________________
मनुष्याणामपि वाक प्रकृया अविभक्तव-प्रकृति-प्रत्यय-पद-वाक्यादिविभागरहितैवाऽऽसीत्, इन्द्रस्तु ज्ञानस्याधिष्ठाता प्राणरूपो देवस्तां वाचं मध्यत आक्रम्य व्याकरोति-पदवाक्यादिरूपेण विभक्तां करोति । वाचि योऽयं पद-वाक्यादिविभागः स खलु ज्ञानकृतः, पश्चादीनां ज्ञानाभावात् स खलु न जायते इति ।
परं वन्ये इन्द्रं देवानां मुख्यमेव प्राथमिक व्याकरणकारं मन्यन्ते, तन पस्पशानिकस्थमहाभाष्यानुमोदितमपि, तथाहि-तत्रोतम् “एवं हि श्रूयते-बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगाम । बृहस्पतिश्च प्रवक्ता, इन्द्रवाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, तथापि नान्तं जगाम।" इति। यद्या येतेन ग्रन्थेन इन्द्रस्य बृहस्पतिसकाशे प्रतिपदोक्तानी शब्दानां पारायणरूपेणाध्ययनमेव विज्ञायते, न तु तस्य व्याकरणकर्तृत्वं, तथापि
"ईन्द्रश्चन्द्रः काकिना-ऽऽपिशैली-शाकटायनः !
पाणिन्यमर-जैनेन्द्री जयन्त्यष्टादिशाब्दिकाः॥" इत्यभियुक्तोक्तिदिशा प्रथमशाब्दिकत्वेन तस्य श्रवणाद् व्याकरणनिर्मातृत्वमपि स्वीकार्यमेव, तत्सम्पादनायैव वृहस्पतिसकाशे शब्दपारायणाध्ययनसंभवात् । किञ्च--
"ऐन्द्र चान्द्र काशकृत्स्नं कौमारं शाकटायनम् ।
सारखतं चापिशलं शाकलं पाणिनीयकम् ॥" इति रीत्याऽष्टव्याकरणानां नाम क्वचिच्छ्रयते। अत्र च पूर्वोक्ताष्टशाब्दिकेभ्योऽन्येषामपि कौमार-सारस्वत-शाकलकर्तृणां नामानि श्रूयन्त एव । परमिदानी समुपलभ्यमानेषु व्याकरणेषु पाणिनीयव्याकरणमेव प्राचीनमिति केचिन्मन्यन्ते ।
निरुक्तालोचने सत्यत्रतसामधमिमहाशयस्तु-पाणिनितः प्राचीनं सर्वतोमुखं व्याकरणं नासीदेवेति मन्यते । 'इन्द्रश्चन्द्रः' इत्यादिपूर्वोक्तपद्ये हि 'अष्टादिशाब्दिकाः' इत्येवोक्तम् , न त्वेते व्याकरणकर्तारोऽपीति । शाब्दिकत्वं तु शब्दशास्त्रप्रौढत्वं शब्दशास्त्र. पारङ्गतत्वं शब्दशास्त्रप्रचारकत्वं वेत्यादिरीत्यापि संघटते । शब्दशास्त्रपदेन च न केवल व्याकरणमेव ग्रहीतुं शक्यते, अपि तु कोशमीमांसादिकमपि । महत्सु ‘पदवाक्यपारावारीण' इति विशेषणं प्रयुज्यते, तत्र 'पद'पदेन व्याकरण 'वाक्य'पदेन मीमांसा 'प्रमाणपदेन च न्यायं व्यपदिशन्ति शिष्टाः । शब्दपदेन च पदं वाक्यं चोभयमपि ग्रहीतुं शक्यत इति वाक्यविचारिका मीमांसापि शब्दशास्त्रम्।
ये चैतेऽष्टौ शाब्दिकाः परिगणितास्तेषु विभिन्नप्रकारक्रमेव शाब्दिकत्वं प्रमाणान्तरैः सिध्यति । तथाहि-पूर्वोक्तव्याकरणमहाभाष्यपस्पशाह्निकस्थग्रन्थेनेन्द्रस्य शब्दपारायणज्ञत्वेन कथनात् तस्य तन्मात्रकर्तृत्वमनुमातुं शक्यते, तेन च शब्दपारायणरूपव्याकरणकर्तृत्वमेव तस्य सिध्यति, ततः परेण वा केनचिदिन्द्रनामकेन विदुषा किमपि व्याकरणनिर्मित भवेदिति संदेहः संभवति । चान्द्रं तु व्याकरण किञ्चिदासीदिति स्वीक्रियत ऐतिहासिकैः । तथाहि
"चन्द्राचार्यादिभिर्लब्ध्वादेशं तस्मात् तदागमम् । प्रवर्तितं महाभाष्यं खं च व्याकरणं कृतम् ॥"
[राजतरङ्गिणी १-१७६] इति चान्द्रदौर्गादिनाना ख्याता ये प्राक्तना महान्तो विद्वांसस्तरेव चन्द्राचार्य-दुर्गाचार्यादिपदाभिधेयैीर्ण महाभाष्यस्य पुस्तकं दाक्षिणात्येषु क्वचिदुपलभ्य काश्मीरदेशेऽभिमन्युराज्यकाले नीतम् , तैरेव विलुप्तप्रायस्य महाभाष्यस्य प्रचारः कृतः, स्वीय चाभिनवं व्याकरण विरचय्य प्रचारितमिति पूर्वोक्तराजतरङ्गिणीस्थपद्येन सिध्यति । तेन तदीयमिदं व्याकरणं पाणिनिव्याकरणतो बर्वाचीनमित्यत्र न कोऽपि संशयः; पाणिनिसूत्रभाष्यकृतः पतञ्जलेरपि बहुतरपरभवत्वात् तेषाम् । ततश्चान्द्रं व्याकरण पाणिनिव्याकरणात् पूर्वमपि भवेदित्यत्र न किमपि दृढतरं प्रमाणमुपलभ्यते।।
एवं काशकृत्स्नस्य काशकृत्स्नेर्वा व्याकरणकर्तृत्वे न किमपि प्रमाणमुपलभ्यते । तस्य मीमांसकत्वं तु "काशकृस्निना प्रोक्ता मीमांसा काशकृत्स्नी" इति महाभाष्योदाहरणेन [पा० ४ अ.१ पा. १४ सूत्रे] प्रतीयते । मीमांसकानामपि शाब्दिकत्वं वाक्यविचारकत्वेन खीकार्यमेवेत्यादिशाब्दिकेषु तस्य गणना। आपिशलेस्तु पाणिनिसूत्रेषु दृश्यते नामोल्लेखः-“वा सुप्यापिशले:" [पा. सू. ६. १.९२ ], तस्माद् वैयाकरणेषु तन्मतमपि क्वचित् पार्थक्येनादृतमासीदित्येतावदेवाभ्युपगन्तुं शक्यते तावतैव च तस्य शाब्दिकेषु गणनापि समुपपद्यते, किन्तु तनिर्मितं किमपि पूर्ण व्याकरणमासीदिति न प्रमाणपदवीमधिरोहति । नहि पाणिनिसूत्रेषु येषां नामोल्लेखस्ते सर्वेऽपि व्याकरणकार एवेति स्वीकारो न्याय्यः, प्रयोगविशेषे तेषामेवंविधा रुचिरित्यतात एव ततः प्रतीयमानत्वात् । परेऽपि केचित् तत्र तत्र पाणिनिसूत्रेयूल्लिखिताः, यथा-शाकल्यः, काश्यपः, स्फोटायनः, चाक्रवर्मणः, गालवः, भारद्वाजः, गायः, सेनकश्च, एषु केषाञ्चिदेकत्र केषांचिच्चानेकत्र पाणिनिनोल्लेख: स्वसूत्रेषु कृतः, तेन च तेषां तत्तद्विषयप्रयोगविशेष एव रुचिपार्थक्यमनुमीयते, न तु पृथग्व्याकरणकर्तृत्वमपि ।