SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना निश्चयविशिष्टात्मत्वस्यैव प्रतिबन्धकत्वस्योक्तत्वेन तदवच्छेदकस्य वाधनिश्चये सत्वादसम्भवः स्वनिरूपितावच्छेदकतानिरूपितसामा. नाधिकरण्यसम्बन्धावच्छिनावच्छेदकत्वस्थ संसर्गरखे पाधादावव्या. तिवारणेपि निश्चयस्य प्रतिबन्धकतापक्षे वयभाववज्जलववृत्ति जलवद्धदेऽतिव्याप्तिः एवं साक्षात्प्रतिबन्धकतावच्छेदकतादेव्यासज्यवृत्तित्वे निश्चयविशिष्टनिश्चयीयविषयितावरवेन प्रतिबन्धकत्वस्याभ्युपगततया तत्पक्षेपि चातिव्याप्तिरितिवाच्यं स्वतादात्म्यापननिश्च यवृत्तिनिरूपितावच्छेदकत्वस्वतादात्म्यापननिश्चयावृत्तिनिरूपिताव च्छेदकतानिसातिावच्छदकत्वस्वनिरूपितविषयित्वनिष्ठावच्छेदकता. निरूपितावच्छेदकतानिरूपितावच्छदकत्वान्यतमसम्बन्धने भेदप्रति. योगितावच्छेदकत्वस्य संसर्गघटकस्य वाच्यत्वात् स्वरूपस्थानेपि स. र्वमतसङ्ग्रहाय स्वरूपस्वावच्छेदकान्यतरवत्वसम्बन्धोनिवेश्यः वस्तु. तः सामग्येणाप्येतद्रन्थपर्यालोचने निश्चय प्रतिबन्धकत्वपक्षातिरिः क्तपक्षस्यानुन्मेषाद्यथाश्रुतमेव साधु ।। नच गगनाभाववदभाववरकाली. नघटोगगनवानियत्र वाधेऽव्याप्तिः तत्र वाधनिश्चयस्य निश्चयविशिनिश्चयत्वेनैव प्रतिबन्धकत्वेन स्वावच्छेदकत्वसम्बन्धेन प्रतिबन्ध. कतयास्तत्रसत्वादितिवाच्यं प्रकृतानुमितित्वव्यापकप्रतिबध्यतावि. शिष्टविषयताशुन्यज्ञानवृत्तित्वेन संसर्गघटकावच्छेदकत्वस्य विशेष. णीयरवात वैशिष्ट्यश्च स्वनिरूपितप्रतिवन्धकतावच्छेदकत्वस्वविशिष्टनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेद। कत्वोमयसम्बन्धेन पतत्परिकारस्तु प्रागेवोक्ता नच हेतुमत्पक्षधटि तासाधरण्येऽव्याप्तिरितिवाच्यम् असाधारण्यनिश्चयावृत्तित्वस्याप्यव. च्छेदकताविशेषणत्वादितिचेन्न वह्नयभाववज्जलवत्कालीनहदो वह्निमानित्यत्र जलवत्तादशहदे नीलरूपाभाववन्नीलेऽभाववचारशघटे चा तिव्याप्ते१रुद्धरत्वात् । तनिश्चयानान्निश्चयविशिष्टनिश्चयत्वेन प्रतिब न्धकत्वं मानाभावेनावच्छेदकत्वादिसम्बन्धेन प्रकृतानुमितिप्रतिबन्ध कतायास्तत्रासत्त्वादितिदिक् ॥०॥ ___ तादृशविशिष्ठद्वयाघटितत्वस्येति । तद्रूपावच्छिन्नविषयताविशिष्टतपा. वच्छिन्नविषयताशून्यप्रतीतिविषयत्वस्येत्यर्थः नतु ताहविषयता द्वयशून्यप्रतीतिावषयत्वस्येति तथासति वहयभावव्याप्तिलावृत्तिम्ध. वज्जलेऽतिव्याप्तिः स्यान्निरुक्तविशिष्टविषयकत्वस्य जलांशे हद वृत्ति.
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy