SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २७ • गूढार्थतत्वालोकव्याख्यासहितः । उक्तस्थले च तादृश्या एकस्या अप्याकाङ्क्षाया विरहानापत्तिः । कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशानोक्ताकाशाशानयोः परस्परबोधे व्यभिचारः। यत्तु समासब्याससाधारणं विशेषण नोकाकाङ्काज्ञानयोरिति । इदमुपलक्षणम् व्यासस्थले समासस्थलेऽपि च पर्यायपदघटितत्वेनाकाक्षाया नानाखातेषामपि परस्परजन्यवोधे व्यभिचारवारणायाव्यवहितोत्तरवस्य कार्यतावच्छेदकघटकलं बोध्यम् ॥ कार्यतावच्छेदककोटाविति । अथानेनाव्यवहितोत्तरवातिरिक्तस्यापि कार्यतावच्छेदकलं ज्ञायते अन्यथा कार्यतावच्छेदकतयेत्येवोच्येत तत्किमित्यभ्युपेयं व्यभिचारायभावादितिचेन्न नीलो घटः नीलः पट इति ज्ञानं थत्र पटपदे नीलाधव्यवहितोत्तरत्वस्याप्रामाण्यज्ञानास्कन्दितं तत्रनीलघटशाब्दवोधो जायते नतु नीलपटशाब्दबोधः तदनुरोधेनाप्रामाण्यज्ञानाभावस्य कारणतावच्छेदकघटकलं वाच्यमेवं सति कार्यतावच्छेदककोटौ विषयताविशेषस्याप्रवेशे तत्रैव व्यतिरेकव्यभिचारः स्यादिति विषयताविशेषस्याप्रामाण्यज्ञानास्कन्दित आकाहाज्ञानेऽनुमितिसामय्यां च नीलोघट इत्यनुमितेरुत्पत्तेस्तत्र व्यतिरेकव्यभिचारवारणाय शाब्दलस्य च प्रवेश्यखात् । नच नीलोघटः नीलः कलशः इतिद्विविधाकाहाशाने कलशपदाचंशे प्रामाण्यज्ञानास्कन्दिते सति नीलघटान्वयबुद्धिरुत्पद्यते तन्न व्यतिरेकव्यभिचारः स्याद्विषयवादीनां कार्यतावच्छेदककोटौ प्रवेशेऽपीति कार्यतावच्छेदककोटावप्रामाण्यज्ञानानास्कन्दितलमवश्यमुपादेयं तथाचोक्तव्यभिचारयोरभावाद्विषयलादिप्रवेशो व्यर्थ इति वाच्यमप्रामाण्यज्ञानेऽप्रामाण्यज्ञानस्य तत्राप्यप्रामाण्यज्ञानस्याभावः प्रवेश्य इत्यनवस्थिताप्रामाण्यज्ञानाभावानां कार्यतावच्छेदककोटौ प्रवेशापेक्षया तत्तद्यक्तित्वेनाप्रामाण्यज्ञानाभावानां कारणतावच्छेदककोटी प्रवेशस्य युक्तलात्, तथासति पर्यायस्थलीयाप्रामाण्यज्ञानव्यक्तेरभावस्थाप्रयोजनत्वेन परित्यक्ततया कार्यतावच्छेदककोटावप्रामाण्यज्ञानाभावस्थाप्रवेश्यत्वात् , इष्टतावच्छेदकावच्छिन्नसाधनताज्ञानस्य प्रवृत्त्यायुपयोगित्वेन नीलघटान्वयबुद्धित्वेन प्रयोजनत्वप्रतिसन्धाने तदवच्छिन्नसाधनवग्रहस्यैवापेक्षणीयतया विषयित्वादीनां कार्यतानवच्छेदकत्वे तदसंभवेन तदर्थ नीलो घट इत्यादिवाक्यप्रवृत्तिनस्यात् नीलघटान्वयबुद्धित्वेन तादृशान्वयबुद्धीनामभावस्य कारणाभावानुमेयत्वमपि न स्यादिति विषयत्वादेः कार्यतावच्छेदकतया प्रवेशस्य तथाप्यावश्यकखाच्चेति विभावनीयम् । अथाकालाज्ञानानां स्तखाब्यवहितोत्तरलघटितधर्मावच्छिन्नं प्रति जनकत्वे यद्यपि योग्यताज्ञानलावच्छिन्नासमवधानप्रयुक्तफलोपधायकलाभाववत्वावच्छिन्नकलरूपं योग्यताज्ञानसहकृतलमाकाहाज्ञानस्यास्त्येवैकस्मादप्याकाहाज्ञानाद्विना योग्यताज्ञानं फलानुत्पत्तरिति योग्यताज्ञानविगमदशायामाकाक्षाज्ञानाच्छाब्दापत्तिन संभवति तथापि योग्यताज्ञानस्य तत्तदाकावाज्ञानविरहदशायामाकालान्तरज्ञानसद्भावेन फलजनकतया कारणतावच्छेदकीभूताकाहाज्ञानविशेषलावच्छिन्नासमवधानप्रयुक्तफलोपधायकवाभाववत्स्वावच्छिन्नकत्वरूपाकाहाज्ञानसहकृतत्वविरहादाकाङ्काज्ञानविगमकाले केवलयोग्यताज्ञानाच्छाब्दापत्तिर्दुरेति चेदुपस्थितेः शाब्दकारणत्वस्य तत्रतत्रोक्तत्वेनोपस्थितेराकाहाज्ञानादिसहकृतलस्योक्तरूपस्यासंभवेन केवलाया उपस्थितेः शाब्दापत्तिमतिपत्य को विशेषः प्रसङ्ग इदानीमीदृशापत्तिवाचोयुक्तः, हन्त कोयमुत्तरप्रकारः नोकदा दूषणानभिधानमन्यदोद्भावितदूषणपरिहारभार्य बोढुमीटे, अथाप्रसिद्धोत्तर दूषणमुद्भाव्यमानं सदृशोत्तरत्वेन दूषणान्तरप्रतिकूलमप्यबोधविलसितेनातथाभूतमित्युच्यते प्रतिविधानम् । तथाहि नहि सहकारिनियमः सामग्रीव्याप्तर्भिद्यते इति सहकारिवादेऽभ्युपगम्यत एव सामग्रीव्याप्तिः तस्याश्च सामग्या एकधर्मावच्छिन्नकार्यतानिरूपितकारणत्वावच्छिन्नानुयोगिकपर्याप्तिप्रतियोगिकूटत्येन न प्रदेशस्तथासति व्याप्यकार्योत्पत्ती व्यापकधर्मावच्छिन्नसामग्या अनपेक्षितत्वप्रसङ्गात्, गौरवात्, व्यापकधर्मावच्छिन्नसामग्रीवस्य तद्धर्मावच्छिन्ननियतपूर्ववर्तिवघटितत्वेन तृतीयान्यथासिद्धिनिरूपकत्वाच्च तादृशसामग्रीलस्य कारणतानवेच्छदकलात्, किंतु तत्तद्धर्मावच्छिन्नकार्यव्याप्यतायां तद्धर्मव्यापकाशेषधर्मावच्छिन्नकारणकूटविशिष्टत्वे सति स्वावच्छिनकारणकूटविशिष्टत्यसंबन्धेन तद्धर्मव्याप्यधर्मविशिष्टत्वे च सति तत्तद्धर्मावच्छिन्नकारणकूटत्वेन, एवं च व्यापकसामग्रोविशिष्टाया एव सामय्या यथाफलोपधायकत्वेन तद्विरहदशायां न कार्योत्पत्तिः तथा व्याप्यीभूतयत्किंचिद्धर्मावच्छिन्नसामग्री विशिष्टाया एवोक्तनियमेन फलोपधायकतया तद्विरहेऽपि न कार्योत्पत्तिरिति योग्यताज्ञानकार्यतावच्छेदकव्याप्यीभूततत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरशाब्दलावच्छिन्नकारणतत्तदाकाङ्काज्ञानघटितसामय्यभावे नापत्तिसंभवस्तत्तद्धर्मव्याप्यलं च तद्धर्म न्यूनवृत्तित्वम्, सामग्रीव्याप्ती व्यापकसामग्रीवैशिष्ट्यनिवेशे यथाव्यापकधर्मरहितव्याप्यासंभबो मूलं तथा निर्षिशेषस्य सामान्यस्यासंभवो व्याप्यधर्मविशिष्टलप्रवेशे मूलमवसेयम् । अतएव ज्ञानविशेषप्रत्यक्षादिसामग्रीविरहकाले खलपनोयोगमात्राज्ज्ञानस्य सद्विशेषद्रव्यादिसामग्री विरहकाले द्रव्यमात्राजन्यसलावच्छिन्नस्य नापत्तिः । नच प्रत्यक्षादिसामध्यभावे संभाव्यमानं ज्ञानमनुभवाद्यनात्मकरवेन स्वरूपमलभमानं नोत्पत्तुमीष्ट इति वाच्यम् तदुत्पत्तेः प्रामाणिकत्वे ज्ञानप्रकारान्तरस्यैवानुसरणीयत्वाद्धटानयनापसरणस्थले घटाभावस्य विशिष्टाभावस्य च प्रामाणिकस्य कप्ताभावानन्तर्गतत्वे तुरीयत्वस्य व्यवस्थापितत्वात् यद्धर्मापेक्षया कार्यतावच्छेदको व्यापकधर्मो नास्ति तद्धर्मावच्छिन्नव्याप्ती सामय्यां व्यापकधर्मावच्छिन्नसामग्रीवैशिष्ट्यं यदपेक्षया व्याप्यीभूतः कार्यतावच्छेदकधर्मो नास्ति तदवच्छिन्नव्याप्ती च सामग्यां व्याप्यधर्मविशिष्टत्वं च नोपादेयमतो न व्यायाप्रसिद्धिर्दोषः । व्याप्य'सामग्रीखादिनान कारणलास्वीकारात् सामग्रीखशरीरनिर्वचनोपक्रमेण गौरवान्यथासिघ्यायुद्धावनमपि न दोषभावमवलम्बते।
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy