________________
गयामृततरङ्गिणी- शिणीतरणिभ्यां समलहतो नयोपदेशः।
भ्युपगमादिति न कश्चिद् दोष इति भावनीयम् ॥ २८ ॥ ऋजुसूत्रं लक्षयति
भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता ।
ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ॥ २९ ॥ नयामृत-भावत्व इति । भावत्वे वर्तमानवव्याप्तिधीः- अतीतानारातसम्बन्धाभावव्याप्यत्वोप. गन्तृता, अविशेषिता- शब्दायभिमतविशेषापक्षपातिनी, सूत्रे ऋजुसूत्रनयः श्रुतः, सूत्रं च- " पञ्चुप्पण्णग्गाही उज्जसुओ णयविही मुणेयधो" [विशेषावश्यकनियुक्तिगाथा-२१८४ ]त्ति, अत्र प्रत्युत्पन्नमेव गृहातीत्येवंशील इत्यत्रार्थे तात्पर्यादुक्तार्थलाभः, अविशेषितपदकृत्यमाह- शब्दार्थस्तु विशेषित इति, तथा च विशेषितार्थप्राहिणि शब्दादिनये नातिव्याप्तिरिति भावः, “ सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः" [ तत्त्वार्थसूत्रे, अ० १, सू० ३५ ] इति तत्त्वार्थभाष्यं व्यवहारातिशायित्वलक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम् , व्यवहारो हि सामान्य व्यवहारानगत्वान्न सहते, कथं तहतत्प्रयुक्तस्य व्यवहारस्याप्यविशेषेण सर्वत्र सम्भवेन तन्निरूपितविषयताऽपि सर्वत्रावश्य कीति तत्संवलितत्वं सर्वत्रादृष्टेऽथे निश्चयीयविषयताया इत्यभिसंन्धिः ॥ २८ ॥
एकोनत्रिंशत्तम पद्यमवतारयति-ऋजुसूत्रमिति । विवृणोति-भावत्व इतीति- यत्र यत्र भावत्वं तत्र वर्तमानस्वमित्येवं व्याप्तिज्ञानमृजुसूत्र इत्यर्थः । 'वर्तमानत्वव्याप्तिधीः' इति मूलस्य विवरणम्- अतीतानागतसम्बन्धाभावव्याप्यस्वोपगन्ततेति, अतीता-ऽनागतकालसम्बन्ध्यपि भावो वर्तमानकालसम्बन्धितामपि वर्तमानतादशायामनुभवत्येवेति यत्र यत्र भावत्वं तत्र वर्तमान त्वमित्येवं व्याप्युपगमः स्थिरभावाभ्युपगन्तुव्यार्थिकन यस्यापीत्यतोऽतीतेत्यादि विवरणमादृतम् , तथा च यत्र यत्र भावत्वं तत्रातीतानागतसम्बन्धाभाव इत्येवं व्याप्तेरभ्युपगन्तृत्वं न द्रव्यार्थिकनयस्य, तदभिमते स्थिरे भावे अतीता-ऽनागतसम्बन्धस्यैव भावेनातीता-ऽनागतसम्बन्धाभावस्याभावात् , अतीता-ऽनागतसम्बन्धाभावाभाववति स्थिरे भावे भावत्वस्य सत्त्वेन व्यभिचारिणो भावत्वस्यातीतानागतसम्बन्धाभावव्याप्यत्वाभावेन तादृशव्याप्यत्वाभ्युपगन्तृत्वस्य तत्रासम्भवादिति । भावत्वे अतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृता शब्दादिनयानामपीति तेष्वतिव्याप्तेर्वारणार्थमुपात्तस्य 'अविशेषिता' इत्यस्य विवरणम्-शब्दाद्यभिमतविशेषापक्षपातिनीति-तथा च शब्दाद्यभिमतविशेषानभ्युपगन्तृत्वे सति भावत्वगतातीतामागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वमृजुसूत्रत्वमित्येवमृजुसूत्रस्य लक्षणे पर्यवसिते न शब्दादिनयेऽतिव्याप्तिरित्याशयः । 'सूत्रे ऋजुसूत्रः श्रुतः' इत्युक्तिरुक्कलक्षणस्य सिद्धान्तसिद्धत्वप्रतिपादनाय । कस्मिन् सूत्रे इति जिज्ञासायामाह-सूत्र चेति । पच्चुप्पण्ण० इति- " प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधितिव्यः" इति संस्कृतम् । नम्वत्राविशेषितत्वं विशेषण नोपात्तमिति नैतत्सूत्रसम्मतत्वं निरुक्ताविशेषितत्वघटितलक्षणस्येत्यत आह- अत्रेति- एतत्सूत्रे इत्यर्थः । 'प्रत्युत्पन्नमेव' इत्येवकारेणातीता-ऽनागतयोः शब्दायभिमतविशेषस्य च व्यवच्छेदः। तात्पर्यात् प्रत्युत्पन्नग्राहीत्यस्य तात्पर्यात्, तेन चोकसूत्रतो निरुक्तलक्षण लाभ इत्याह-उक्तार्थलाभ इति । तथा च 'शब्दार्थस्तु विशेषितः' इत्युपादानेन शब्दाद्यभिमतविशेषासाहित्वस्य लक्षण घटकत्वे च । ऋजुसूत्रस्य व्यवहारातिशायित्वफलाभिप्रायकं तत्त्वार्थभाष्योकं तल्लक्षणं दर्शयति-सतामिति । तदतिशयप्रतिपादनार्थ व्यवहारत ऋजुसूत्रस्यातिशय प्रतिपादनार्थम् । एतदुक्तं 'सताम् ० ' इत्यादि लक्षणमुक्तम् । अतिशयमेव प्रतिपादयति-व्यवहारो द्वीति । हि यतः, व्यवहारः व्यवहारनयः, व्यवहाराननत्वात् विषयविधया लोकव्यवहृतिजनकत्वाभावात् , सामान्यं सत्त्वादिकम् , न सहते नाभ्युपगच्छति यदि, तर्हि तदा, परकीयं परसम्बन्धि, अर्थमपि धनादिकमपि, कथं सहेत कथं स्वीकुर्यादित्यन्वयः, सर्वत्र अविचार्य विचारमकृत्वैवेत्यस्य सम्बन्धः, परकीयार्थेनापि दानादिव्यवहारो न भवत्येवेति तदपि व्यवहारानङ्गत्वान्नाभ्युपगन्तुमर्हति व्यवहारः, अभ्युपगच्छति च परकीयधनं व्यवहार इति तदज्ञानविलसितमेतस्येति परकीयधनाधनभ्युपगन्तुजुसूत्रस्य हृदयम्, एवमग्रेऽपि, अतीतमनागतं च कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थवाचकम अतीता-ऽनागतार्थवाचकम