________________
१५८
व्युत्पत्तिवादः । न प्रयोगा। यत्र मैत्रेणोदनं पच्यते नतु तेमनं तत्र मैत्रेण न पच्यते तेमनमित्यादिप्रयोगनिहाय तेमनपाकत्वाद्यवच्छेदेनैवाभावान्वयबोध उपगम्यते, न तु शुद्धपाकत्वाद्यवच्छेदेन, बाधितत्वात् यथा चतेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोपपादितमाधेयत्वस्य सतीयार्थत्ववादिनैव । घटेन न पच्यतइत्यादयः प्रयोगाः आकाशं न पश्यतीत्यादिप्रयोगसमानयोगक्षेमाः । अचेतनकाष्ठस्थाल्यादेरपि कर्तृत्वविषक्षया काष्ठं पचतीत्यादिवत्काष्ठेन पच्यत इति प्रयोगात् । तत्र व्यापाररूपे कर्तृत्वे तजन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवं चैत्रेण ज्ञायते, इष्यते, गम्यतइत्यादावाश्रयत्वरूपे कर्तृत्वाधेयत्वरूपे कर्तुमरखे वा । नश्यते घटेनेत्यादौ प्रतियोगित्वरूपे कर्तृत्वेऽनुयोगित्वरूपे कर्तृमरवे वा लक्षणा । कर्तृपदमपि व्यापारादिमस्य. चेतनादौ भाक्तमेव । अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात् । अतएवच कृषो यत्नवाचकत्वम् । नच यत्नवत एव कर्तृपदार्थत्वे कर्तृकरणयोस्तृतीयेखादौ कर्तृपदस्य मुख्यार्थत्यागे युक्तिविरहादचेतनकाष्ठादियाचकपदयोगे कर्तृप्रत्ययानुपपत्तिरिति वाच्यम् सूत्रस्थकर्तृपदानां खतन्त्रः कर्तेतिसू. प्रकृस्परिभाषितकर्तृपरत्वात् । अन्यथा तत्प्रणयनवैयर्यप्रसङ्गात् । स्वतन्त्रत्वं च कारकान्तरानधीनस्वे सति कारकत्वम् । पुरुषव्यापाराधीनक्रियानुकूलव्यारवतामेव काष्ठादीनामन्यव्यापारानधीनक्रियानुकूलव्यापारवत्त्वरूपस्वातन्यस्य काष्ठं पचतीत्यादी विवक्षया काष्ठादेः कर्तृत्वम् । नच खातच्यविवक्षणेऽपि स्वातम्यस्य वास्तविकस्थाभावात् तद्वोधकविभक्तीनामप्रामाण्यं दर्धारमेवेति वाच्यम् । समभिव्याहृतक्रियाकारकान्तरव्यापारानधीनतक्रियानुकलव्यापारस्यैव ततं । क्रियावाचकपदसमभिव्याहृतविभत्स्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च. चैत्रः काष्टःस्थाल्यां पचतीत्यादिस्थले चैत्रःस्थालीकाष्ठानिपचतीति प्रयोगापतिधारणम । यत्रच चैत्रः पचति काष्ठं पचतीत्यादौ समभिव्याहतकारकांतराप्रसिद्धिस्तत्रानधीनान्तविशेषण + प्रतीयतएव । निर्वाहश्च तत्र लकारादे स्वतन्त्रशस्यन्तरकल्पनात् । विशिष्ट विषयकशास्या विशेषणाविषयकबोधाजननात् । नच मैत्रः चैत्रेण पाचयतीत्यादी हेतकर्तसमभिव्याहारस्थले कर्तरि तृतीयानुपपत्तिः कर्तृव्यापारस्य समभिव्याहृततुकर्तृव्यापाराधीनत्वादिति याच्यम् । तत्र ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्रकर्तृव्यापारस्य पचादि बियाकारकव्यापारानधीनत्वात् । स्वतन्त्रं प्रयुञ्जानस्य सो व्यापारस्तण्डलक्रयणादिवत्पाका छावन्यथासिद्धतयान कारणमिति पाकादिप्रयोजकव्यापारवत्त्वेऽपि तस्य तरिक्रयाकारकत्वाभावात अतएव चैत्रो मैत्रेण पाचयतीत्यादौ चैत्रः पचतीति न प्रयोगः । नच पञ्चभिर्ह लैः कर्षति गृहीत्यादौ भूमिलेखनरूपकृष्यादिक्रियायां स्वतकर्तृन् प्रयुजामस्य गृहिणो व्यापारस्य दर्शितयुक्तया लकारादिनाऽभिधानासंभव इति कषेतीति न स्यात्कयतीतिच स्यादिति वाच्यं तत्र कृषःप्रतिविधानार्थत्वात उतच "याजका यजन्तीति यजिहविःप्रक्षेपार्थः । हलैः कृषतीति कृषिः प्रतिविधानार्थ" इति याजेषतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्रच यजमानस्यैव कर्तृतया हविःप्रक्षेपरूपलश्यार्थपरत्वं दर्शितं । तत्र च ऋत्विजामेव वातव्यम्। होतेत्यत्रापि हविःप्रक्षेप एवं धातोरथी नत तारशफलाधच्छिन्नस्त्यागः । तथासति ऋत्विजस्तत्र खतन्त्रकर्तृताविरहेण होतृपदेन प्रतिपादनासंभवात । धात्वर्थतावच्छेदकफलकर्तृत्वमेव कर्तृप्रत्ययेन प्रतिपाद्यतइति ऋत्विजि होतव्यवहारोन यष्टरि। अतः प्रतिग्रहीतृव्यापारोन स्वत्वजनकस्तथासति तत्र दातृव्यवहारापतेरिति तु जीमूतवाहनः । अथास्तु चैत्रेण मैत्रेण पाच्यतइत्यादी स्वतन्त्रव्यापारस्यहेतुकर्तृव्यापारा
द्रव्यलत्वेन तदुपस्थितेरभावात्तत्रान्वयासंभवादिति शेषः। समानयोगक्षेमा इति । तस्याप्रामाण्योपगमेऽस्याप्यप्रामा ज्योपगमो वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वमुपगम्य प्रत्ययार्थे कृत्यर्थाभावविषयकत्वे प्रामाण्योपगमे तस्यास्यापि प्रामाण्योपगम इत्यर्थः । प्रतिविधानेति । भूमिविलेखननिर्वाहकवेतनप्रदानादिरूपव्यापारेत्यर्थः