SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकव्याख्यासहितः । ६३ गोपदस्य स्वरूप चित्रपदस्य स्वरूपं गोपदस्य वोक्तखाम्यर्थ इति वाच्यम् इतरपदार्थान्वितगोरूपस्वार्थस्योपसर्जनलाभावेन तथाल एवगोपदस्योदन्ततायास्संभवेन तदनुपपत्तेः । यत्त्वत्र द्वन्द्वैकशेषान्यतरप्रसङ्ग उक्तस्तन्न साक्षादनन्वितल एव तत्तत्पदार्थयोस्तयोः प्रसक्तरत्र पदार्थयोरभेदेनान्वयानीकारात् । एवमेकदेशान्वयाभ्युपगमेऽपि प्राप्तमुदकं यमिति वाक्यार्थबहुव्रीहौ प्राप्तोदक इत्यत्रागतिरेव । तथाहि प्राप्तशब्दस्य कर्तृक्तनिष्पन्नस्य प्राप्तिकर्तार्थः उदकशब्दस्य उदकसंबन्धिनि लक्षणाभ्युपेयते उदके चोक्तकर्तुरन्वयस्तथापि विवक्षितस्य उदककर्तृकप्राप्तिकर्मणोर्थस्य न लाभः एवं । कृतपाकइत्यादी कृतपाकपदयोरसक्तत्वेन लक्षणाया एवासंभवात् खसमवेतकृतिकर्मपाकसंबन्धिलादिना चैत्रादेश्वगमस्थाशक्यखात् खरूपार्थकघमात्रस्योक्तार्थलक्षकलस्य प्रत्ययानां प्रकृत्यान्वितखार्थबोधकखव्युत्पत्तिविरोधेनासंभवात् धातुमात्रस्य सथात्वे तदर्थस्याप्रकृत्यर्थत्वेन सुबर्थानन्वयप्रसङ्गादगतिरेवेति चेत् उच्यते । कथञ्चिदपि कुप्तशक्तिकपदालक्षशयाऽभिमतार्थसंभवे समभिव्याहारवेलक्षण्यप्रयुक्तानन्त्यवत्समासेष्वनन्तशक्तिकल्पनाया गुरुतराया अन्याय्यत्वमेव । लक्षणयाचेत्थं निर्वाहः संभवति । तथाहि गोपदस्य चित्राभिन्नगोखा मिलक्षकत्वेऽपि चित्रापदस्यहवतापन्नस्य गोपदाव्यवहितपूर्ववर्तिन एव तात्पर्य ग्राहकतयाऽन्वयव्यतिरेकान्यांच चित्रगुपदजन्यशाब्दबोधे ताशसमभिव्याहारज्ञानस्य कारणतया च निरूप्यनिरूपकभावापन्नवस्वार्थनिष्टविषयताकशाब्दबोधप्रयोजकाकाहाशालिवरूपा व्यपेक्षा तत्राक्षतैवेति न समासानुपपत्तिः । स्वार्थत्वं चख प्रयोज्यविषयताश्रयलमेव चित्रापदार्थविषयत्वे शाब्दबुद्धौ चित्रापदप्रयोज्यत्वस्योपस्थितिद्वारकस्यासत्वेऽपि चित्रापदवृत्तिग्रह वेना तात्पर्यग्राहकत्वस्याभावेन तात्पर्य ग्रहद्वाराकालाघटकत्वेन साक्षादेव वा तस्य संभवः । नच पदार्थान्तरान्वितगोपदार्थस्योसर्जनतायामेव ह्रस्व विधिर्वाच्योऽन्यथा गोशब्दस्य स्वामिनि खारसिकलक्षणायामपि हम्वतापत्तेः पदान्तरानपेक्षया पदान्तरायविशिष्टत्वरूपेण तथात्वेपि हखखोपगमे चित्रगोखामिनि खारसिकलक्षणायां गौरस्तीत्यादौ ह्रखतापत्तेरिति प्रकृते चित्रत्वस्यापि गोपदार्थत्वे ह्रखतानुपपत्तिरिति वाच्यम् निरुक्तक्रमेण पदान्तरप्रयोज्यार्थविषयतानिरूपितगोपदार्थविषयताया गोपदजन्योपस्थिति विशेष्यतानिरूपितप्रकारताप्रयोज्याया आश्रयत्वमेवोपसर्जनलं तथालेच गोपदस्य इखवाभ्युपगमे क्षतिविरहात् । एवं च बहुव्रीहिस्थले एकदेशान्वयादिक्लेशस्यापि नावकाशः । तत्पुरुषांपेझयापि बहुव्रीहेर्जघन्यताप्रवादश्च व्यर्थबकल्पतात्पर्यग्राहकलस्य खघटकपदे प्रसक्त्योपपादनीयः कृतपाक इत्यत्र अजोलक्षणाव्युत्पतिवैचित्र्योपगमात्प्रकृत्यान्वितलनियमः संकोचनीयः, प्राप्तोदक इत्यत्रोदकपदमेवोदककर्तृकप्राप्तिक लाक्षणिकं प्राप्तपदं तात्पर्य ग्राहकमिति न काचिदनुपपत्तिः । यद्धा गोपदस्यैव शक्त्या लक्षणया च गौः खामी वार्थ इति न तत्रैकदेशान्वयापत्तिः । एकधावर्थयोः संयोगव्यापारयोरिवैकप्रातिपदिकार्थयोरपि भेदेनान्वयो व्युत्पत्तिवैचित्र्यासभ्युपेयते मूलं व तत्रैकदेशानन्वयनियमसहकृता तात्पर्यान्यथानुपपत्तिः अतएव युगपद्धृत्तिद्वयागीकरणमपि न विरुध्यते । चात्र चित्रगुरस्ति तामानयेत्यत्र तत्पदात् गोर्बोधापत्तिः तस्य प्रधानलात् प्राधान्यं च वृत्तिग्रहमुख्य विशेष्यत्वमेव नतु शाब्दग्रहमुख्यविशेष्यवं तथा सति चैत्रेण गम्यते तमानयेत्यादौ चैत्रादिबोधानुपपत्तेरिति वाच्यं तत्पदवृत्तिज्ञानीयविषयताप्रपोज्यविशेष्यवानिरूपिततत्पदवृत्तिज्ञानीयविषयताप्रयोज्यविषयताश्रयलस्यैव प्राधान्यरूपत्वात् चैत्रेणेत्यादौ चैत्रादेः प्रकारत्वेऽपि चैत्रपदार्थे तस्याप्रकारल्लात् प्राधान्यनिर्वाहः गोः गोपदार्थ एव खामिनि प्रकारवान प्राधान्यप्रसङ्गः बहुव्रीहेरधिकवृत्तिप्रहसापेक्षलात्तत्पुरुषापेक्षया जघन्यताप्रवादः समर्थनीयः चित्रपदगोपदयोरुभयोश्चित्राभिन्नगोस्वामिलक्षकलपक्षश्च न्युत्पत्तिवैचित्र्यादेकपदार्थयोरभेदान्वये विरूपोपस्थितेरनपेक्षामभ्युपेत्य कथञ्चिदुपपादना)पि द्विधा तादृशार्थभानस्यानुभवविरुद्धवादितो नादरणीयः प्राप्तोदक इत्यत्र धातोः प्राप्तिः क्तप्रत्ययस्य कर्मकर्ता चार्थः कर्तर्युदकस्य कर्तुः प्राप्तौ प्राप्तः कर्मण्यन्वयोपगमाद्विवक्षितस्योदककर्तृकप्राप्तिकर्मबोधस्य निर्वाहः विशेष्यविशेषणभावव्यत्यासश्च व्युत्पत्तिवैचित्र्यादभ्युपेयो इति सर्वमवदातम् । अथवा परमःसुन्दरः चैत्रस्यगुरुकुलमिल्यादौ शतश एकदेशान्वयस्य दृष्टत्वेनेकदेशान्वयनियमस्यावश्यसंकोचनीयले बहुव्री हिस्थलेऽपि तत्संकोचो लक्षणाच न दोषावहः लक्षणायां संकोचे च शक्तिकल्पनागौरवसहकृततात्पर्यान्यथानुपपत्तिर्मूलमस्तीति निर्मूललाभावात् अनपक्षे चोपसर्जनवप्राधान्यादिकं यथाश्रुतमपि न क्षतिकरम् । नपत्र प्रकृ. सर्थान्वितखार्थबोधकवनियमसंकोचस्यादृष्टचरस्य प्रसङ्गः कृधातोः स्वकीयकृतौ लक्षणा तप्रत्ययस्य कर्मार्थः पच्धातोश्च पाकः घनः संबन्धिनि लक्षणेत्यभ्युपगमात्कृतपाकइत्यत्र स्वकृतिकर्मपाकसंबन्धित्वेन चैत्रादेवाधस्य निर्वाहात् । नह्यत्र युगपद्वृत्तियाङ्गीकारप्रसङ्गो नवा कुप्तविशेष्यविशेषणभावव्यत्यासस्य च प्रसङ्गः प्राप्तोदक इत्यत्र धातो: खकर्मकप्राप्तौ लक्षणा क्तप्रत्ययस्य कर्तार्थः उदकपदस्योदकसंबन्धिनि लक्षणा तथासति सकर्मकप्राप्तिकर्बुदकसंबन्धित्वेन ग्रामादेरवगतिरुपपद्यते । नचैवमप्युदककर्तृकप्राप्तिकर्मत्वेन प्रामादिबोधस्य विवक्षितस्य न निर्वाह इति वाच्यम् आरूढवानरइत्यादौ खकर्मकारोहणकर्तृबानरसंबन्धिवादिना वृक्षादेबंधिस्य तन्त्रतत्रोपपादितलेन तत्तुल्येऽम्रापि तथाविधार्थविवक्षाया एवोचितत्वेनोक्तार्थविवक्षाया एवाप्रामाणिकलात् प्रामाणिकत्वे वा उदकपदस्य कर्मणि क्तप्रत्ययस्य प्राप्तौ धातोरुदककर्तृत्व लक्षणाभ्युपगमादुदककर्तृकप्राप्तिकर्मबोधस्य संपादनीयवादचच प्रणाल्या प्राप्तोदक इत्यत्र कारकतृतीयार्थस्य प्रणालीकरणखस्य खनिरूपकप्राप्तिनि
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy