उक्तराजाभावविषयताकनिश्चयविशिष्टनिश्चयीयलस्यैव संसर्गतयोपादेयत्वात् । इदमत्रावधेयम् । अनुगतरूपेणाप्रामाण्यज्ञानस्य निवेशसंभवेन तत्तव्यक्तित्वेनाप्रामाण्यज्ञानानामभावकूटस्य प्रतिबन्धकतावच्छेदककोटी प्रवेशेवा अनुगकधर्मस्य भवति संभव इति नोक्तरीत्या संसर्गतामतखण्डनं साधीयः जगदीशप्रभृतिभिश्च संसर्गतामतमेवानुमोदितमपि परन्तूक्तकूटत्वस्यासर्वज्ञाज्ञेयत्वमनुचिन्त्य भट्टाचार्येण प्रकारतामतमेव समीचीनतयोरीकृतमिति । अथात्र प्रकारतावादिनामपि राजखलाभावव्याप्यराजाभाववान पुरुषइतिनिर्णयस्य खातन्कयेण प्रतिबन्धकतया तदभावस्य निवेशनीयतया तदंशे साम्यमेव नच तस्य संसगतावादिमते निवेशनीयेन स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकाभावव्याप्यनिरूपितलसंबन्धावच्छिन्नराजाभाववत्खयत्पुरुषनिर्णयाभावेन समतया राजाभावव्याप्यराजस्वखाभा. क्वत्पुरुषनिर्णयाभावनिवेशनं संसर्गतावादिना पुनरधिकमेवेति वाच्यम् निरूपितलसंबन्धावच्छिन्नराजाभावव्याप्यराजाभाववत्पुरुषवत्खखनिर्णयाभावस्य प्रकारतावादिनामपि निवेशनीयतया आधिक्याभावात । किमत्र वक्तव्यं प्रकारतावादिनां प्रतिबन्धकताधिक्यं प्रति तथाहि तन्मते द्विविधवाधनिर्णयाभावयोः साध्याभाववदत्तिखरूपव्याप्तिपटितद्विविधतळ्याप्यवत्तानिर्णयाभावयोः सामग्यां निवेशः संसर्गतामतेच राजाभाववत्पुरुषनिर्णयाभावस्य राजाभावव्याप्यवत्तानिर्णयाभावस्यच सामन्यां निवेश इति सव्यक्तमेव प्रकारतामत आधिक्यं व्यापकसामानाधिकरण्यरूपव्याप्तिघटितव्याप्यवत्ताबुद्ध्यभावानां प्रवेशे सुतरां तत्र प्रमेयवादिधर्मचतुष्टयमवलम्ब्य बिचारे क्रियमाणे राजस्खत्वाभावव्याप्यप्रमेयखादिधर्मचतुष्टयवत्ता निर्णयाभावचतुष्टयस्य निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्यप्रमेयत्वादिधर्मचतुष्टयवत्तानिर्णयाभावचतुष्टयस्य राजाभाववसुरुषरूपविशेषणभिन्नमूर्तिकविशिष्टप्रमेयवादिधर्मचतुष्टयस्य द्विविधवाधव्याप्यतया निर्णयानामभावाष्टकस्य राजस्ववाभावव्याप्यराजाभाववत्पुरुषनिर्णयाभावस्य राजाभावव्याप्यराजाभाववत्पुरुषवत्खखनिर्णयाभावस्यच प्रवेशइति द्वाविंशत्यभावानां प्रवेशः, संसर्गतामतेच राजाभाववत्पुरुषनिर्णयाभावस्य साध्याभाववत्तिलरूपन्याप्तिधटितराजाभावव्याप्यवत्तानिर्णयाभावस्य व्यापकस्य सामानाधिकरण्यरूपव्याप्तिघटितराजाभावव्याप्यप्रमेयलादिधर्मचतुष्टयवत्तरनिर्णयाभावचतुष्टस्य राजस्खखाभाववत्युरुषराजाभाववत्खखलरूपविशेषणविभिन्नमूर्तिकविशिष्टप्रमेयत्वादिधर्माष्टकस्य राजाभावव्याप्यतया निर्णयानामभावाष्टकस्य राजाभावव्याप्यराजखलाभाववत्ता निर्णयाभावस्य राजाभाकव्याप्यराजाभाववत्पुरुषवत्खननिर्णयाभावस्यच प्रवेशइतिषोडशाभावानां प्रवेशइति चेद् ।
अत्र केचित् घटादिभिन्न विषयकप्रत्यक्षप्रति प्रतिबन्धकलमुभयमतेऽपि समानं तत्र प्रकारतामते सामय्यामधिकवस्तुप्रवेशगौरवेऽपि नाधिकप्रतिबन्धकतागौरवम् । संसर्गतामतेच राजखलाभाववान् पुरुषः सुन्दरः प्रमेयोवाच्य इत्यादि भिन्न विषयप्रत्यक्षसहस्रप्रति प्रतिबन्धकतासहस्रस्य कल्पनीयखाद्गौरवं स्पष्टमेवेत्याहुः तन्न संसर्गतामते राजखवाभाववान्पुरुषः सुन्दरइत्यादिप्रत्यक्ष शाब्दसामम्याः प्रतिबन्धकताकल्पनेन गौरवेसमुद्भावितेन च स्वखादेः प्रकारतामते घटप्रत्यक्षादिकप्रतीत्यादिग्रन्थेन प्रकारतामते समुद्भावितस्य गौरवस्य सन्दर्भविरुद्धखापत्तेः भवन्मतेपीत्यादिग्रन्थेन व्याप्यवत्तानिर्णयाभावप्रवेशनाधिक्येन गौरवस्य समुद्भावितस्य प्रकारतामतेऽपि व्यायवत्तानिर्णयाभावस्य तुल्यस्याधिकस्य वा प्रवेशनीयतया न संभवइत्येतन्मात्रस्यैव पूर्वपक्षितत्वेनोक्तरीत्या समाधानस्यासंभवाच्च अतएव संसर्गतामतेऽपि लक्षणादिस्थले खत्वप्र
११व्यु