________________
38
NYAYAVATARA.
मभिदधीत । पक्षोपन्यासातु निर्णीतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः । अमुमेवार्थ स्पष्टं दृष्टान्नाह ॥१५॥
यथा लक्ष्यनिर्देशं विना धानुष्कस्य इषु प्रक्षिपतो यौ गुणदोषी तैा तद्दर्शिजनस्य विपर्यस्तावपि प्रतिभातः । गुणाऽपि दोषतया दोषोऽपि वा गुणतया तथा पक्षनिर्देशं विना हेतुमुपन्यस्यतो वादिनो यो स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षण गुणदोषौ तौ प्राशिकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थः ॥ १६॥
स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपाहेन साध्यव्यतिरेकात् सामस्त्येन हेताळवृत्तिरेवैकं लक्षणमिति निर्णीतं परार्थानुमानेनापि तदेव प्रकाशनीयं वचनरचना तु कचित् प्रवर्तते इत्यभिप्रायवांस्तवैविध्यमाह । हेताईिविधः प्रयोगः स्यादिति सम्बन्धः । कथमित्याह । तथैव साध्यसद्भावे एव उपपत्तिर्विद्यमानता तया तथोपपत्या यथा अग्निरत्र धूमस्य तथैव उपपत्तेरिति । अन्यथापि वा इत्यनेनावयवे समुदायोपचारात् अन्यथानुपपत्ति लक्षयति अन्यथा साध्यव्यतिरेके अनुपपत्तिः अविद्यमानता एव तया वा अन्यथानुपपत्या हेतोः प्रयोगः स्यात् । यथा अग्निरत्र धूमस्य अन्यथानुपपत्तिरिति एते च द्वे अपि एकस्मिन् साध्ये प्रयोक्तव्ये इति मन्येत ।...तथीपपत्तिप्रयोगेण अन्यथाऽनुपपत्त्यप्रयोगेण वा साध्यस्य प्रतिपिपादयिषितार्थस्य सिद्धिनिष्पत्तिः...भवेत् ॥१७॥
साध्यं जिज्ञासितार्थात्मकं साधनं तद्गमका हेतुः तयाः साध्यसाधनयोः व्याप्तिः इदमनेन विना न भवतीत्येवंरूपा यत्र क्वचिनिश्चीयतेतराम् अतिशयेन निर्णीयते स साधयेदृष्टान्तः ।