SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ NYAYAVATARA. 45 तत्सामोपपत्तेः ...। तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षासिद्धादिहेतुसाध्यादिविकलदृष्टान्ताद्युपन्यासलक्षणानामुद्भावन प्रानिकानां पुरतः प्रकाशनं यत् तद् दृष्यते स्वाभिप्रेतसाध्यप्रत्यायनवैकल्यलक्षणं विकृति नीयते साधनमनेनेति दूषणमिति ज्ञ यम् ॥ २६॥ सकलं समस्तम् आवृणोति आवियते वाअनेनेत्यावरणम् । तत् स्वरूपप्रच्छादनं कर्मेत्यर्थः । सकलं च तदावरणां च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत् तथा । अतएव केवलम् असहायम् आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारस्य प्रवृत्तेः । सामस्त्येन पुनः आवरणनिर्दलने विबन्धकारणवैकल्याद् एकाकारतयैव तस्य विवर्तनाद् अतो शानान्तरनिरपेक्षं यत् प्रकाशते प्रथते निरुपाधिकं द्योतते इत्यर्थः। तत् परमार्थतः प्रत्यक्षं तदिदं सकलावरणमुक्तात्मेति हेतुद्वारेण तथा केवलं तत् प्रकाशते इति स्वरूपता निरूप्य अधुना कार्यद्वारेण निरूपयन्नाह । सकलार्थात्मनां समस्तवस्तुस्वरूपाणां सततप्रतिभासनम् अनवरतप्रकाशनं सकलार्थात्मसततप्रतिभासनमिति प्रतिभास्यतेऽनेनेति प्रतिभासनम् आत्मनो धर्मरूपतया भेदवद्विवक्षितं शानमिति यावत् । अस्य च पारमार्थिकत्वं निरुपचरितशब्दार्थोपपत्तेः । तथाहि । अक्षशब्दो जीवपायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षं यत्रात्मनः साक्षाद्वरापारः । व्यावहारिकं पुनरिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव धूमादग्निशानवत्तिरोधानाविशेषात् ॥ २७॥ द्विविधं हि प्रमाणस्य फलं साक्षाद् असाक्षाच अनन्तरं व्यवहितं चेत्यर्थः । तत्र साक्षाद् अज्ञानम् अनध्यवसायः
SR No.008447
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorSatish Chandra Vidyabhushan
PublisherZZZ Unknown
Publication Year
Total Pages60
LanguageEnglish
ClassificationBook_English & Philosophy
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy