________________
४०
मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि स्तोकमृद्वादेर्धात्वर्थपाकादावभेदान्वयोऽपिव्युत्पत्तिसिद्धः, तदनुरोधेन च द्वितीयान्तपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाकाङ्क्षात्वमुपगम्यते क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिरुत्पद्यते, क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्मत्वातिदेशात् । न चैवं स्तोकः पाक इत्यादावपि द्वितीयाप्रसङ्गस्तत्रापि स्तोकादेः क्रियायामेव विशेषणत्वात् । भावकृतां प्रयोगसाधुत्वमात्रार्थकतया धातुनैव तत्र पाकादि प्रतिपादनादिति वाच्यम् । क्रियापदस्य तत्र सार्थक प्रत्ययान्त धातूपस्थाप्यार्थपरत्वात् । स्तोकं स्थीयते इत्यादौ आख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात् । न च वर्त्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वाच्यम् । वर्त्तमानत्वादिविवक्षास्थलइव अर्थबोधस्वरूपयोग्यताप्रयोजिकाकाङ्क्षाशालित्वेनैव तदवि
व्युत्पत्तिवादः ।
दिस्सर्वा एव विभक्तिस्तत्र तत्रेति, नीलं घट इत्याद्यप्रयोगवीजस्य दुर्लभत्वं स्यात् द्वितीययापि तादात्म्योपस्थापनेन बुभुत्सितप्रतिपत्तिसंपादनस्य संभवात्तस्मान्निर्विभक्तिकप्रयोगस्यासाधुत्वादर्थ विशेषस्य चानुपस्थापनीयत्वात्प्राप्तासु सर्वासु विभक्तिषु सर्वेषु वचनेष्वर्थविशेषप्रतिपादनानुबद्धप्रयो कव्यभाव विशेष्यवाचकपदोत्तर विभक्तिविशेषस्योपस्थिततया विशेषान्तरस्य चानुपस्थिततया विशेषणवाचकपदोत्तरमपि स एव प्रयोक्तव्यतया बुद्धौ विपरिवर्तत इति विशेष्यपदविभक्तिपरतन्त्रा विशेषणविभक्तिस्थितिर्नार्थोपस्थापनपरतन्त्रा विकरगागमादिवदित्यपि च बीजम् । एवं सर्वायुपस्थापकानामावश्यकत्वं रज्वादिपदानां चातथात्वमप्येवंच क्वचिद्विकरणादितो जायमानाप्युपस्थितिरन्यथासिद्धतया यथा विज्ञायते तथैव विशेषणविभक्तिजन्यापि काचित्की तादात्म्योपस्थितिरपीतिसमभिव्याहारवहिर्भूतपदजन्योपस्थितिवत्तदुपस्थितेरपि न प्रकारतया भानप्रयोजकत्वमनन्यथासिद्धतया गृहीतस्य चोपस्थित्यन्तरस्य चासंसर्गतया भानप्रयोजकत्वमिति नानियमप्रसंग उपस्थितस्यापि संसर्गतया भानाभ्युपगम इत्यलम् ।
इतिदिगिति । एतदुक्तेरभिप्रायस्तु न नो विद्वेष इति पतिव्याख्यानावसरे स्फुटीभविष्यति । कर्मत्वातिदेशादिति । धात्वर्थतावच्छेदकफलशालित्वरूपकर्मत्वस्य वाधितत्वादितिभावः । नच तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेनधात्वर्थतावच्छेदकफलान्वयित्वमेवास्तु कर्मत्वं तत्र स्तोकादावप्यस्त्येवैति इत्थमेव द्वितीयां तत्रोपपादयन्ति प्राचीनवैयाकरणा इति वाच्यम् स्तोकं तिष्ठतीत्यादौ धात्वर्थतावच्छेदकफलस्यैवाभावात् सर्वत्र फलमन्तर्भाव्य धात्वर्थनिर्वचने सकर्मकत्वासकर्मकत्वयोः फलव्यापारयोः रविरोधसामानाधिकरण्याभ्यां कथंचिन्निर्वाच्यत्वसंभवेऽपि गौरवस्यैव बाधकत्वात् निरुक्तकर्मलस्यैव तत्रापि खीकारे स्तोकादेः कारकत्वापत्त्या तत्र लकारापत्तेः स्तोकः पच्यते सुखमास्यते इत्याद्यपि स्यादिति भावः । अर्थबोध स्वरूपयोग्यताप्रयोजि काकाङ्क्षाशालित्वेनैवेति । करणाद्यर्थबोधकतयार्थाबोधकपचादिसमभिव्याहृतवत्रः वज्त्वेनाविसंवादिन्यां भगवदिच्छायां विषयत्वा संभवेन शक्तिमत्त्वरूपसार्थकत्वस्य तन्त्रेवार्थबोधकाविवक्षास्थलीयाख्यातस्यापि वर्तमानत्वादिबोधजनकतयाख्यातत्त्रादिना विसंवादभयेन भगवदिच्छायाम विषयत्वस्यैव वाच्यतयाऽसत्वप्रसंगात् भगवदिच्छीय विलक्षणविषयताबच्छेदकवत्त्वम् शक्तिमद्वृत्तिप्रत्ययत्वव्याप्यधर्मवलं वा, यदि सार्थकप्रत्ययलमुच्येत घञोपि करणाधिकरणादिष्वनुशिष्टत्वेन सार्थकत्वं स्यादित्युक्ताकाङ्क्षापर्यन्तानुधावनं कृतं तथाचाकतीरे च कारके संज्ञायामित्यस्यैव करणादिषु जोनुशासनत्वेन पाकादिशब्दानामसंज्ञात्वेन पचधातुसमभिव्याहत घञ्पदत्वस्याकाङ्क्षालविरहात् न पचधातूत्तरसमभिव्याहृतघनः सार्थकत्वम् रागादिशब्दानां संज्ञात्वेन धर्मविशेषावच्छिन्नर अनकरणाद्यर्थप्रत्यायकतया एकलाद्यन्वित तादृशार्थबोध स्वरूप योग्यतायां खादिपदघयन्तसमुदायसमभिव्याहारस्यैवाकाङ्क्षात्वेन तत्रापि घत्रो न सार्थकत्वसम्भवः यदि तस्य योगरूढलं तदा कर्मानुशिष्टतादिवत्सार्थकत्व - मित्रमेव । यत्तु रूढ्यर्थपदार्थान्तरान्त्रयप्रयोजकाकाङ्क्षयैव योगार्थभानस्यापि स्वीकारे क्षतिविरहेणाकाङ्क्षान्तरकल्पने गौरवात्तत्रापि नास्त्येव सार्थकम् अतएव शोभनं पङ्कजेनेत्यादयो न प्रयोगा इति तन्न शोभनं गतेनेत्यादिवत्तस्याप्यगीकरणीयत्वात् । अत्र हि गमनप्रकारतानिरूपितकर्मत्वविषयताकशाब्दबुद्धित्वावच्छिन्नं प्रति गमधातु क्तप्रत्ययसमभिव्याहारज्ञानत्वेन कारणवस्य पदार्थोपस्थितितात्पर्यज्ञानादिकारणकलापे निर्विभिक्तिकगतादिपदादद्व्युत्पन्नानां शाब्दबोधप्रसङ्गभयेन वक्तुमशक्यलात् एकसमभिव्याहारः क्तान्तसमुदायस्वाद्योरेव तस्य च प्रत्यये विरहात् साधुगतो ग्राम इत्याद्यपि न स्यात् तस्मादाकाङ्गाज्ञानजनकतावच्छेदकविषयिता निरूपकत्वेनार्थबोधस्वरूपयोग्यताप्रयोजकत्वमुक्तग्रन्यतात्पर्य विषयो नाङ्गीकरणीयः किंतु तत्तत्पदार्थबोधस्वरूपयोग्यतायां शक्तिप्रयोजिका यद्यत्पदार्थयोः परस्परमन्वयोऽन्विततत्तदर्थबोधस्वरूपयोग्यतायां तत्तत्पदसमभिव्याहारः प्रयोजक इत्यनुभवसाक्षिकप्रयोज्यप्रयोजकभावान्तरमवलम्ब्यैवार्थबोधस्वरूप योग्यतेत्याद्युक्तिरित्येव खीकरणीयं तथा च पङ्कजादिपदस्थले धालर्थडप्रत्ययार्थयोरन्वये तयोः समभिव्याहारस्यापि तादृशस्वरूपयोग्यताप्रयोजकतयोक्तप्रयोगस्य दुर्वारत्वम् यदि चोक्तप्रयोजकत्वपक्षेपि रूटिस्थले अवयवद्वयसमभिव्याहारस्य प्रयोजकत्वं नानुभविकं किंतु केवलयौगिकस्थल एवेति चेदाग्रहस्तदा मास्तूतप्रयोगस्येष्टता । किंच सामान्यतो भयो निरर्थकतामहो दुराग्रह एव संज्ञायामिति प्रायिकं तेन लाभोलब्ध इत्यादिप्रयोगदर्शनादित्यादिग्रन्थपर्यालोचनया
त्वाद्यन्वितगमनकर्मादिशाब्दबोधकारणतावच्छेदकवियितानिरूपकथ