________________
व्युत्पत्तिवादः।
प्रकृत्यर्थे द्वित्वादेः संबन्धतास्वीकारे च व्यापकतारूपसंवन्धतावच्छेदकांश भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संबन्धतोपेक्षाया. निर्बीजत्वात् । अथाश्रव्याप्तिापकसामानाधिकरण्यरूपैव वाच्या, न तु तदन्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धः। एवं खोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्यपेक्षया लघोः स्वव्यापकतादृशधर्मवत्त्वस्यैव संबन्धत्वमुचितमिति चेत्तईि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आकाशावित्यादिवाक्यादू द्वित्वबोधापत्तिः। तथा हि । आकाशो न द्वावित्यादितो द्वित्वाचच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाशत्ववत्वादिसंबन्धावच्छिन्नप्रतियोगि च्छेदकताका ताशसंबन्धेन द्वित्ववतोऽप्रसिद्धः । अपि तु पर्याप्तिसंबन्धावच्छिमप्रतियोगितावच्छेदकताक एव तत्काले च पर्याप्तिसंबन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते न तूक्तपरंपरासं. बन्धेन तद्विशिष्टबुद्धिरपीति । अथाकाशो न द्वावित्यादौ केवलपर्याप्तिसंबन्धावच्छिन्नप्रतियोगि. तावच्छेदकताकभेदो यत्र बोधयितुं न शक्यते । आकाशेऽप्युक्तयुक्या द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन संबन्धेन तद्वन्दस्य वकुमशक्यत्वात् । आकाशत्वव्याप्यपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमझेदश्चाप्रसिद्ध पवेति चेन्न । द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणैवावच्छे दात् । तद्नवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन तद्वद्भेदस्य तेनसंबन्धेन द्वित्वादिमझेदस्य च तद्वशिवत्तौ बाधकाभावात् । न चैवं घटपटौ न द्वाविति प्रयोग आपद्येत । घटपटयोरपि प्रत्येक द्वित्वावच्छिन्नभेदसत्त्वादिति वाच्यम् । द्विवचनाधुपस्थापितद्वित्वावच्छेदेनैष द्वित्वावच्छिन्नभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः। नत्रा व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्च उद्देश्यतावच्छेदकावच्छेदेनैव बोध्यत इति व्युत्पत्तेर्द्धित्वसामानाधिकरण्येन तबाधस्याकिंचित्करत्वात् । न च घटत्वादेरतिप्रसक्ततया द्विस्वादिपर्याप्तेरनवच्छेदकत्वात्तदवच्छेदेन द्वित्ववद्भेदस्य रे मप्यनमतत्त्वात प्रक्रत्यर्थगतैकत्वाविवक्षायां घटोन द्वावित्यादिप्रयोगापत्तिरिति धाच्यम तारशप्रयोगाभावे घटत्वादेर्द्धित्वपर्याप्तेरिव द्वित्वादिमद्भेदस्याप्यनुयोगितावच्छेदकताया अप्रामाणिकत्वात् प्रतियोगितावच्छेदकानवच्छेदकताया भेदावच्छेदकतानियतत्वासिद्धेः । अस्तु. बातिप्रसकोऽपि घटत्वादिद्धित्वपर्याप्तेरवच्छेदका घटावित्यादिप्रतीतिबलात् । वस्तुतस्तु घटत्वादेः प्रत्येक द्वित्वपर्याध्यनवच्छेदकत्वेऽपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्रसक्ततया तदवच्छिन्नावच्छेदकत्व. मव्याहतमेव । अथ पर्यायाख्यविलक्षणसंबन्ध एवाप्रामाणिकः तत्कथं तत्संबन्धता आकाशो न द्वाविति प्रतीतिस्तु समवायसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वावच्छिन्नभेदविषयकैवास्ताम आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादेरेवोभयादिवृत्तिधर्मानुयोगितावच्छेदकत्वोपग मात्तदनवच्छेदकाकाशत्वाद्यवच्छेदेन समवायसंबन्धेन तद्धतो भेदस्य वृत्तौ बाधकाभावादिति चेन्न । आकाशावित्यादिवाक्यजन्यशाब्दबोधस्याप्रमात्वानुपपत्यैव तादृशसंबन्धसिद्धेः । तादृश
द्देश्यतावच्छेदकलं तत्र शुद्धपर्याप्तरेवास्तु संसर्गतालाघवात् यत्रैकमात्रवृत्तिधर्मस्यानुयोगितावच्छेदकलं तत्रैवोक्तव्यापकत्वस्य भानमुपेयं तथाच घटावित्यादेरसङ्गति रितिचेन्न पदार्थयोः संसर्गभानप्रयोजिकाह्याकाङ्क्षा साचेदुभयत्र तुल्या कुतः स्यातू संसर्गभाने वैषम्यं कथमन्यथा घटावित्यत्र घटखादेरन्वयितावच्छेदकरूपेणानुपस्थित्या तत्र द्विलभानासंभवेन सत्यपि लावे किश्चिद्रूपेणोपस्थितआकाशत्वादावपि न द्वित्वभानं स्यात् आकाङ्क्षायां हि समानाया पदार्थसंसर्गभानवैषम्ये प्रामाण्यप्रामाण्ययोरेवमेवधारणमपि न स्यात् आकाशत्वेनेकवृत्तित्वग्रहे शुद्धपर्याप्तिसंबन्धेन तदवच्छिन्ने द्वित्वभानस्यौचित्यापत्त्याकाशानियस्य हि प्रामाण्यप्रसङ्गः एकमात्रघटसत्वेप्यत्र घटा वित्यस्य हि प्रामाण्यप्रसङ्गति घटावित्यादावपि व्यापकलभानस्यावश्यकतया नासमतिः। विशिष्टपर्याप्तेरिति । साक्षात्संबन्धस्येतिशेषः। व्यापकसामानाधिकरण्यरूपेति। भासमानप्रकारप्रतियोगिकलविशिष्टपर्याप्तिव्यापकत्वस्य तत्रासंभवेपि न क्षतिः । लघोरिति । संबन्धविशिष्टपर्याप्तरप्रवेशेन लघोरित्यर्थः ।।