SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०० सामान्यनिरुक्तिविवेचना कालीनस्वस्यैव व्याप्तितया तद्घटितस्यापि सत्प्रतिपक्षत्वं दुर्वारमि. तिबाच्यं मतभदेनोभयोस्तथात्वे इष्टापत्तेरितिचेन्न विरोध्यनुमितिसा. मग्रीत्वेन प्रतिबन्धकत्वस्य सत्प्रतिपक्षवाने दीधितिकृता निराकरणी. त्वेन विरोधिविषयकनिश्चयत्वेनैव हि तद्वाच्यं विरोधित्वञ्च तत्तदभा वयोरिव तसदभावव्याप्ययोरप्यनुभवसिद्धं तत्र व्यापकलामानाधिक. रण्यरूपव्याप्तिघटितविशिष्टज्ञानस्य प्रतिबन्धकतायान्न सामानाधिकर ण्यादिविषयकत्वं तन्त्रं तदविषयकवानस्यापि साध्याभावांशे हेतुव्या पकत्वावगाहित्ववतो हेतुमस्पक्षविषयत्वावगाहिशानकालीनस्य प्रति. बन्धकत्वात् यद्विषयकत्वस्य हि प्रतिबन्धकताप्रयोजकत्वं तद्घटितवि शिष्टस्यैव दोषत्वं नचातथाभूतविषयघटितस्य मेयत्वविशिष्टव्यभिः चारादिवत् भवति चातथाभूतविषयघटितो हेतुव्यापकलाध्याभावल. मानाधिकरणहेतुमत्पक्षे इतिस न दोषः अतथाभूतवस्तुघटितस्यापि प्रतिबन्धकतोपयोगिविषयमध्यीकृतातथाभूतविषयकघटितत्वमात्रेण सत्प्रतिपक्षत्वश्चेत्स्वीकरणीयमतथाभूतकालीनत्वाद्यनन्तपदार्थघटित. विशिष्टस्य सत्प्रतिपक्षत्वकिमिति न स्वीकरणीयमित्यसार्वज्ञ दुर्शयसरप्रतिपक्षप्रसङ्गइत्याशयः। सम्पादनीयत्वादिति प्रकृतानुमित्यप्रतिबन्धकत्वपक्षर्मिकहेतुमत्ता. शानकालीनस्वोभयाभावस्थ यद्रूपावच्छिन्नविषयताशालिनिश्चयत्व. व्यापकत्वन्तद्र्पावच्छिन्नत्वस्यैव सामान्यलक्षणत्वमभ्युपेत्य सम्पादनीयस्वादित्यर्थ इति। अनुमितिप्रतिबन्धकतायांयद्रूपावच्छिन्नविषकत्वमवच्छेदकन्तद्रूपावच्छिन्नेत्यर्थ इति. अथ प्रकृतानुमित्यवृत्तिविषयितानिरूपकतावच्छेदकावच्छिन्नत्वमेव लाघवाद्वक्तुमुचितं तथासत्येव दोषैकदेशेवारणसम्भवेन तद्वारका नतिरिक्तवृत्तिस्वरूपावच्छेदकताघटितनिरुक्तविवक्ष.दरो व्यर्थ इतिचेन्न मेयत्वविशिष्टसत्प्रतिपक्षेऽतिव्याप्स्यापत्तेः सत्प्रतिपक्षनिश्चयस्य का. र्यसहभावेनानुमितावविरोधिताया यदिचेत्यादिना सत्प्रतिपक्षग्रन्थेदीधितिकृतोक्तत्वेन सत्प्रतिपक्षविषयकप्रकृतानुमितेः सम्भवेन सत्प्र. तिपक्षत्वस्य प्रकृतानुमित्यवृत्तिविषयितानिरूपकतावम्छेदकत्वविर. हात् अभावाधिकरणानरूपितवृत्तित्वाभावव्याप्यववाहिकालीनपर्वतो धूमवान्वरित्यत्र व्यभिचारेऽव्याप्तेश्च प्रकृतानुमितेरभाषाधिकरण त्तित्ववाहित्वावच्छिन्नविषयत्वस्थासम्भवेन तादृशवहित्वे प्रकृतानु:
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy