________________
गूढार्थतत्वालोकव्याख्यासहितः ।
६५
माणोऽपि कथञ्चिद्विशेषणविशेषोपरागेणैवेति विविच्यमाने तत्रापि विशेषणस्यैवापेक्षितलं पर्यवस्यति । विशेषणं च भेदेनैव खान्वयीति नित्यसापेक्षवं भेदसंबन्धेनेतरान्वितत्वे पर्यवसितं सद्यदाऽसामर्थ्यप्रतिद्वन्द्वितयाऽवगम्यते तदाऽभेदेनान्वितत्वस्थासामर्थ्यप्रयोजकत्वमपि गृह्यत एवेति सापेक्षवघटकतयाऽभेदान्वयस्य लाभः संभवत्येवेति ।
अत्रचैत्रस्यगोरूपमित्यत्र सापेक्षताविरहप्रसङ्गः कौस्तुभकृतोद्भावितः चैत्रनिरूपितत्वस्य समासाघटकपदार्थस्यापि भेदेनैव गोपदार्थेऽन्वयात् सच यद्यपि प्रतिबन्धकाभावे गोपदार्थावगमे च सति कस्येत्याकाढाया नियमेनोत्थानं तत्र चेदानुभविकमिष्टएच स्यात् प्रयोगस्य साधुत्वात् तथापि गोत्वादिपदार्थावगताव गोत्वस्य गोसंसृष्टतयावगतत्वेन कस्य कुत्रवेत्याद्याकालाया विरहाद्गोवपदस्यानित्यसापेक्षतयासापेक्षत्वविरह इष्टापत्त्ययोगाद्वाहुलेयायां गोलाभाव इति साधुः स्यात् प्रामाणिकश्च स्यात्प्रयोग इत्यत्र तात्पर्य बोध्यम् । एवञ्चाने तदर्थान्वितेत्यत्राभेदान्वयो वा निवेशनीय इत्यत्रानास्थाद्योतकवाकारस्य अन्थकतुरुपन्यासो मन्तव्यः । यच्च त्रिपदतत्पुरुषादेरनभ्युपगमाच्चैत्रसखिधनमित्यत्र सख्युर्धनं सखिधनं चैत्रस्य सखिधनमिति समासएवाभ्युपेयः चैत्रशब्देन सखिशब्दस्य प्राक्समासेतु समासान्तविधेः प्राप्तौ चैत्रसखधनमिति स्यात् तत्र सखिपदार्थस्य सखिधन मितिसमासबहिर्भूतचैत्रपदार्थेन चैत्रसंबन्धिना भेदेनान्विततया सापेक्षत्वेनोक्तसमासस्यासाधुतास्यादित्युक्तं तैस्तत्समासाघटकपदे विभक्त्यन्तलोपादानात्खप्रयोजकधिवक्षाप्रयोज्यसमासबहिर्भूतत्वस्यैव समासाघटकलपदार्थत्वेन विवक्षितलाद्वा, समासाघटकपदार्थे विभक्त्यर्थंघटितधर्मावच्छिन्ननिरूपितनिरूढलक्षणाधीनोपस्थित्यविषयत्वस्य विशेषणलाद्वा समाधातुं शक्यं तथाहि चैत्रस्यसखिधनमित्यत्र चैत्रशब्दस्य विभक्त्यन्तत्वेऽपि अभेदान्वयाभावान्न सापेक्षता चैत्रसखिधनमित्यत्रापि चैत्रपदस्य विभक्त्यन्तलाभावेनाप्रात्यवान सा । नचैवं राझोमातङ्गा राजमातङ्गा ऋद्धस्य राजमाताइतिविग्रहेऽपि समासः स्यादिति वाच्यम् तादृशविग्रहस्यैवासाधुत्वात् ऋद्धराजमातङ्गाइति समासस्तु साधुरेव ऋद्धश्चासौराजा ऋद्धराजः ऋद्धराजस्य मातङ्गा इति साधुविग्रहस्य सत्त्वात् । तन्नहि सापेक्षत्वमनिष्टमेव एवं प्रतिप्रयोग पदानां भिन्नत्वेन यत्र चैत्रसखिषनमिति प्रयोगस्तत्र तद्भटकस्य सखिधनमिति समासस्य केवलात्सखिधनमिति समासाद्भिन्नत्वेन चैत्रसंबन्धिसखिधनबुबोधयिषाया एकस्या एवाभ्युपेतव्यायाः स्वप्रयोजकतया तत्प्रयोज्यस्य चैत्रसखिधनमिति समासस्य घटकमेव हि चैत्रपदमिति नसापेक्षत्वप्रसरः । एवं चैत्रपदार्थस्य चैत्रसंबन्धिनो विभक्त्यर्थघटितत्वाद्वा नोक्तप्रसङ्ग इति । अन्येत्वाहुः । चैत्रस्य गुरुकुलमित्यादेः साधुलोपपादनाय सापेक्षत्खशरीरे सभासघटकपदे प्रतियोगिपदकारकपदातिरिक्तत्वं विशेषणमुपादेयम् "प्रतियोगिपदादन्यचदन्यत्कारकादपि । वृत्तिशब्दैकदेशार्थे न तस्यान्वय इष्यत" इत्यभियुक्तोक्तेः । प्रतियोगित्वं च खग्रहत्वव्यापकविषयतासमानाधिकरणतत्प्रयोज्यजिज्ञासाविषयतावच्छेदकविशेषधर्मावच्छिन्नत्वम् । गुरुत्वादिकचान मते सर्व निरूपकघटितमेवाभिप्रेतम् । तथाहि खबुभुत्सितार्थप्रतिपत्तिफलकोपदेशकर्तृलम् खगर्भबुभुत्सितत्वप्रवेशादुपदेशादन्यस्यान्यबुभुत्सितार्थप्रतिपत्तावपि न तनिरूपितगुरुत्वव्यवहारः स्वाभिलषितनियतनिरुपाधिकोपकारकर्तृवं सखित्वम् स्वाभिलषितवप्रवेशादसङ्गस्य यतेः खरसतोविश्वोपकारिणि यती न मित्रत्वव्यवहारः नियतत्वप्रवेशात्कदाचिदुपकारके निरुपाधिकत्वप्रवेशाचापकर्तुरपि धर्मबुद्ध्योपकारके न सखित्वप्रसङ्गः पुत्रत्वपितृलादीनांजन्यजनकभावटितानां जन्यजनकघटितवं प्रसिद्धमेव दासलं तु क्रीतले सति खामीच्छाविघातपरिहारेण प्रवर्तमानलं कीतानामपि मवादीनां स्वामीच्छाविरोधेनापि प्रवर्तमानानां न दासलव्यवहारः अक्रीते तु विशेष्यदलसत्त्वमात्रनिबन्धनो गौणः सः मित्रे बन्योन्यानुरोधादन्योन्येच्छाविरोधेन प्रवर्तमाने न गौणोपीत्येवं सनिरूपकाणां निरुक्तिरूहनीया गुरुत्वादीनां संबन्धिघटितखात्संबन्धिघटितत्वेन सनिरूपकत्वेन च व्यवहारः । नच गोगोलादीनां स्वाम्याद्यघटितत्वात् प्रतियोगित्वनिरुक्तौ जिज्ञासापर्यन्तानुधावनाहरुलादिग्रहलव्यापकविषयत्वस्य बुभुत्साप्रतिपत्त्यादौ सत्त्वेऽपि न प्रतियोगिलप्रसङ्गः न ततो बुभुत्साया गुरुरिल्यादिव्यवहारप्रसङ्गश्च गुरुवादिघटकतया सामान्यतोशातस्य विनेयादेरेव हि विशेषतो जिज्ञासितवं न बुभुत्सादेः विनेयादेविशेषतो ग्रहादेव च गुरुत्वादिबोधः पर्यवसन्नः सर्वाशे ह्यसंदिग्धात्मा संपद्यतइति युक्तं विनेयादेनिरूपकत्वापरपर्यायप्रतियोगिलम् एवं चात्र पक्षेऽभेदान्यसंबन्धप्रतियोगिखातिरिकं प्रतियोगिलं दुर्वचमिति मन्यमानस्य कौस्तुभकृतो यचैत्रस्य गोरूपं चैत्रसखिधनमित्यत्रापत्त्यनुपपत्योरुद्भावनं तदपि निरस्तम् चैत्रादेर्गोपदार्थे प्रतियोगिलविरहात्सखिपदार्थे सखित्वे तत्सवाच्च । प्रतियोगिपदखं च प्रतियोगितद्धदितधर्मावच्छिन्नान्यतरस्य शक्तिनिरूदलक्षणान्यतरवृत्त्याभिधायकल, विभक्त्यर्थस्य संसर्गतापक्षे यथाश्रुतमेव, अतएव कारकपदान्यत्वमपि सार्थकम् । अन्यथा कारकस्थाप्यभेदान्यसंबन्धेनैवान्वितत्वेन प्रतियोगिरूपत्वेन कारकपदस्यापि प्रतियोगिपदातिरिक्तत्वेनैव व्यावृत्तिः स्यात्, अयमेव च पक्षः कात अपरिशिष्टकृदायभिमतो जगदीशस्यापि संमतः । कौस्तुभकृतां दोषोद्भावनंतु विनेयादेमुरुलादिशरीरे प्रवेशाभावे. ऽपि चैत्रादिपदार्थविनेयादिविशेषस्य नियमतो बुभुत्साद्यन्वयसाकाङ्कवाभ्युपगमेन यस्य बुभुत्सा तस्यैव निरूपितलस्यच तत्रोपगमेन दोष निराससंभवेनोक्तप्रतियोगित्वनिरुक्तरसंभवाभिप्रायकतया कथंचित्समर्थनीयमिति ।
परेतु यन्त्र नित्यसापेक्षलं तत्रैकदेशान्वय इत्यभिप्रेत्य यत्र विशेषणेऽन्वयस्तत्र सापेक्षत्वं यत्र विशेषणतावच्छेदकेन तत्र तयालमित्याहुस्तचैतत्स्वार्थश्च खीयवृत्तिग्रहविशेष्य इति मूलग्रन्थवक्ष्यमाणपक्ष एव पर्यवस्यति । अत्रच चैत्रस्य गोरूप
९ व्यु