________________
व्युत्पत्तिवादः।
भयसंबन्धावच्छिन्नप्रतियोगिताको बोध्यः । स्वविषयकत्वंचोभयत्र स्ववृत्तिधर्मावच्छिन्नविषयताकत्वमतः शाब्दत्वादिना प्रत्यक्षावगाहीच्छावारणमनुमितित्वादिना प्रत्यक्षावगाहीच्छावारणं च राजपुरुषशाब्दान्यज्ञानं जायतामितीच्छावारणम् प्रत्यक्षवादिना शाब्दावगाहीच्छासंग्रहश्च । नच प्रत्यक्षान्यशाब्दान्यज्ञानं जायतामितीच्छायाः प्रत्यक्षवृत्तिज्ञानत्वरूपधर्मावच्छिन्नत्वविषयताकलासंग्रहः शान्दान्यज्ञानं जायतामितीच्छायाः शाब्दवृत्तिज्ञानवरूपधर्मावच्छिन्नविषयताकलादसंग्रहोचेति वाच्यम् खवृत्तिधर्मावच्छिन्नत्वस्य स्वनिरूपिततादात्म्यसंबन्धावच्छिन्नयत्किञ्चित्सम्बन्धितावच्छेदकताखावच्छिनपर्याप्यनुयोगितावच्छेदकरूपत्तिवार्थकत्वात् । वृत्तित्वं च स्वावच्छेदकतालावच्छिन्नपर्यायनुयोगितावच्छेदकत्वसंबन्धेन बोभ्यमित्येतदप्यनुगमवर्म तदप्यननुसरणीयमुक्तदोषादेव । नच यदा यस्य प्रतिबध्यत्वेनाभिमतत्वं तदा तस्यैव खपदेनोपादानमिति घटप्रत्यक्षेच्छाकाले पढप्रत्यक्ष आपाद्यमाने प्रतिवध्यत्वेनाभिमतस्य पटप्रत्यक्षस्यैव खपदेनोपादेयतया तद्विशिष्टेच्छाया अभा. वेनापत्तेर्नसंभव इति वाच्यमेवमनुगतभावस्य खपदार्थे संबन्धघटकतां विना नव्यैरनङ्गीकारात्पृथक्प्रतिवध्यप्रतिबन्धकभावस्यैवापत्तेरेवमेवान्ये प्रकारा निरस्ता चेदितव्या इति ।
अथेच्छावदन्यत्वस्यैव प्रतिवध्यतावच्छेदकलं वाच्यं तथासत्युक्तदोषाणामप्रसक्तेः । प्रतिबध्यप्रतिबन्धकभावभेदो नाभ्युपेयः इच्छापत्ताच प्रयोज्यत्वसंबन्धेन । नन्विच्छावदन्यत्वस्य प्रतिबध्यतावच्छेदकत्व एवहि गौरवम् तथाहि । इच्छाविशिष्टप्रत्यक्षाणां शाब्दसामग्रीसत्वेऽसत्यांचेच्छायामापत्तिवारणाय तत्तदिच्छाविशिष्टप्रत्यक्षे तत्तदिच्छायाः कारणत्वं वाच्यमिति तदंशेन साम्यादुक्तप्रतिबध्यतानिरूपितप्रतिबन्धकत्वस्याधिक्यादिति चेन्न, यत्रैकमिच्छाकारणत्वं तत्राहि सामग्याः प्रतिवन्धकत्वे सामग्रीत्वस्य समुदायत्वात्मकस्यैकविशिष्टापरत्वात्मकतया विशेष्यविशेषणभावे विनिगमनाविरहादनेक गुरुधर्मावच्छिन्नं प्रतिबन्धकत्वं स्यादितीच्छावदन्यत्वस्य प्रतिबध्यतावच्छेदकत्वेन संभवति संभावनापि गौरवस्य यदि समुदायत्वं नैकविशिटापरत्वं तदापीच्छावदन्यत्वस्य प्रतिबध्यतावच्छेदकत्वे घटादिदशविषयकप्रत्यक्ष प्रति राज्ञः पुरुषइतिवाक्यघटितशाब्दसामग्या एकं चैत्रस्य पुरुषइति वाक्यघटितशाब्दसामय्या एकं प्रतिबन्धकत्वमितिप्रतिबन्धकताद्वय मिच्छाकारणतादशकंच इच्छायाउत्तेजकत्वे विंशतिप्रतिबन्धक्रत्वानि इत्येवंप्रव्यक्तमेव लाघवगौरवमुभयत्र पक्षे । यत्तु इच्छाविरह विशिष्टसामग्रीत्वेन प्रतिबन्धकत्वे सामग्रीत्वस्यकविशिष्टापरत्वरूपतया विशेष्यविशेषणभावे विनिगमकाभावाद्यावत्यः प्रतिबन्धकतास्ततो बाहुल्यं स्यात्तेषामेकैकस्येच्छाभावेन विशेष्यविशेषणभावे विनिगमकाभावादिति तदना देयम् इच्छाभावस्य हि तत्तब्यक्तिलावच्छिन्नप्रतियोगिताकत्वेन निवेशनीयस्य समुदायत्वेनैव प्रतिबन्धकतावच्छेदककोटौ प्रवेश्यतया तस्य विशेष्यत्व एक विशिष्टापरस्यैव तत्त्वेन तत्र विशेष्यविशेषणभावे विनिगमकामावादनन्तप्रतिबन्धकलापत्तेः तादृशाभावरामुदायस्य युगपद्विशेषणत्वेन परिहतानन्तप्रतिबन्धकलापत्तौ विशेषणवपक्षे विनिगमकत्वस्य संभवाद्विशेषणलमेव संभवतीति नेच्छाभावविशेष्यविशेषणभावविनिगमनाबिरहकृतगौरवस्य प्रसरः परन्तु सामग्रीघटकतत्तत्कारणकोटिप्रविष्टतसद्विषयत्वादीनां विशेष्यविशेषणभावविनिगमनाविरह. प्रयुक्तप्रतिवन्धकतावच्छेदकबहलीभावे सत्येकैकस्यापि प्रतिबन्धकतावच्छेदकस्य खघटकतत्तत्पदार्थेविच्छाभावविशेषणलविनिगमकाभावनिवन्धनतत्तत्पदार्थसमसंख्यतयाऽनेकत्वं भवत्येवेति चेदत्रकेचित् शाब्दसामय्यां घटप्रत्यक्षसामन्यां पटप्रत्यक्ष. सामग्यांच सत्यां घटप्रत्यक्षासंभवे पटप्रत्यक्षमन्यथा घटप्रत्यक्षमेव जायतामितीच्छादशायां घटप्रत्यक्षमिव पटप्रत्यक्षमपि स्यातस्यापीच्छावत्वेनाप्रतिवध्यखादेवराज्ञः पुरुषइतिवाक्यघटितायां मैत्रस्यपुरुषइतिवाक्यघटितायां च शान्दसामय्यां मैत्रस्यपुरुष इतिशाब्दसामभ्यामसत्यांघटप्रत्यक्षमन्यथा शाब्दबोधो जायतामितीच्छादशायां घटप्रत्यक्षसामम्यां घटप्रत्यक्षापत्तिस्तस्यापीच्छावत्त्वात् तादृशेच्छांविना तादृशप्रत्यक्षापत्तिवारणाय कुप्तकारणभावायास्तादृशेच्छाया अप्यत्र सलाच तादृशेच्छायास्तत्ताक्तित्वेन हेतुत्वेचानन्तकारणलापत्त्याऽस्मिन्नेवपक्षे गौरवं स्यादुत्तेजकतापक्षे चेच्छायास्तत्तव्यक्तित्वेनैवाभावस्य प्रविष्टत्वेन दोषस्यासंभवादित्याहस्तदसत् घटप्रत्यक्षसामनोविगमकालएन तादृशेच्छावतः पटप्रत्यक्षस्य संभवेन तादृशसामग्रीविरहविशित्वेन तस्या हेतुखोकी दोषाभावात् । यत्तु शाब्दसामग्रीदशायां घटप्रत्यक्षेच्छातो जायमाने घटप्रत्यक्षे पटविषयकलमपि स्यात्पटाविषयकप्रत्यक्षसामग्याः पटविषयताप्रयोजिकायाः सत्त्वात् कार्यज्ञानस्येच्छाचदन्यत्वविरहेणाप्रतिवध्यतया तनिष्टभिन्नविषयकलस्य प्रतिबन्धकसामध्यभावानपेक्षलात् उत्तेजकतापक्षेच पटप्रत्यक्षेच्छाविरह विशिष्टसामय्यभावस्यैव पटविषयताप्रयोजकत्वेन तादृशाभावविरहादेवापत्तेरसंभवादिति तत्तुच्छम् । पटविषयतायाः प्रत्यक्षनिष्ठाया अन्यतरद्धि प्रयोजकं तादृशसामस्यभावः पटप्रत्यक्षेच्छाच प्रकृतस्थले तदुभयोरभावान पटविषयकलप्रसक्तिः घटप्रत्यक्षेच्छायास्सत्त्वेन घटविषयकलंतु संभवत्येव अतएव सत्प्रतिपक्षग्रन्थे बाधबुद्धेरिच्छाचदन्यविशिष्टबुद्धौ प्रतिबन्धकलाभिधानं संगच्छते अन्यथा बाधकाले घटचाक्षुषेच्छादशायां जायमाने घटचाक्षुषे पटचाक्षुषसामग्रीसत्त्वे पटविषयकखमपि स्यादिति तस्यदुष्टत्वं स्यादिति चेदुच्यते। इच्छावदन्यप्रत्यक्षखस्य प्रतिबध्यतावच्छेदकत्वे तस्य सामग्यभावकार्यतावच्छेदकत्वस्याप्यावश्यकतया प्रयोज्यत्वस्य संसर्गतया तद्धटकलापत्तिः प्रयोज्यत्वस्य हि कार्यतावच्छेदकघटकलमात्माश्रयादिदोषदूषितम् । नच कारणनिरूपितमेव प्रयोज्यलमात्मा भ्रयादिप्रयोजक नचेच्छाप्रकृतकारणमितिवाच्यमिच्छावदन्यबुद्धौ सामध्यभावस्य कारणत्वे इच्छाविशिष्टबुद्धाविच्छायाः