________________
१६६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
D
मित्यत्रान्वयस्यैवानुपपत्तिरिति चेत् ? न-स्थूलव्यवहारव्युत्पत्तेरन्यापोहशब्दार्थवादिना निश्चयेनानादरणात्, अन्यथारम्भकाल इव तत्पूर्वकालेऽप्येकस्थूलकालसम्भवेन पचतीति प्रयोगप्रसङ्गात्, न च व्यव. हारमात्राद् वस्तुसिद्धिरपि, अन्यथा ' पुरुषो व्याघ्रः' इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसङ्गात् । किञ्च, एवं 'नष्टो घटः, नश्यन् घटः' इत्यादिप्रयोगव्यवस्थायां तव का गतिः ? नाशस्योक्तातीतत्वा. योगात्, नष्टेऽपि घटे विद्यमाननाशप्रतियोगित्वाच; अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति न दोष इति चेत् ? न-उक्तनियमभङ्गप्रसङ्गात् ; धातुत्व-प्रत्ययत्वादेनानात्वात् तन्नियमस्य निश्चयनयेनानादरणादनभ्युपगमात् , कथं निश्चयनयः स्थूलव्यवहारव्युत्पत्तिं नाभ्युपतीत्यपेक्षायामन्यापोहशब्दार्थवादिनति तद्विशेषणमुपात्तम् , सामान्यस्यानुगतस्य वस्तुभूतस्य वृत्तिविकल्पतोऽभावात् , स्वलक्षणस्य सङ्केत व्यवहारकालाननुगामिनः सङ्केतकरणानास्पदत्वात् कल्पितोऽन्यापोहो विकल्पात्मा शब्दार्थः, न च तत्र शब्दस्य सङ्केतकरणाच्छब्दार्थत्वं किन्तु शब्दादु विकल्पलक्षणोऽन्यापोहो जायत इति शब्दजन्यत्वाच्छब्दार्थत्वम्, उकं च-" विकल्पयोनयः शन्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि" [ ] ॥१॥ एवं च यस्माच्छब्दाद् यथाविधो विकल्प उत्पद्यते तथाविधविकल्पं प्रति तस्य शब्दस्य कारणत्वम् , तथा विकल्पात्माऽन्यापोहस्तस्य शब्दस्यार्थ इत्येवंवादिना निश्चयेन स्थूलव्यवहारोपादनप्रत्यलव्युत्पत्तेरनादरणादित्यर्थः । यदि च स्थूलकालमेकमुपादायारम्भसमये पचतीति प्रयोगस्तथाभूत कालवृत्तिपाककृतिमानित्यर्थपरतयोपपाद्यते तर्हि पाकारम्भसमयपूर्वका लादारभ्य पाकनिष्पत्तिसमयपर्यन्तस्थायिस्थूलकालमुपादाय तदात्मकवर्तमानकालवृत्तिपाककृतिमानित्यर्थपरतया पाकारम्भसमयात् पूर्वकालेऽपि पचतीति प्रयोगः प्रसज्येतेत्याह- अन्यथेति-स्थूलव्यवहारव्युत्पत्त्याश्रयणस्य निश्चयनयेऽभ्युपगमे त्वित्यर्थः। तत्पूर्वकालेऽपि आरम्भकाल. पूर्वकालेऽपि । अन्यथा व्यवहारमात्राद् वस्तुसिद्धयपगमे । प्रत्ययार्थस्य वर्तमानकालवृत्तित्वस्यातीतकालवृत्तित्वस्य वा निरुतस्य धात्वर्थेऽन्वयाभ्युपगमे परस्यानिष्टमाविदयति- किञ्चवमिति । उक्तातीतत्वेति- विद्यमानध्वंसप्रतियोगिकालवृत्तित्वलक्षणावीतत्वेत्यर्थः। ननु नाशः पूर्वकालोत्पन्न इदानीमप्यनुवर्तत इति यदा विनष्टो घट इति प्रयुज्यते तत्काल एव तथा प्रयोगा. धारत्वाद् विद्यमानकालस्तदानीं विद्यमानस्तत्पूर्वकालध्वंसो विद्यमानध्वंसस्तत्प्रतियोगिकाल: पूर्वकालस्तवृत्तित्वं घटनाशे समस्तीति नोक्तातीतत्वायोग इति चेत्, मैवम्- यतो यथाश्रुतातीतत्वग्रहणे स्थिरपदार्थवादिमते भावमात्रस्य प्रयोगकाले सतस्तत्कालवृत्तिध्वंसप्रतियोगिपूर्वकालवृत्तित्वेनातीतत्वं प्रसज्येत, अतस्तत्र वर्तमानकालावृत्तित्वे सतीस्यपि विशेषणं देयम्, तथा च पूर्वजातोऽपि घटनाश उत्तरकाले सर्वदैव वर्तत इति तस्य वर्तमानकालावृत्तित्वस्याभावेन न तत्सहितविद्यमानध्वंसप्रतियोगिकालवृत्तित्वलक्षणातीतत्वसम्भव इति, एवं च 'नष्टो घटः' इति प्रयोगः पूर्ववृत्तनाशप्रतियोगिनि घटे जायमानो नोपपद्यतेत्यर्थः । पूर्ववृत्तनाशप्रतियोगिघटमुपादाय 'नश्यन् घटः' इति प्रयोगो न भवति सोऽपि स्यात् , विद्यमाननाश. प्रतियोगित्वस्य घटे सद्भावादित्याह- नष्टेऽपीति । ननु 'नष्टः' इत्यत्र कृतः प्रत्ययस्यातीतत्वमुत्पत्तिश्चार्थ इति तत्रो. स्पत्तावतीतत्वस्योत्पत्तेश्च नाशे धात्वर्थेऽन्वय इत्यतीतोत्पत्तिमन्नाशप्रतियोगीति भिष्टः' इत्यस्यार्थः, ‘नश्यन्' इत्यत्र च वर्तमानत्वमुत्पत्तिश्च शतृप्रत्ययार्थः, उत्पत्तौ वर्तमानत्वस्योत्पत्तेश्च धात्वर्थे नाशेऽन्वय इति वर्तमानोत्पत्तिमन्नाशप्रतियोगीति 'नश्यन्' इत्यस्यार्थः, तथा च 'नष्टो घटः, नश्यन् घटः' इति प्रयोगद्वयव्यवस्था सुसमतेत्याशङ्कते- अथेति । तत्र नष्टो नश्यन्नित्यादौ समाधत्ते-नेति । उक्तति- 'तच वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति' इति ग्रन्थेनार्थादुक्तो यो नियम:-प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य वा धात्वर्थ एवान्वय इति, तस्य भङ्गप्रसङ्गात् , इदानीं प्रत्ययार्थस्यातीतत्वस्य वर्तमानत्वस्य च प्रत्ययार्थेनैवान्वयस्योपगमादित्यर्थः । ननु सकलधातुगतं धातुत्वं सकलप्रत्ययगतं च प्रत्ययत्वमनुगतं नास्तीति न सामान्यत उपदर्शितनियमः किन्तु कृधात्वर्थे कृजधातूत्तरानशक्तप्रत्ययार्थवर्तमानत्वातीतस्वातीतत्वादेरन्वय इति विशेषत एवोक नियम इति नर-धातुस्थलेऽन्यथाऽन्वयोपगमेऽपि नोक्तनियमभङ्गप्रसङ्ग इत्याशङ्कते-धातुत्व-प्रत्ययत्वादेरिति । समाधत्ते-नेति । 'धातुपदत्वादिनापि' इत्यस्य स्थाने 'धातुपदवत्त्वादिनाऽपि, इति पाठः सम्यग् , आदिपदात् प्रत्ययपदवत्वादरुपग्रहः, तथा च पाणिनिप्रभृतयो व्याकरणप्रणेतारो भ्वादिषु सङ्केतितवन्तो धातुपदम्, आख्यातकृदादिषु च प्रत्ययपदमिति पाणिन्यादिकृतसङ्केतविशेष सम्बन्धेन धातुपदवत्त्वं धातुत्वम् , निरुतसङ्केतविशेषसम्बन्धेन प्रत्ययपदवत्वं प्रत्ययस्वमित्येवं धातुत्व-प्रत्ययत्वादेरनुगतस्य सम्भवेन तपेण धातु-प्रत्ययादेरनुगमनस्य सम्भवेन धात्वर्थे प्रत्ययार्थवर्तमानत्वादेरन्वय