________________
भूमिका।
यः स्मृतः शरणार्थिभ्यः कल्पद्रुम इवेष्टदः
राधालिङ्गितवामाः सकृष्णः शरणं हि नः अहो विदितमेव समेषां विषयविषमेषुखिन्नमनसा, यत्सs. पि निसर्गत एव दुःखं जिहासवः सुखाभिलाषुकाश्च प्राणिनः । प्राणिमात्रस्य, तादृशेच्छाया औत्सर्गिकत्वात् , तदुपायमधिजिगमि षन्त आत्मतत्त्वावयोधमेव सर्वानुमत, श्रुतिसम्मतं मतमवगच्छन्ति । सचानात्मभ्यो भेदेनात्मावगतिरेव, सा चानात्माज्ञानेऽशक्यैवेति, त. दुपायतयैवानात्मप्रमाणविषयविचारपहिलानामेषामनात्मप्रमाणाङ्ग-- विचारसमारम्भः । वादिविजयादिकन्तु आनुषङ्गिकमेवास्यफलमिति मोक्षदर्शनाङ्गभूतमेव हेत्वाभाससामान्यलक्षणविवेचनम् । अस्य दर्शनस्य मोक्षोपयोगिता श्रुत्यापिसमर्थिता, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यभिदधत्या । तरतिशोकमात्म चित् , शाकेनास्यन्तं विनुक्तश्चरति इत्यादि श्रुतिशतेनैकबिशशतिदुःखात्यन्तविमुक्तः पुमर्थताच्चैरुङ्किता च । एवं विधे, मोक्ष विवेकिनो विरक्तस्यैवाधिकारस्तदुक्तं मणिकारेण ईश्वरानुमाने,-- तस्मादविवेकिनः सुखमात्रलिप्सवो बहुतरदुःखानुविद्धमपि सुखमुद्दिश्य शिरोमदीयं यदि याति यातु इतिकृत्वा परदारादिषु प्रवर्तमाना, वरं वृन्दावने रम्ये इत्यादि वदन्तो नात्राधिकारिणः । ये च, विवेकिनोऽस्मिन् संसारकान्तारे कियन्ति दुःखदुर्दिनानि, कियती वा सुखखद्योतिकेति कुपितफणिफणच्छायोपमं संसारसुखं मन्यमानाः सुखमपि हातुमिच्छन्ति तेत्राधिकारिण इति-- अतः भोगार्थिनाम. नुपादेयत्वेऽपि प्रात्यन्तिकदुःखनिवृत्तः पुरुषार्थता न हीयते । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः, परीक्ष्यलोकान् कर्मचितान् ब्राह्मणानिदमायात् नास्त्यकृतः कृतेन, दुःखेनास्यन्तं विमुकश्चाति, तरति शोकमात्मवित् , अशरीरं वाव सन्तं न प्रियाप्रिये स्पृ. शत इत्यादिश्रुतिशतसमर्थितश्चायमर्थ इत्युपरम्यते ।