________________
NYAYAVATARA.
47
प्रायसंग्राहकाः इति चेत् । उच्यते । इति प्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तत गत्यन्तराभावात् । अर्थश्च सामान्यरूपो विशेषरूपो वा शब्दोऽपि रूढितो व्युत्पत्तितश्च व्युत्पत्तिरपि सामान्यनिमित्तप्रयुक्ता तत्कालभाविनिमित्त प्रयुक्ता वा स्यात् । ... येऽपि परस्परविशकलितौ सामान्यविशेषरै इच्छन्ति तत् समुदायरूपा नैगमः । ये पुनः केवलं सामान्यं वाञ्छन्ति तत् समूहसंपाद्यः संग्रहः। ये पुनरनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारमवतरन्तं घटादिकं पदार्थम् अभिप्रयन्ति तन्निचयजात्या व्यवहारः । ये तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते तत्संघातघटित ऋजुसूत्र इति । तथा ये रूढितः शब्दानां प्रवृत्तिं वाञ्छन्ति तन्निवहसाध्यः शब्द इति । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्तिं वाञ्छन्ति नान्यथा तवारजन्यं समभिरुढ इति । ये तु वर्तमानकालभाविव्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते तत्संघटितः खल्वेवंभूत इति । तदेवं न कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसंग्राहका एते इति स्थितम् । ... तथाहि नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको, संग्रहाभिप्रायप्रवृत्ताः सर्वेऽपि अद्वैतवादाः सांख्यदर्शनं च, व्यवहारनयानुपातिप्रायश्चार्वाकदर्शनम् , ऋजुसूत्राकूतप्रवृत्तबुद्धयस्ताथागताः, शब्दादिनयमतावलम्बिनो वैयाकरणादयः ॥... तथाहि नयति केनचिद् अंशेन विशिष्टमर्थ प्रापयति योऽभिप्रायः स नयः ॥ २९॥
इह त्रिविधं श्रुतम् । तद्यथा । मिथ्याश्रुतं, नयश्रुतं, स्याद्वादश्रुतम् । तत्र श्रूयते इति श्रुतमागमः। मिथ्याऽलीकं श्रुतं