________________
११२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
ईहाऽपायपरम्परापरिचयः सर्वोऽप्ययं युज्यते, वस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहूर्तावधिम् ।
अन्येषां तु विकल्पशिल्पघटितो बोधस्तृतीयं क्षणध्वंसी ध्वस्तसमस्तहेत्वमिलितः कस्मिन् विचारे क्षमः॥२॥ नयविचारणायां पर्यायनयविषयतद्वि कल्पानां मनागय्यरत्याविर्भावसङ्कथेति भावः, अतः सागरोपमं प्रस्तुतं स्याद्वाद्यभ्युपगतं वस्तुतत्त्वमस्तु । कथमित्थमभ्युपगन्तुं शक्यमित्यपेक्षायामाह- सोपपत्तिक्षममिति- सामान्यापेक्षया विशेषापेक्षया च ये एकस्मिन्नेव वस्तुनि बोधवैचित्र्यप्रकारा व्यवहृतिभेदास्तन्निबन्धन कार्यकारणभावभेदाः प्रामाण्याप्रमाण्यव्यवस्थादयश्च तेषां सर्वेषां स्याद्वाद्यभ्युपगतेऽनेकान्तात्मकवस्तुन्येवोपपत्तिरिति सर्वविचित्र प्रत्यय-व्यवहारादिसमर्थमित्यर्थः । तदीदृशं वस्तु न केवलं बाह्यमेवान्तरमेव तथा, किन्तु बाह्यमाभ्यन्तरं च स्फुटं तथानुभूयमानत्वात् तथाभ्युपगन्तव्यमित्याह- बाह्यं या स्फुटमान्तरमिति- अत्र वाकारः समुच्चयार्थकः । ननु सामान्य-विशेषस्वभावादीनामखण्ड-सखण्डविषयत्वादीनां विरोधाद् यत् सामान्यात्मकं तद्विशेषात्मकं न भवितुमर्हति, यस्मिन् प्रत्यये नानाविषयताशालित्वं न तकविषयताशालित्वम् , अखण्डविषयतादति च न सखण्ड विषयतावत्वमिति प्रस्तुतं वस्तु न सम्भवती. त्यत आह- समुचितस्याद्वादमुद्राङ्कितमिति- प्रामाणिकानी मध्ये विशिष्टाधिपत्यशालित्वेन राजपदाभिषिक्ताना. मनेकान्तवादिनां तत्तनयोषस्थापिततत्तनिमित्तापेक्षया सामान्य विशेषादिविरोधप्रतिरोधकत्वेन समुचितो यः स्याद्वादोऽनेकान्तवादस्तलक्षणा या मुद्रा तयाऽङ्कितमित्यर्थः । उपमाने समुद्रेऽपि गङ्गायमुनादिनदीसमागमप्रभवो यो जलसमष्टेः पर्याय:परित आय आगमनम् , तस्य या मर्यादा तीरमनुल्ल यैव व्यवस्थानं तया, तीरमुल्लङ्घयापि जलागमनस्य भावे तेन सहैव जलकल्लोलमालायाः समतलस्वभावतयैवानवरतान्यान्यभूभागसमवगाहने ऊर्ध्वदेशाकान्त्यभावादुत्थानं न स्यादिति निरुक्तपर्यायमर्यादयैव समुद्रे वीचिनिचया उत्तिष्ठन्तीति, तद्रष्टुः पुरुषस्य द्रव्यं सुवर्णरत्नादिकं तद्रूपो योऽर्थमाणत्वादों धनं सदवहिते तदवधानपरे-एतस्मिन् रत्नाकरे बहूनि रत्नानि सन्ति तानि कल्लोलमालया यदि तीरमागच्छेयुस्तहि यथेष्टतदुपादानतः कृतार्थो भविष्यामीत्येवं तदेकाने, चिर-चिरकालं यावत् , चेतसि सति, तत्रैव-यस्मात् समुद्रादुत्तिष्ठन्ति कल्लोलास्तस्मिन्नेव समुद्रे, ते शाम्यन्ति न तु समुद्रात् तीरं रत्नान्यानयन्तीति द्रष्टुश्चेतसि मनोरथैकप्रवाहशालिनि मनोरथमपरिपूर्थव शाम्यन्ति- विषयभावं परित्यज्यन्ति, सोऽयं समुद्रः सर्वेषां नदी-नदानां योपपत्तिरेकात्र सर्वेषां प्राप्तावपि निराबाधमवस्थानं न तु कस्यचित् तत्रान्तःप्रवेशोऽन्यस्य च तत्र प्रवेशाभाव इत्येवं वैषम्यलक्षणानुपपत्तिस्तत्र क्षमः, सागरे 'समुद्रः' इति संज्ञाऽन्वर्था- मुद्या सह वर्तत इति, उद्यते नौकादिना यत् तत्र तद् बाह्यम् , रत्नादिकं चान्तयंचस्थितत्वादान्तरम् , तदुभयमपि स्फुटं यथा स्यात् तथा समुचितस्याद्वादमुद्राङ्कितम्- समुचितो यः स्याद्वादःअमुकप्रदेशेऽस्य बाह्यं वस्तु, अमुकदेशेऽस्यान्तरं वस्त्वित्येवमस्तित्ववादः, तस्यातिविपुलशरीरत्वादतिगम्भीरदुरवगाहाधस्तलत्वाच्च यन्मुद्रणं प्रत्यक्षादिबुद्धावप्रतिभासनम्, तेनाङ्कितं चिह्नितं बाह्यमाभ्यन्तरं चास्य न प्रत्यक्षादिबुद्धयाऽवधारयितुं शक्यमित्येवं ज्ञेयमिति ॥१॥
यत्र चेतस्यनेकान्तवस्तुविचारकर्मठे विकल्प चिनिचया उत्तिष्ठन्त्यनेकरूपतायां पर्यायार्थिकनयाभिमतायाम् , द्रव्यार्थिकनयामिमतायो त्वेकरूपतायां शाम्यन्ति, तस्य चैतस एकाऽनेकरूपस्य सतो दीर्घोपयोगरूपतया चिरकालावस्थाने सत्यवतन्मननपरायणस्य स्याद्वादिनः प्रामाणिकपरिषदि सुग्राह्यवचनत्वम्, तदेतत् कथमित्यपेक्षायामाह-ईहेति-अव. गृहीतस्य विशेषाकाङ्क्षणमीहा, यथा 'किञ्चिदिदम्' इति नैश्चयिकावग्रह गृहीतस्य सामान्यवस्तुनः श्रोत्र ग्राह्यत्वादिना प्रायः शब्देनानेन भवितव्यमिति 'शब्दोऽयम्' इति व्यावहारिकावग्रहगृहीतस्य वा शब्दत्वावान्तर-सामान्यवतो मधुरत्व.. सुश्रवत्वादिगुणयोगेन प्रायः शाहादिनानेन भवितव्यमिति ज्ञानमीहा, ततः परः ‘शब्द एवायम् , शाल एवायम्' इति निर्णयोऽवायः, ईहितविशेषनिर्णयलक्षणः, तत्परम्परा- विशिष्टबुद्धि-विशिष्टवैशिष्ट्यावगाहिबुद्धचपलक्षितवैशिष्ट्यावगाहिबुद्धिविशिष्टवैशियबुद्धधकत्रद्वयमितिबुद्धिलक्षणावान्तरप्रभेदलक्षणा. तत्परिचयः-परितः सर्वतोभावेन च य एकत्रोपयोगेऽपेक्षाभेदेन सम्मिलनम्, परिचीयते निश्चीयतेऽनेनेति वा परिचयः, तत्तत्सखण्डाखण्डै कानेकविषयतालक्षण्ययोगः । अयम अनन्तरदर्शितस्वरूपः सर्वोऽपि, अपिना न तु तत्र किञ्चिद् युज्यते किञ्चिन्न युज्यत इत्यर्थस्य संशब्दनम् । युज्यते युक्त्या घटते । केषां मते युज्यते? इत्यपेक्षयामाह-वस्त्वंशेऽपीति-अपिना वस्तुनि किमु वक्तव्यमित्यर्थस्यानेडनम् । अन्तर्मुहूर्तावधिमुपयोगमा कलयताम् अन्तर्मुहूर्तं यावदेक उपयोगोऽवतिष्ठत इत्यन्तर्मुहूर्तस्थितिकमेकमुघयोगमभ्युपगच्छता स्यावादिनां मत इत्यर्थः, वस्त्वंशेऽप्यकोपयोगस्यान्तर्मुहूर्त स्थितिकस्य भावे बहुविचारेहापायादिरूपस्य तस्यांशभेदेन विशिष्टबुद्धित्व-विशिष्टवैशिष्टयबुद्धित्वादिधर्मसमावेशस्य सम्भवेनकानेक सखण्डाखण्डविषयत्वादीनां तत्र सम्भवेन तदा