________________
१०६
सामान्यनिरुकिविवेचना
सर्वेषां ग्रहसम्भवेन सर्वत्र ते दोषत्वेन सुज्ञानाः तथासति दोषत्वेन प्रातिविकरूपेण ज्ञायमानानां क्रियमाणमिदं शब्दानुगमफलं सकल साधारणं तत्पक्षसाध्यहेतुकस्थलीयानेकदोषानुगतं चैकं लक्षणंतेष्वेव वर्त्तमानं वर्तमानमेव तेषु साधुत्वेन निर्णीयते इत्यव्यात्यतिव्याप्त्योः स्वध्यवसानयोर्निरासाय परिः कृते तात्पर्यवर्णनीय. मेवेत्यलमप्रस्तुतेन ।
स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकावच्छिन्नार्थकामेति । अथ स्वाम वच्छिन्नप्रकारतावच्छेदकावच्छिन्नार्थकमित्येव लाघवाद्वक्तुमुचितं न च यत्रैकदोषविषयकं ज्ञानं नियमतो दोषान्तरविषयक तज्ज्ञानमपि तद्विषयकमेव नियमतो जायते तत्राव्याप्तिरिति वाच्यम अघ टितत्वस्याप्यनवच्छिन्नप्रकारतावच्छेदकावच्छिन्नरूपताया एव स्वी" कारात । न च व्यभिचारकालीन घटेऽतिव्याप्तिः तादृशघटत्वानव. चिछन्नप्रकारतावच्छेदकतथाविधव्यभिचारत्वस्य
तादृशघटत्वाव
साक्षात्परम्परासाधार
च्छिन्नप्रकारतावच्छेदकत्वादिति वाच्यम् णावच्छेदकता निरूपितत्वस्य स्वीकारात् अन्यथा पादश समुदायस्वाव विच्छिन्नानुयोगिताक पर्थ्याप्तिकावच्छेदकताकविषयत्वघटितावेशे. प्यदलस्यैव निर्वाच्यतया प्रकारान्तरस्यासम्भवेन चैतल्लक्षणास म्भवप्रसङ्गादितिचेन्न यत्र पदार्थान्तरविषयकं ज्ञाननियमतोदोषविषयकं स्यात्तत्र पदार्थान्तरे विशेषणविशेष्यदलयोस्सत्त्वेनाति व्याप्तिसम्भावनयोक्तप्रकारस्य गदाधरेण परित्यकत्वात् ताद शपदार्थाविषयकप्रतीतिविषयक दोषविषयकत्वस्य पदार्थान्तरविषय कज्ञाने नियमतस्सत्वेन तथाविधस्थलसम्भावनानिबन्धनातिव्या प्तिसम्भावनाविरहात् ।
केचित्तु प्रतियोगित्वविषयत्वादिसाधारणैकावच्छेद्यत्वस्याभावेन प्रतियोगित्वनिष्ठावच्छेद्यत्वाभावप्रवेशेऽसम्भवस्यातिव्याप्तेिर्वा प्रसङ्गेन विषयत्वनिष्ठावच्छ्रेद्यत्वस्याभाव एव प्रवेशनीयस्तत्रापीच्छावि.
पयत्वज्ञानविषयत्वसाधारणैकजातीयावच्छेद्यत्वविरहेणेच्छा विषय. त्वनिष्ठावच्छेद्यत्वाभावप्रवेशेष्यसम्भवाद्यापत्त्या प्रतीतिविषयतानिष्ठ. स्य तस्याभावएव निवेश्य इत्येतत्सूचनायोक्तरीत्योपन्यास इतिवदन्ति । शुद्धव्यभिचारादेर्मेयत्वविशिष्टव्यभिचाराभिन्नत्वेपिनक्षतिरिति । ननु विशेष्यदले यत्पदार्यतया दोषतावच्छेदकगतरूपप्रवेशस्यैव सिद्धान्तितत्वेन