________________
गूढार्थतत्वालोकव्याख्यासहितः।
४७ भावाख्यातस्थलवदित्यवधेयम् । अभेदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः घटो घटः, दण्डवान् दण्डवान् , पाकं पचतीत्यादी घटत्वदण्डवत्त्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छिन्नस्य तथा विधान्वयबोधानुदयात् । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात्कथं न ताहशान्वययोधः। अत्राहुः।यादृशं फलं क्वचित्प्रसिद्ध्यति ताशस्यैवापत्तिःसम्भवति क्लुप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताकाभेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकारकशाब्रोधस्य क्वचिदप्यनुदद्यात्कथं तदापत्तिः अथ घटो नीलघट दण्डवान्
क्लीबलिकाभिव्यजकत्वमपि बोध्यम् । सामान्ये नपुंसकस्यैव साधुत्वात् नियतलिङ्गस्य क्रियाविशेषणत्वे लिङ्गत्यागप्रयोजकानुशासनाभावादौत्सर्गिकमिति, तेनेतिहेतुं पचतील्यादयएव प्रयोगाः सा चेयं द्वितीया तादात्म्यफलतावच्छेदकान्यतरसंबन्धेन धात्वर्थतावच्छेदकफलशालिनः कर्मसंज्ञकत्वं क्रियाविशेषणानां तादात्म्येन फलेऽन्वयञ्चाभ्युपेत्य कर्मणिद्वितीयेति सूत्रानुशिष्टैवाङ्गीक्रियते जरच्छाब्दिकैः । नचाकर्मकधातोर्व्यापारमात्रबाचित्येन तद्विशेषणपदाद्वितीयाकथमिति वाच्यं तन्मते फलायच्छिनव्यापारस्यैव सर्वत्र धात्वर्थत्वात् फलव्यापारयोस्सामानाधिकरण्यासामानाधिकरण्याभ्यामेव सकर्मकासकर्मकव्यवस्थाया उक्तत्वात् । नचैतन्मतमतिरमणीयं क्रियाविशेषणस्य मुख्यकर्मत्वे तत्र लकारापत्त्या स्तोकः पच्यते मुखमास्यत इत्यादिप्रयोगापत्तेः । न च तादात्म्यसंबन्धानवच्छिन्नधात्वर्थताबच्छेदकफलाश्रयत्वशालिनि कर्मणि लकारःस्वीक्रियत इति नोक्तप्रयोगापत्तिरिति वाच्यं विशेष्यविशेषणभावव्यत्ययं विना कर्तृकर्मलकारघटितवाक्ययोस्समानविषयकत्वस्यानुभवसिद्धत्वेन तदनुपपत्तेः । अतादात्म्येन फलाश्रयस्य लकारार्थत्वात् तादात्म्यघटितान्यतरसंबन्धेन फलाश्रयस्य द्वितीयार्थत्वात् शक्तो गौरवप्रसंगात् शाब्दबोधस्य तादात्म्यसंबन्धानवच्छिन्नत्वादिघटितकर्मत्वविषयकत्वेनातिरिक्तविषयकत्वापत्त्या प्रतिबध्यप्रतिबन्धकभावगुरुत्वप्रसक्वेश्चोत्तरदेशसंयोगानुकूलव्यापारस्य मन्दबुतत्वादिविवक्षया मन्दं गच्छति द्रुतं गच्छतीत्यादिप्रयोगस्यानुभविकत्वे तदनापत्तेः मन्दादिपदानां फलेऽनन्ययात् अकर्मकधातोः फलावच्छिन्नव्यापारवाचक्रत्वस्यापि खण्डितत्वाच । अधास्तु नव्ययाकरणमतानुसारेण विशेषणान्वयाकालाभिव्यक्त्यर्था द्वितीया अहेयमोदनं पचतीला कर्मीभूतौदनान्वयप्रयोजकाकाहा च विशेषणपदस्य द्वितीयान्तत्वे सत्येव यथाभिव्यज्यते तथा धात्वर्थतावच्छेदकीभूतो.. त्पत्तिरूपफलाश्रयत्वेन कर्मीभूतयिक्तियन्वयप्रयोजिकाकाहा स्तोकादिविशेषणपदस्य द्वितीयान्तरवे सत्येव व्यज्यत इति ब्रैहेयादिपदादिव स्तोकादिपदादग्याकाङ्क्षा निर्वाहायैव द्वितीया। अतएव भावनाकर्महोमविशेषणाग्निहोत्रपदाद्वितीया भावनाकरणमागविशेषणवाजपेयादिपदात्ततीयेति मीमांसकानामुक्तिः संगच्छते । कर्तुरीप्सितमित्यादिना कर्मसंज्ञा कर्मणि लकारश्च ध्यधिकरणफलाश्रयीभूते धास्ववाच्ये कर्मण्येव तेन सुखोत्पत्त्यनुकूलव्यापारवाचिनो रमतेरात्मानं रमते आत्मा रम्यते इत्यादयो न प्रयोगाः फलस्य व्यापारसमानाधिकरणत्वात् । नापि शय्यानविलक्षणसंयोगानुकुलब्यापारवाचिनः स्वपतेरस्वपित्ल सुप्यतइत्यादयः प्रयोगाः अज्ञस्य धातुवाच्यकर्मत्वात् एवंच विक्तितेरपि धातुवाच्यकर्मत्वेन स्तोकः पच्यत इत्यादयो न प्रयोगा इति तन्न जनितविभागं गच्छतीसादौ व्यापार विशेषणताया एवागत्या वाच्यतया तत्रोक्तगतेरसंभवात् । विशेषणसुपामयभिचारेण विशेष्याकावाभिव्यक्त्यर्थत्वेन द्वितीयान्तविशेष्यवाचकपदार्थविशेषणपदस्य द्वितीयान्तत्वसंभवेषि क्रियाविशेषणस्थले वाजपेयेनेत्यत्र व्यभिचाराद्विशेषणस्य द्वितीयान्तलसंभवात् विना विशेष विधि प्रातिपदिकार्थमात्रे प्रथमात्यागायोगाद्वितीयानुपपत्तेश्च । तस्मादुभसर्वतसोः कार्या विगुपर्यादिषु वि द्वितीयाऽडितान्तेषु ततोऽन्यत्रापि दृश्यतइत्यंशीभूतेन ततोन्यत्रापि दृश्यत इत्यनेन क्रियाविशेषणं कर्मवद्भवतीत्यनुशासनं कल्यत इति तेन तत्रातिदिष्टं कर्मत्वमङ्गीक्रियते अतिदेशफलं च द्वितीयैव कर्मप्रवचनीयसंज्ञादिवत् । अतिदेशस्थले च सर्वमुख्यकार्याभावान्नकर्मणि लकारइत्यवधेयम् ।
अभेदान्वयबोधश्च विरूपोपस्थितयोरेवेति । अत्र षड्या न विषयत्वमर्थः सरूपोपस्थितार्थद्वयविषयकसमूहालम्बनाभेदान्वयविषयकशाब्दबोधस्य प्रसिद्धत्वात् किन्तु प्रतियोग्यनुयोगिनिरूपितत्वसाधारणनिरूपितत्वत्वावच्छिन्नं तचा. भेदान्वयान्वयि तादृशनिरूपितत्वातिरिक्तव्यवच्छेद एवोवकारार्थः तस्यापि हि स्वावच्छेदकावच्छिन्न प्रकारतानिरूपितत्वस्वातिरिक्तोपस्थितिविषयतावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वोभयसंबन्धेनोपस्थितिविषयताविशिष्टव भवति शाब्दबोधीयाभेदत्वावच्छिन्नसांसर्गिकविषयतति पर्यवसितार्थः । तेन विशेष्यत्वप्रकारत्वावच्छेदकस्यैकत्वेऽपि यत्किंचिद्धर्मापेक्षया विरूरूपत्वसंभवेन न विवक्षिताधीलाम इति । तत्प्रयोजकेल्यत्र तत्पदं सामान्यतोऽभेदान्वयं परामृशति न तथाविधान्वयबोधं तत्प्रयोजकस्य तदप्रसिद्ध्याऽकप्तत्वात् । यादृशामिति । यद्धर्मावच्छिन्न मित्यर्थः तव्यतः क्षणविशेषादिघटितसामग्या अन्यत्रासंभवाद्यदिति नोक्तम् ।