________________
गूढार्थतत्वालोकव्याख्यासहितः । भ्योऽर्थस्तदास्तु स एवात्रापि तदर्थः । अतएव तस्येवास्यापि प्रतिशब्दस्य प्रयोगो नानर्थकः । वस्तुतोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रयोगवत्ताशप्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपसिश्चिन्त्या । प्रतेर्यत्र व्यापकतार्थकत्वं, तत्र प्रतिवृक्षं सिञ्चतीत्यव्ययीभावसमास एव नि. यतः । तदर्थकाव्ययस्याव्ययीभावसमासविधेर्विभाषाधिकारीयताविरहेण नित्यत्वादतोऽधीप्सया प्रतिवृक्षं सिञ्चतीतिववृक्षं प्रतिसिञ्चतीति न प्रयोगः । यत्र व्यापकत्वार्थकेनाव्ययेनाव्ययीभावसमासस्तदुत्तरं सर्वत्र प्रथमाविभक्तिरेव नतूपकुम्भे गच्छतीतिवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः उक्तयुक्त्या तत्र प्रतिनाऽश्वादी गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारतादिरूपसप्तम्याद्यर्थे च समासार्थस्य गृहादिव्यापकत्वस्याश्रयतासम्बन्धेन तदर्थस्य व्यापकरूपधर्मिणो वाऽभेदसंबन्धेनान्वये मेयत्वे घटः घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधारताया आश्रयत्वसंबन्धेनाभेदसंबन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्तेर्विरोधात् । उपकुम्भे निधेहि, उपकुम्भादागतः, उपकुम्भेन कृत, इत्यादौ च विवक्षितस्याधारत्वापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासंबन्धेनान्षयस्याधेयत्वादी निरूपितत्वसंबन्धेन तदन्वयस्य वा योधे न कश्चिद्व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । त्यां च मां चान्तरेत्यादावन्तरारतरेणयुक्तइति द्वितीयाया निरूपितत्वमर्थः । तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः एवमन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः ॥ इति द्वितीयाविभक्तयः
कारकविभक्तितृतीयायाः क्रियान्वयि कर्तृत्वं करणत्वं चार्थः कर्तृकरणयोस्तृतीयेत्यनुशासनात् । कर्तृत्वंच मुख्यं क्रियानुकूलकृतिरेव । साच क ख्यातसमभिव्याहते चैत्रः पचतीत्यादौ क्रियाविशेष्यतयाख्यातेन प्रतिपाद्यते चैत्रेण पच्यते, शय्यते, इत्यादिकर्मभावाख्यातस्थले च क्रियायां विशेषणतया तृतीयया सा प्रत्याय्यते । यसु तत्राख्यातार्थ एव कृतिः, तृतीयार्थश्चाधेयत्वम् । तस्य
कत्वबोधस्याभ्युपगन्तुमुचितलालक्षणाग्रहव्यापकलोपस्थित्योः सर्वत्र कल्पनस्य गौरवेण हेयत्वादिति ॥ अन्योर्थ इति । प्रतिगच्छति प्रतिसिञ्चतीत्यादौ खकर्मक्रसजातीयक्रियोत्तरत्वादिरूपोर्थ इत्यर्थः वृक्षप्रतिसिञ्चतीत्यत्र चैनप्रतिसिञ्चतीति वक्तमुचितम् । सपवेति। खकर्मकलपरित्यागेन सजातीयक्रियोत्तरत्वादिरूपः क्रियान्वय्यर्थ एवेत्यर्थः । घटवृत्तौ घटइतीति। इदश्च सप्तम्याधेयत्वे प्रकृत्यर्थस्याभेदान्वयोपगमे दोषः सप्तम्यर्थीधेयत्वे घटवृत्तेर्घटनिष्टाधेयत्वस्य तादात्म्यात् तस्यखरूपेण घटे सत्त्वात् आधारस्वरूपसप्तम्यर्थेऽभेदेनान्वयेतु भूतलबुत्तौ घट इत्यापत्तिर्बोध्या भूतलवृत्ते तलनिष्ठाधारवतादात्म्यस्याधारखे तस्य च निरूपकत्वेन घटे सत्त्वादिति ॥
इति द्वितीयाव्युत्पत्तिवादगूढार्थतत्वालोकः । लः कर्मणीत्यादिसूत्रस्य लापवसहकृतस्य कर्तृवकर्मखयोरेवाख्यातशक्तिग्राहकलेनाख्यातत्वेनैव तयोराख्यातस्य शक्ततया कर्माख्यातात्कर्मलवकर्तृत्वस्याप्युपस्थितिसंभवात्तयोर्यस्य धात्वर्थविशेष्यतया भानं तस्य प्रधानत्वेन तत्प्रतिपादकतया कर्माख्यातक ख्यातत्वादिना व्यपदेशस्यापि गतिसंभवात् यगादिसमभिव्याहृतात्मनेपदज्ञानस्य कर्तृल विशेषितधात्वर्थ विशिष्टकर्मलबोधे कारणलात्कर्तृत्वस्य कर्माख्यातस्थले धालथै विशेष्यलासंभवात् तृतीयारहितकवाख्यातस्थलानुरोधेनाख्यातस्य कर्तृत्वार्थकत्वस्यावश्यकलात् चैत्रेणपच्यत इत्यत्राप्याख्यातादेव कर्तृत्वबोधो न तृतीयया खीकार्यः कर्तृकरणयोस्तृतीयेतिसूत्रस्य तु धात्वर्थविशेषणतया कर्तृलकरणलयोस्तात्पर्यविषययोस्सतोस्तदाश्रयबोधकात् प्रातिपदिकात् तृतीयेत्यर्थः तत्र कर्तृलस्यान्यलभ्यलान तत्र हि शक्तिः करणवस्य चातथावात्तत्र शक्तिराख्यातार्थविशेषणतया च साक्षात्प्रातिपदिकार्यान्वयस्य चैत्रस्तण्डुलः पच्यत इत्यत्र कर्तृत्वे प्रथमान्तार्थान्वयप्रसङ्गभयेनास्वीकरणीयत्वात् तृतीयासमभिव्याहारस्यैव तत्प्रयोजकलकल्पनेनोक्तप्रसङ्गवारणेऽपि भिन्नविषयकप्रत्यक्षादिकं प्रति शाब्दसामग्याः प्रतिबन्धकखस्याधेयत्वस्य तृतीयान्तार्थसंसर्गतापक्षेऽधिकस्मापल्या लाघवानुरोधाचाधेयत्वं तृतीयार्थः खीक्रियतेऽनन्यलभ्यस्वात्तत्रशक्तिः संख्याशक्तायास्तृतीयाया लक्षणैव वेत्यन्यदेतदिति कस्यचि न्मतमुपन्यस्यति । यस्विति । चैत्रेणपकः पाच्यइत्यादौ कर्तृलबोधस्यानुभविकत्वेन तृतीयातएव सखीकरणीयः कृत्प्रत्ययस्योंतस्य कर्तृत्वेशक्तिप्राहकाभावेन तस्मात् कर्तृलबोधाभावात् । गलिसत्त्वेऽपि सकृदुच्चरितइतिन्यायस्य सत्यपितात्पर्ये खेष्टयोधस्यैकम्मात्पदाददर्शनेन अनेकपदरचनायासदर्शनेन च सार्वजनीनेन कुप्तस्यातिकमस्यान्याय्यलादनुशासनाभावेऽपि कृतकर्मानुशिष्टस्य कर्मखं बोधयतः कर्तृत्वशक्ततायास्तद्वोधकतायाश्च कल्पनस्थानौचित्यातू । कर्तृकरणयोस्तृतीयेत्यनुशासनस्य