________________
११०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
संशयसामग्यभाव एवेति विशेष्यताविशेषपर्यनुयोगे किमुत्तरम् ? तस्मात् क्षयोपशमविशेषजन्यतावच्छेदिकाः समनियता एवैता विषयिता अन्यापेक्षा भेदेन प्रतीयमाना अंशसमुदितपर्याप्ता अनेका प्रतिपत्तव्याः, प्राह्यस्येव ग्राहकस्य चित्रस्वभावस्यापेक्षयैव विवेचयितुं शक्यत्वात् , हन्त ! एवमखण्डोऽपि विषयताविशेषः सिध्येत् सामान्य दृष्ट्या तथाप्यनुभवात् , तया च तेनैव परामर्शादेहेतुत्वापत्तिरिति चेत् ? निश्चीयमानतया विशिष्टवैशिष्टयबोधविषयी क्रियमाणतत्तद्धर्मविषयकसंशयसामन्यभाव इत्यर्थः । उक्तदिशा प्रकारताविशेषलक्षणविशिष्टवैशिष्टयविषयतानियामकः परैरुपदर्शितो भवति, न च प्रकारतालक्षणविषयताविशेषनियामक एवं विशेष्यताविशेषनियामक इति तत्र विशेष्यताविशेषस्य किं नियामकमिति जिज्ञासायां तन्नियामकम्प्यन्यदेव किश्चिद वाच्यमिति तन्नियामकविशेषकल्पनगौरवमपि परमतेऽपरिहार्यमे वेत्याशयेनाह-विशेष्यताविशेषेति-विशिष्टपर्याप्तप्रकारतानिरूपितविशेष्यतातो विशेष्ये विशेषणमितिज्ञानीयप्रकारतानिरूपितविशेष्यता विलक्षमेव तन्नियामक किमिति पर्यनयोगे प्रश्न किमत्तरं नाकल्पितमुत्तरं तत्र सम्भवतीति किश्चिन्नियामकं परिकल्प्यैवोत्तरं ते स्यात् तत्र च कल्पनागौरवमुपतिष्ठते, एवं प्रकारता विशेष्यत्वयोर्विलक्षणयोरनेकप्रकारयोरिव संसर्गत्वाख्यविषयत्वस्यापि विलक्षणस्यावश्यं स्वीकरणीयतया तन्नियामकमप्यन्यदेव किञ्चित् परेण वाच्यमिति तत्कल्पनागौरवमपीत्याशयः । इत्थमपेक्षाभेदेनैका-ऽनेकस्वभावत्वं ग्राह्यस्य ग्राहकस्यानभ्युपगच्छतामेकान्तवादिनां मननं न युक्तमित्येतावतोपपाद्य, 'यथा च ग्राह्ये एका-ऽनेकतया चित्रस्वभावत्वमानुभविकं तथा ग्राहकज्ञानेऽपि' इत्यादि 'सनयात्मकमहावाक्यार्थज्ञाने एकाऽवशिष्ट प्रमाणाकारता, अनेकाश्चांशिक्यो नयविषयता: परस्परसंयोगजाश्च बढ्योऽनुभूयन्ते इत्यन्तं स्वयं यत् प्रतिज्ञातं तत्समर्थनं च विशिष्टवैशिष्टयबोधस्थलीयनैयायिकाभिमततच्चतुर्विधविभजनकदर्थनमुखेन संक्षेपतः परिसमाप्योपसंहरति-तस्मादिति- उक्तदिशा परेषां विशिष्टवैशिष्ट्यबुद्धिस्थले तत्कार्यकारणभावपरिकल्पनायामनुभवविरुद्धानेककारणपरिकल्पनगौरवतोऽपेक्षाविनिमुक्तकान्तपक्षस्यानुपपद्यमानत्वादित्यर्थः क्षयोपशमेति- 'रक्तदण्डवान् पुरुषः' इत्यादिविशिष्टवैशिष्ट्यज्ञानं तावन्मतिज्ञानम् , तच्च मतिज्ञानावरणीयकर्मक्षयोपशमविशेषसमुत्थमिति तत्र यावन्त्यो विशिष्टवैशिष्ट्यविषयितास्तत्तद्धटकधर्मनिरूपिताः परस्परानिरूपिता अनेका अंशपर्याप्ता: परस्परविशेष्यविशेषणभावशृङ्खलाबबद्धत्वप्रयुक्तवैशिष्ट्यभावलब्धात्मलाभविशिष्टवस्तुस्वरूपनिरूपिता परस्परनिरूप्यनिरूपक.भावलब्धात्मलाभकविषयतानिरूपितकवियिताः ताः सर्वा अनेकांशसमुदितांशिस्वरूपज्ञानगतत्वादशपर्याप्ता अंशिपर्यात भवन्त्येकज्ञानगतत्वात् समनियताः, अंशानामपि परस्परमंश्यभेदतोऽभिन्नत्वमिति विभिन्नतदंशगतानामपि समनियतत्वम् , तावद्विषयिताविशिष्टमतिज्ञानात्मक विशिष्टवैशिष्ट्यबोधस्यावरणक्षयोपशमजन्यत्वे तासां सर्वासामपि निरुक्तक्षयोपशमविशेषजन्यतावच्छेदकत्वमिति तावद्विषयिताविशिष्टवैशिष्ट्यबोध प्रति मतिज्ञानावरणीयकर्मक्षयोपशम विशेषः कारणमित्येकविध कार्यकारणभाव एव स्याद्वादिभिः कल्प्यते, निरुक्तक्षयोपशमविशेषजन्यतावच्छेदकविषयिताश्चैकस्मिन्नपि ज्ञाने विभिन्नापेक्षाभेदैनवानुभूयन्त इति केषाश्चिदपेक्षाभेदेनांशपर्याप्तत्याऽनुभू. यमानानां तत्तनयनिरूपितत्वमंशिपर्याप्ततयाऽनुभूयमानायाश्च प्रमाणनिरूप्यत्वमपि सुघटमेव, तावतैवानेकस्वभावस्य ज्ञानस्य प्रमाणापेक्षयकत्वं नयापेक्षयाऽनेकत्वं चेत्येवं चित्रस्वभावस्य ज्ञानस्य ग्राह्यस्येवापेक्षाभेदेन विवेचनं सुशकमेवेत्यपेक्षाख्यबोधस्वलक्षणं नयत्वमुपपद्यतेतरा मित्यर्थः । 'अन्यापेक्षा भेदेन' इति यथाश्रुतपाठे अन्यापेक्षाः स्वस्वाभ्युपगन्तृन यविशेषप्रमाणापेक्षाः, भेदेन परस्परं भेदेन, प्रतीयाना अनुभूयमान। इत्यर्थः, 'अन्यापेक्षाभेदेन' इति समस्तपाठे तु अन्यः परस्परं भिन्नो यो नैग मसङ्ग्रहादिः, यच्च नयाद् भिन्नं प्रमाणं तल्लक्षणो योऽपेक्षाभेदो निमित्तभेदस्तेन प्रतीयमाना इत्यर्थी बोध्यः । ननु यथा विशिष्टवैशिष्ट्य बोधे प्रमाणप्रयोज्या समुदितपयप्तिका विषयता तनिरूपितका विषयिता वा, विभिन्ननयप्रयोज्या अंशपर्याप्ता अनेका विषयतास्तन्निरूपिता अनेका विषयिता वाऽनुभूयमानत्वादभ्युपगम्यन्ते, तथा सङ्ग्रह. नयेनाखण्डसन्मात्राभ्युपगन्त्राऽखण्डमपि वस्तु तत्र प्रतीतिपदमारोहतीति सङ्ग्रहनयापेक्षयाऽखण्डवस्तुगतोऽखण्डोऽपि विषयताविशेषस्तन्निरूपितोऽखण्डो विषयिताविशेषोऽपि वा प्रतीयमानत्वादभ्युपेयः, तथा चानुमिति प्रति परामर्शस्य हेतुतावच्छेदकावच्छिन्नहेतुनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकतानिरूपितेत्यादिदर्शितनिरूप्यनिरूपकभावशङ्खलावबद्धहेतुतावच्छेदकावच्छिन्नप्रकारताकत्वेन किमिति कारणत्वं कल्पनीयम्, किन्तु सामान्यदृष्ट्यपेक्षयाऽनुभूयमानेन विषस्ताविशेषेण विषयिताविशेषेण वा हेतुत्वमेवोपेयतामित्याशते-हस्तेति 'विषयताविशेष' इति विषयिताविशेषस्याप्युपलक्षणम् । सामान्य दृष्ट्या सामान्यमाहिसङ्ग्रहनयाश्रयणेन । तथापि अखण्डविषयतादत्तयाऽपि । अनुभवात् विशिष्टवैशिष्ट्यबोधस्यानुभवात् । तथापि' इति स्थाने ' तस्यापि' इति पाठे- अस्य अखण्ड विषयताविशेषस्येत्यर्थः । तथा च अखण्डविषयताविशेषस्य सिद्धौ च। तेनैव अखण्डविषयताविशेषरूपेण समाधत्ते-सत्यमिति- सामान्यदृष्ट्याऽखण्डविषयता