________________
NYAYAVATARA.
43
(३), तथा सन्दिग्धसाध्यव्यतिरेकः (४), सन्दिग्धसाधनव्यतिरेकः (५), सन्दिग्धसाध्यसाधनव्यतिरेकश्चेति (६) । तत्र साध्याव्यतिरेकी यथा, भ्रान्तमनुमानं प्रमाणत्वात् इत्यत्र वैधHदृष्टान्ता यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणं तद्यथा स्वप्नज्ञानमिति स्वप्नज्ञानाद् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वमिति । साधनाव्यतिरेकी यथा, प्रत्यक्ष निर्विकल्पकं प्रमाणत्वादिति । अत्र वैधय॑दृष्टान्तो यत् पुनः सविकल्पकं न तत् प्रमाणं तद्यथाऽनुमानमनुप्रमाणताऽनिवृत्तः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा, नित्यानित्यः शब्दः सत्त्वात् इत्यत्र वैधय॑दृष्टान्तो यः पुनर्न नित्यानित्यः स न सन् तद्यथा घटः घटादुभयस्यापि अव्यावृत्तेरुभयाव्यतिरेकित्वमिति । तथा सन्दिग्धसाध्यव्यतिरेकः, असर्वज्ञा अनाता वा कपिलादयः आर्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैधय॑दृष्टान्तः यः पुनः सर्वज्ञ प्राप्तो वा असौ आर्यसत्यचतुष्टयं प्रत्यपीपदत् तद्यथा शौद्धोदनिरिति । अयं च साध्यव्यतिरेकी वा आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तद्भाषकस्य असर्वज्ञतानाप्ततोपपत्तेः ... ... तस्मात् शौद्धोदनेः सकाशाद् असर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्धेति सन्दिग्धसाध्यव्यतिरेकित्वमिति । सन्दिग्धसाधनव्यतिरेको यथा, अनादेयवाक्यःकश्चिदविक्षितः पुरुषो रागादिमत्त्वादित्यत्र वैधय॑दृष्टान्तो यः पुनः आदेयवाक्यो न स रागादिमान् तद्यथा सुगत इति... सुगतात् रागादिमत्वव्यावृत्तिसंशयात् सन्दिग्धसाधनव्यतिरेकित्वमिति । सन्दिग्धसाध्यसाधनव्यतिरेको यथा, वीतरागाः कपिलादयः करुणास्पदेषु